Mahabharata

Sabha Parva, Adhyaya 12

Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 12, Verse 1

ऋषेस्तद्वचनं श्रुत्वा निशश्वास युधिष्ठिरः

चिन्तयन्राजसूयाप्तिं न लेभे शर्म भारत

Mahabharata

Sabha Parva, Adhyaya 12, Verse 2

राजर्षीणां हि तं श्रुत्वा महिमानं महात्मनाम्

यज्वनां कर्मभिः पुण्यैर्लोकप्राप्तिं समीक्ष्य च

Mahabharata

Sabha Parva, Adhyaya 12, Verse 3

हरिश्चन्द्रं च राजर्षिं रोचमानं विशेषतः

यज्वानं यज्ञमाहर्तुं राजसूयमियेष सः

Mahabharata

Sabha Parva, Adhyaya 12, Verse 4

युधिष्ठिरस्ततः सर्वानर्चयित्वा सभासदः

प्रत्यर्चितश्च तैः सर्वैर्यज्ञायैव मनो दधे

Mahabharata

Sabha Parva, Adhyaya 12, Verse 5

स राजसूयं राजेन्द्र कुरूणामृषभः क्रतुम्

आहर्तुं प्रवणं चक्रे मनः संचिन्त्य सोऽसकृत्

Mahabharata

Sabha Parva, Adhyaya 12, Verse 6

भूयश्चाद्भुतवीर्यौजा धर्ममेवानुपालयन्

किं हितं सर्वलोकानां भवेदिति मनो दधे

Mahabharata

Sabha Parva, Adhyaya 12, Verse 7

अनुगृह्णन्प्रजाः सर्वाः सर्वधर्मविदां वरः

अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः

Mahabharata

Sabha Parva, Adhyaya 12, Verse 8

एवं गते ततस्तस्मिन्पितरीवाश्वसञ्जनाः

न तस्य विद्यते द्वेष्टा ततोऽस्याजातशत्रुता

Mahabharata

Sabha Parva, Adhyaya 12, Verse 9

स मन्त्रिणः समानाय्य भ्रातॄंश्च वदतां वरः

राजसूयं प्रति तदा पुनः पुनरपृच्छत

Mahabharata

Sabha Parva, Adhyaya 12, Verse 10

ते पृच्छ्यमानाः सहिता वचोऽर्थ्यं मन्त्रिणस्तदा

युधिष्ठिरं महाप्राज्ञं यियक्षुमिदमब्रुवन्

Mahabharata

Sabha Parva, Adhyaya 12, Verse 11

येनाभिषिक्तो नृपतिर्वारुणं गुणमृच्छति

तेन राजापि सन्कृत्स्नं सम्राड्गुणमभीप्सति

Mahabharata

Sabha Parva, Adhyaya 12, Verse 12

तस्य सम्राड्गुणार्हस्य भवतः कुरुनन्दन

राजसूयस्य समयं मन्यन्ते सुहृदस्तव

Mahabharata

Sabha Parva, Adhyaya 12, Verse 13

तस्य यज्ञस्य समयः स्वाधीनः क्षत्रसंपदा

साम्ना षडग्नयो यस्मिंश्चीयन्ते संशितव्रतैः

Mahabharata

Sabha Parva, Adhyaya 12, Verse 14

दर्वीहोमानुपादाय सर्वान्यः प्राप्नुते क्रतून्

अभिषेकं च यज्ञान्ते सर्वजित्तेन चोच्यते

Mahabharata

Sabha Parva, Adhyaya 12, Verse 15

समर्थोऽसि महाबाहो सर्वे ते वशगा वयम्

अविचार्य महाराज राजसूये मनः कुरु

Mahabharata

Sabha Parva, Adhyaya 12, Verse 16

इत्येवं सुहृदः सर्वे पृथक्च सह चाब्रुवन्

स धर्म्यं पाण्डवस्तेषां वचः श्रुत्वा विशां पते

धृष्टमिष्टं वरिष्ठं च जग्राह मनसारिहा

Mahabharata

Sabha Parva, Adhyaya 12, Verse 17

श्रुत्वा सुहृद्वचस्तच्च जानंश्चाप्यात्मनः क्षमम्

पुनः पुनर्मनो दध्रे राजसूयाय भारत

Mahabharata

Sabha Parva, Adhyaya 12, Verse 18

स भ्रातृभिः पुनर्धीमानृत्विग्भिश्च महात्मभिः

धौम्यद्वैपायनाद्यैश्च मन्त्रयामास मन्त्रिभिः

Mahabharata

Sabha Parva, Adhyaya 12, Verse 19

इयं या राजसूयस्य सम्राडर्हस्य सुक्रतोः

श्रद्दधानस्य वदतः स्पृहा मे सा कथं भवेत्

Mahabharata

Sabha Parva, Adhyaya 12, Verse 20

एवमुक्तास्तु ते तेन राज्ञा राजीवलोचन

इदमूचुर्वचः काले धर्मात्मानं युधिष्ठिरम्

अर्हस्त्वमसि धर्मज्ञ राजसूयं महाक्रतुम्

Mahabharata

Sabha Parva, Adhyaya 12, Verse 21

अथैवमुक्ते नृपतावृत्विग्भिरृषिभिस्तथा

मन्त्रिणो भ्रातरश्चास्य तद्वचः प्रत्यपूजयन्

Mahabharata

Sabha Parva, Adhyaya 12, Verse 22

स तु राजा महाप्राज्ञः पुनरेवात्मनात्मवान्

भूयो विममृशे पार्थो लोकानां हितकाम्यया

Mahabharata

Sabha Parva, Adhyaya 12, Verse 23

सामर्थ्ययोगं संप्रेक्ष्य देशकालौ व्ययागमौ

विमृश्य सम्यक्च धिया कुर्वन्प्राज्ञो न सीदति

Mahabharata

Sabha Parva, Adhyaya 12, Verse 24

न हि यज्ञसमारम्भः केवलात्मविपत्तये

भवतीति समाज्ञाय यत्नतः कार्यमुद्वहन्

Mahabharata

Sabha Parva, Adhyaya 12, Verse 25

स निश्चयार्थं कार्यस्य कृष्णमेव जनार्दनम्

सर्वलोकात्परं मत्वा जगाम मनसा हरिम्

Mahabharata

Sabha Parva, Adhyaya 12, Verse 26

अप्रमेयं महाबाहुं कामाज्जातमजं नृषु

पाण्डवस्तर्कयामास कर्मभिर्देवसंमितैः

Mahabharata

Sabha Parva, Adhyaya 12, Verse 27

नास्य किंचिदविज्ञातं नास्य किंचिदकर्मजम्

न स किंचिन्न विषहेदिति कृष्णममन्यत

Mahabharata

Sabha Parva, Adhyaya 12, Verse 28

स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थो युधिष्ठिरः

गुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जसा

Mahabharata

Sabha Parva, Adhyaya 12, Verse 29

शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान्

द्वारकावासिनं कृष्णं द्वारवत्यां समासदत्

Mahabharata

Sabha Parva, Adhyaya 12, Verse 30

दर्शनाकाङ्क्षिणं पार्थं दर्शनाकाङ्क्षयाच्युतः

इन्द्रसेनेन सहित इन्द्रप्रस्थं ययौ तदा