Sabha Parva, Adhyaya 16, Verse 1
जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च
या वै युक्ता मतिः सेयमर्जुनेन प्रदर्शिता
Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.
जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च
या वै युक्ता मतिः सेयमर्जुनेन प्रदर्शिता
न मृत्योः समयं विद्म रात्रौ वा यदि वा दिवा
न चापि कंचिदमरमयुद्धेनापि शुश्रुमः
एतावदेव पुरुषैः कार्यं हृदयतोषणम्
नयेन विधिदृष्टेन यदुपक्रमते परान्
सुनयस्यानपायस्य संयुगे परमः क्रमः
संशयो जायते साम्ये साम्यं च न भवेद्द्वयोः
ते वयं नयमास्थाय शत्रुदेहसमीपगाः
कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः
पररन्ध्रे पराक्रान्ताः स्वरन्ध्रावरणे स्थिताः
व्यूढानीकैरनुबलैर्नोपेयाद्बलवत्तरम्
इति बुद्धिमतां नीतिस्तन्ममापीह रोचते
अनवद्या ह्यसंबुद्धाः प्रविष्टाः शत्रुसद्म तत्
शत्रुदेहमुपाक्रम्य तं कामं प्राप्नुयामहे
एको ह्येव श्रियं नित्यं बिभर्ति पुरुषर्षभ
अन्तरात्मेव भूतानां तत्क्षये वै बलक्षयः
अथ चेत्तं निहत्याजौ शेषेणाभिसमागताः
प्राप्नुयाम ततः स्वर्गं ज्ञातित्राणपरायणाः
कृष्ण कोऽयं जरासंधः किंवीर्यः किंपराक्रमः
यस्त्वां स्पृष्ट्वाग्निसदृशं न दग्धः शलभो यथा
शृणु राजञ्जरासंधो यद्वीर्यो यत्पराक्रमः
यथा चोपेक्षितोऽस्माभिर्बहुशः कृतविप्रियः
अक्षौहिणीनां तिसृणामासीत्समरदर्पितः
राजा बृहद्रथो नाम मगधाधिपतिः पतिः
रूपवान्वीर्यसंपन्नः श्रीमानतुलविक्रमः
नित्यं दीक्षाकृशतनुः शतक्रतुरिवापरः
तेजसा सूर्यसदृशः क्षमया पृथिवीसमः
यमान्तकसमः कोपे श्रिया वैश्रवणोपमः
तस्याभिजनसंयुक्तैर्गुणैर्भरतसत्तम
व्याप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः
स काशिराजस्य सुते यमजे भरतर्षभ
उपयेमे महावीर्यो रूपद्रविणसंमते
तयोश्चकार समयं मिथः स पुरुषर्षभः
नातिवर्तिष्य इत्येवं पत्नीभ्यां संनिधौ तदा
स ताभ्यां शुशुभे राजा पत्नीभ्यां मनुजाधिप
प्रियाभ्यामनुरूपाभ्यां करेणुभ्यामिव द्विपः
तयोर्मध्यगतश्चापि रराज वसुधाधिपः
गङ्गायमुनयोर्मध्ये मूर्तिमानिव सागरः
विषयेषु निमग्नस्य तस्य यौवनमत्यगात्
न च वंशकरः पुत्रस्तस्याजायत कश्चन
मङ्गलैर्बहुभिर्होमैः पुत्रकामाभिरिष्टिभिः
नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम्
अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः
शुश्राव तपसि श्रान्तमुदारं चण्डकौशिकम्
यदृच्छयागतं तं तु वृक्षमूलमुपाश्रितम्
पत्नीभ्यां सहितो राजा सर्वरत्नैरतोषयत्
तमब्रवीत्सत्यधृतिः सत्यवागृषिसत्तमः
परितुष्टोऽस्मि ते राजन्वरं वरय सुव्रत
ततः सभार्यः प्रणतस्तमुवाच बृहद्रथः
पुत्रदर्शननैराश्याद्बाष्पगद्गदया गिरा
भगवन्राज्यमुत्सृज्य प्रस्थितस्य तपोवनम्
किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे
एतच्छ्रुत्वा मुनिर्ध्यानमगमत्क्षुभितेन्द्रियः
तस्यैव चाम्रवृक्षस्य छायायां समुपाविशत्
तस्योपविष्टस्य मुनेरुत्सङ्गे निपपात ह
अवातमशुकादष्टमेकमाम्रफलं किल
तत्प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च
राज्ञे ददावप्रतिमं पुत्रसंप्राप्तिकारकम्
उवाच च महाप्राज्ञस्तं राजानं महामुनिः
गच्छ राजन्कृतार्थोऽसि निवर्त मनुजाधिप