Mahabharata

Sabha Parva, Adhyaya 14

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 14, Verse 1

उक्तं त्वया बुद्धिमता यन्नान्यो वक्तुमर्हति

संशयानां हि निर्मोक्ता त्वन्नान्यो विद्यते भुवि

Mahabharata

Sabha Parva, Adhyaya 14, Verse 2

गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियंकराः

न च साम्राज्यमाप्तास्ते सम्राट्शब्दो हि कृत्स्नभाक्

Mahabharata

Sabha Parva, Adhyaya 14, Verse 3

कथं परानुभावज्ञः स्वं प्रशंसितुमर्हति

परेण समवेतस्तु यः प्रशस्तः स पूज्यते

Mahabharata

Sabha Parva, Adhyaya 14, Verse 4

विशाला बहुला भूमिर्बहुरत्नसमाचिता

दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोद्वह

Mahabharata

Sabha Parva, Adhyaya 14, Verse 5

शममेव परं मन्ये न तु मोक्षाद्भवेच्छमः

आरम्भे पारमेष्ठ्यं तु न प्राप्यमिति मे मतिः

Mahabharata

Sabha Parva, Adhyaya 14, Verse 6

एवमेवाभिजानन्ति कुले जाता मनस्विनः

कश्चित्कदाचिदेतेषां भवेच्छ्रेष्ठो जनार्दन

Mahabharata

Sabha Parva, Adhyaya 14, Verse 7

अनारम्भपरो राजा वल्मीक इव सीदति

दुर्बलश्चानुपायेन बलिनं योऽधितिष्ठति

Mahabharata

Sabha Parva, Adhyaya 14, Verse 8

अतन्द्रितस्तु प्रायेण दुर्बलो बलिनं रिपुम्

जयेत्सम्यङ्नयो राजन्नीत्यार्थानात्मनो हितान्

Mahabharata

Sabha Parva, Adhyaya 14, Verse 9

कृष्णे नयो मयि बलं जयः पार्थे धनंजये

मागधं साधयिष्यामो वयं त्रय इवाग्नयः

Mahabharata

Sabha Parva, Adhyaya 14, Verse 10

आदत्तेऽर्थपरो बालो नानुबन्धमवेक्षते

तस्मादरिं न मृष्यन्ति बालमर्थपरायणम्

Mahabharata

Sabha Parva, Adhyaya 14, Verse 11

हित्वा करान्यौवनाश्वः पालनाच्च भगीरथः

कार्तवीर्यस्तपोयोगाद्बलात्तु भरतो विभुः

ऋद्ध्या मरुत्तस्तान्पञ्च सम्राज इति शुश्रुमः

Mahabharata

Sabha Parva, Adhyaya 14, Verse 12

निग्राह्यलक्षणं प्राप्तो धर्मार्थनयलक्षणैः

बार्हद्रथो जरासंधस्तद्विद्धि भरतर्षभ

Mahabharata

Sabha Parva, Adhyaya 14, Verse 13

न चैनमनुरुध्यन्ते कुलान्येकशतं नृपाः

तस्मादेतद्बलादेव साम्राज्यं कुरुतेऽद्य सः

Mahabharata

Sabha Parva, Adhyaya 14, Verse 14

रत्नभाजो हि राजानो जरासंधमुपासते

न च तुष्यति तेनापि बाल्यादनयमास्थितः

Mahabharata

Sabha Parva, Adhyaya 14, Verse 15

मूर्धाभिषिक्तं नृपतिं प्रधानपुरुषं बलात्

आदत्ते न च नो दृष्टोऽभागः पुरुषतः क्वचित्

Mahabharata

Sabha Parva, Adhyaya 14, Verse 16

एवं सर्वान्वशे चक्रे जरासंधः शतावरान्

तं दुर्बलतरो राजा कथं पार्थ उपैष्यति

Mahabharata

Sabha Parva, Adhyaya 14, Verse 17

प्रोक्षितानां प्रमृष्टानां राज्ञां पशुपतेर्गृहे

पशूनामिव का प्रीतिर्जीविते भरतर्षभ

Mahabharata

Sabha Parva, Adhyaya 14, Verse 18

क्षत्रियः शस्त्रमरणो यदा भवति सत्कृतः

ननु स्म मागधं सर्वे प्रतिबाधेम यद्वयम्

Mahabharata

Sabha Parva, Adhyaya 14, Verse 19

षडशीतिः समानीताः शेषा राजंश्चतुर्दश

जरासंधेन राजानस्ततः क्रूरं प्रपत्स्यते

Mahabharata

Sabha Parva, Adhyaya 14, Verse 20

प्राप्नुयात्स यशो दीप्तं तत्र यो विघ्नमाचरेत्

जयेद्यश्च जरासंधं स सम्राण्नियतं भवेत्