Mahabharata

Sabha Parva, Adhyaya 10

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 10, Verse 1

सभा वैश्रवणी राजञ्शतयोजनमायता

विस्तीर्णा सप्ततिश्चैव योजनानि सितप्रभा

Mahabharata

Sabha Parva, Adhyaya 10, Verse 2

तपसा निर्मिता राजन्स्वयं वैश्रवणेन सा

शशिप्रभा खेचरीणां कैलासशिखरोपमा

Mahabharata

Sabha Parva, Adhyaya 10, Verse 3

गुह्यकैरुह्यमाना सा खे विषक्तेव दृश्यते

दिव्या हेममयैरुच्चैः पादपैरुपशोभिता

Mahabharata

Sabha Parva, Adhyaya 10, Verse 4

रश्मिवती भास्वरा च दिव्यगन्धा मनोरमा

सिताभ्रशिखराकारा प्लवमानेव दृश्यते

Mahabharata

Sabha Parva, Adhyaya 10, Verse 5

तस्यां वैश्रवणो राजा विचित्राभरणाम्बरः

स्त्रीसहस्रावृतः श्रीमानास्ते ज्वलितकुण्डलः

Mahabharata

Sabha Parva, Adhyaya 10, Verse 6

दिवाकरनिभे पुण्ये दिव्यास्तरणसंवृते

दिव्यपादोपधाने च निषण्णः परमासने

Mahabharata

Sabha Parva, Adhyaya 10, Verse 7

मन्दाराणामुदाराणां वनानि सुरभीणि च

सौगन्धिकानां चादाय गन्धान्गन्धवहः शुचिः

Mahabharata

Sabha Parva, Adhyaya 10, Verse 8

नलिन्याश्चालकाख्यायाश्चन्दनानां वनस्य च

मनोहृदयसंह्लादी वायुस्तमुपसेवते

Mahabharata

Sabha Parva, Adhyaya 10, Verse 9

तत्र देवाः सगन्धर्वा गणैरप्सरसां वृताः

दिव्यतानेन गीतानि गान्ति दिव्यानि भारत

Mahabharata

Sabha Parva, Adhyaya 10, Verse 10

मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता

चारुनेत्रा घृताची च मेनका पुञ्जिकस्थला

Mahabharata

Sabha Parva, Adhyaya 10, Verse 11

विश्वाची सहजन्या च प्रम्लोचा उर्वशी इरा

वर्गा च सौरभेयी च समीची बुद्बुदा लता

Mahabharata

Sabha Parva, Adhyaya 10, Verse 12

एताः सहस्रशश्चान्या नृत्तगीतविशारदाः

उपतिष्ठन्ति धनदं पाण्डवाप्सरसां गणाः

Mahabharata

Sabha Parva, Adhyaya 10, Verse 13

अनिशं दिव्यवादित्रैर्नृत्तैर्गीतैश्च सा सभा

अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः

Mahabharata

Sabha Parva, Adhyaya 10, Verse 14

किंनरा नाम गन्धर्वा नरा नाम तथापरे

मणिभद्रोऽथ धनदः श्वेतभद्रश्च गुह्यकः

Mahabharata

Sabha Parva, Adhyaya 10, Verse 15

कशेरको गण्डकण्डुः प्रद्योतश्च महाबलः

कुस्तुम्बुरुः पिशाचश्च गजकर्णो विशालकः

Mahabharata

Sabha Parva, Adhyaya 10, Verse 16

वराहकर्णः सान्द्रोष्ठः फलभक्षः फलोदकः

अङ्गचूडः शिखावर्तो हेमनेत्रो विभीषणः

Mahabharata

Sabha Parva, Adhyaya 10, Verse 17

पुष्पाननः पिङ्गलकः शोणितोदः प्रवालकः

वृक्षवास्यनिकेतश्च चीरवासाश्च भारत

Mahabharata

Sabha Parva, Adhyaya 10, Verse 18

एते चान्ये च बहवो यक्षाः शतसहस्रशः

सदा भगवती च श्रीस्तथैव नलकूबरः

Mahabharata

Sabha Parva, Adhyaya 10, Verse 19

अहं च बहुशस्तस्यां भवन्त्यन्ये च मद्विधाः

आचार्याश्चाभवंस्तत्र तथा देवर्षयोऽपरे

Mahabharata

Sabha Parva, Adhyaya 10, Verse 20

भगवान्भूतसंघैश्च वृतः शतसहस्रशः

उमापतिः पशुपतिः शूलधृग्भगनेत्रहा

Mahabharata

Sabha Parva, Adhyaya 10, Verse 21

त्र्यम्बको राजशार्दूल देवी च विगतक्लमा

वामनैर्विकटैः कुब्जैः क्षतजाक्षैर्मनोजवैः

Mahabharata

Sabha Parva, Adhyaya 10, Verse 22

मांसमेदोवसाहारैरुग्रश्रवणदर्शनैः

नानाप्रहरणैर्घोरैर्वातैरिव महाजवैः

वृतः सखायमन्वास्ते सदैव धनदं नृप

Mahabharata

Sabha Parva, Adhyaya 10, Verse 23

सा सभा तादृशी राजन्मया दृष्टान्तरिक्षगा

पितामहसभां राजन्कथयिष्ये गतक्लमाम्