Mahabharata

Sabha Parva, Adhyaya 15

Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 15, Verse 1

सम्राड्गुणमभीप्सन्वै युष्मान्स्वार्थपरायणः

कथं प्रहिणुयां भीमं बलात्केवलसाहसात्

Mahabharata

Sabha Parva, Adhyaya 15, Verse 2

भीमार्जुनावुभौ नेत्रे मनो मन्ये जनार्दनम्

मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत्

Mahabharata

Sabha Parva, Adhyaya 15, Verse 3

जरासंधबलं प्राप्य दुष्पारं भीमविक्रमम्

श्रमो हि वः पराजय्यात्किमु तत्र विचेष्टितम्

Mahabharata

Sabha Parva, Adhyaya 15, Verse 4

अस्मिन्नर्थान्तरे युक्तमनर्थः प्रतिपद्यते

यथाहं विमृशाम्येकस्तत्तावच्छ्रूयतां मम

Mahabharata

Sabha Parva, Adhyaya 15, Verse 5

संन्यासं रोचये साधु कार्यस्यास्य जनार्दन

प्रतिहन्ति मनो मेऽद्य राजसूयो दुरासदः

Mahabharata

Sabha Parva, Adhyaya 15, Verse 6

पार्थः प्राप्य धनुःश्रेष्ठमक्षय्यौ च महेषुधी

रथं ध्वजं सभां चैव युधिष्ठिरमभाषत

Mahabharata

Sabha Parva, Adhyaya 15, Verse 7

धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम्

प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम्

Mahabharata

Sabha Parva, Adhyaya 15, Verse 8

कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः

बलेन सदृशं नास्ति वीर्यं तु मम रोचते

Mahabharata

Sabha Parva, Adhyaya 15, Verse 9

कृतवीर्यकुले जातो निर्वीर्यः किं करिष्यति

क्षत्रियः सर्वशो राजन्यस्य वृत्तिः पराजये

Mahabharata

Sabha Parva, Adhyaya 15, Verse 10

सर्वैरपि गुणैर्हीनो वीर्यवान्हि तरेद्रिपून्

सर्वैरपि गुणैर्युक्तो निर्वीर्यः किं करिष्यति

Mahabharata

Sabha Parva, Adhyaya 15, Verse 11

द्रव्यभूता गुणाः सर्वे तिष्ठन्ति हि पराक्रमे

जयस्य हेतुः सिद्धिर्हि कर्म दैवं च संश्रितम्

Mahabharata

Sabha Parva, Adhyaya 15, Verse 12

संयुक्तो हि बलैः कश्चित्प्रमादान्नोपयुज्यते

तेन द्वारेण शत्रुभ्यः क्षीयते सबलो रिपुः

Mahabharata

Sabha Parva, Adhyaya 15, Verse 13

दैन्यं यथाबलवति तथा मोहो बलान्विते

तावुभौ नाशकौ हेतू राज्ञा त्याज्यौ जयार्थिना

Mahabharata

Sabha Parva, Adhyaya 15, Verse 14

जरासंधविनाशं च राज्ञां च परिमोक्षणम्

यदि कुर्याम यज्ञार्थं किं ततः परमं भवेत्

Mahabharata

Sabha Parva, Adhyaya 15, Verse 15

अनारम्भे तु नियतो भवेदगुणनिश्चयः

गुणान्निःसंशयाद्राजन्नैर्गुण्यं मन्यसे कथम्

Mahabharata

Sabha Parva, Adhyaya 15, Verse 16

काषायं सुलभं पश्चान्मुनीनां शममिच्छताम्

साम्राज्यं तु तवेच्छन्तो वयं योत्स्यामहे परैः