Sabha Parva, Adhyaya 11, Verse 1
पुरा देवयुगे राजन्नादित्यो भगवान्दिवः
आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः
Containing 73 sacred Sanskrit shlokas with multi-author commentaries and translations.
पुरा देवयुगे राजन्नादित्यो भगवान्दिवः
आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः
चरन्मानुषरूपेण सभां दृष्ट्वा स्वयंभुवः
सभामकथयन्मह्यं ब्राह्मीं तत्त्वेन पाण्डव
अप्रमेयप्रभां दिव्यां मानसीं भरतर्षभ
अनिर्देश्यां प्रभावेन सर्वभूतमनोरमाम्
श्रुत्वा गुणानहं तस्याः सभायाः पाण्डुनन्दन
दर्शनेप्सुस्तथा राजन्नादित्यमहमब्रुवम्
भगवन्द्रष्टुमिच्छामि पितामहसभामहम्
येन सा तपसा शक्या कर्मणा वापि गोपते
औषधैर्वा तथा युक्तैरुत वा मायया यया
तन्ममाचक्ष्व भगवन्पश्येयं तां सभां कथम्
ततः स भगवान्सूर्यो मामुपादाय वीर्यवान्
अगच्छत्तां सभां ब्राह्मीं विपापां विगतक्लमाम्
एवंरूपेति सा शक्या न निर्देष्टुं जनाधिप
क्षणेन हि बिभर्त्यन्यदनिर्देश्यं वपुस्तथा
न वेद परिमाणं वा संस्थानं वापि भारत
न च रूपं मया तादृग्दृष्टपूर्वं कदाचन
सुसुखा सा सभा राजन्न शीता न च घर्मदा
न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्नुवन्त्युत
नानारूपैरिव कृता सुविचित्रैः सुभास्वरैः
स्तम्भैर्न च धृता सा तु शाश्वती न च सा क्षरा
अति चन्द्रं च सूर्यं च शिखिनं च स्वयंप्रभा
दीप्यते नाकपृष्ठस्था भासयन्तीव भास्करम्
तस्यां स भगवानास्ते विदधद्देवमायया
स्वयमेकोऽनिशं राजँल्लोकाँल्लोकपितामहः
उपतिष्ठन्ति चाप्येनं प्रजानां पतयः प्रभुम्
दक्षः प्रचेताः पुलहो मरीचिः कश्यपस्तथा
भृगुरत्रिर्वसिष्ठश्च गौतमश्च तथाङ्गिराः
मनोऽन्तरिक्षं विद्याश्च वायुस्तेजो जलं मही
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च भारत
प्रकृतिश्च विकारश्च यच्चान्यत्कारणं भुवः
चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान्
वायवः क्रतवश्चैव संकल्पः प्राण एव च
एते चान्ये च बहवः स्वयंभुवमुपस्थिताः
अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः
आयान्ति तस्यां सहिता गन्धर्वाप्सरसस्तथा
विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः
शुक्रो बृहस्पतिश्चैव बुधोऽङ्गारक एव च
शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च
मन्त्रो रथंतरश्चैव हरिमान्वसुमानपि
आदित्याः साधिराजानो नानाद्वंद्वैरुदाहृताः
मरुतो विश्वकर्मा च वसवश्चैव भारत
तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ
ऋग्वेदः सामवेदश्च यजुर्वेदश्च पाण्डव
अथर्ववेदश्च तथा पर्वाणि च विशां पते
इतिहासोपवेदाश्च वेदाङ्गानि च सर्वशः
ग्रहा यज्ञाश्च सोमश्च दैवतानि च सर्वशः
सावित्री दुर्गतरणी वाणी सप्तविधा तथा
मेधा धृतिः श्रुतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा
सामानि स्तुतिशस्त्राणि गाथाश्च विविधास्तथा
भाष्याणि तर्कयुक्तानि देहवन्ति विशां पते
क्षणा लवा मुहूर्ताश्च दिवा रात्रिस्तथैव च
अर्धमासाश्च मासाश्च ऋतवः षट्च भारत
संवत्सराः पञ्चयुगमहोरात्राश्चतुर्विधाः
कालचक्रं च यद्दिव्यं नित्यमक्षयमव्ययम्
अदितिर्दितिर्दनुश्चैव सुरसा विनता इरा
कालका सुरभिर्देवी सरमा चाथ गौतमी
आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि
विश्वेदेवाश्च साध्याश्च पितरश्च मनोजवाः