Mahabharata

Sabha Parva, Adhyaya 9

Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 9, Verse 1

युधिष्ठिर सभा दिव्या वरुणस्य सितप्रभा

प्रमाणेन यथा याम्या शुभप्राकारतोरणा

Mahabharata

Sabha Parva, Adhyaya 9, Verse 2

अन्तःसलिलमास्थाय विहिता विश्वकर्मणा

दिव्यरत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युता

Mahabharata

Sabha Parva, Adhyaya 9, Verse 3

नीलपीतासितश्यामैः सितैर्लोहितकैरपि

अवतानैस्तथा गुल्मैः पुष्पमञ्जरिधारिभिः

Mahabharata

Sabha Parva, Adhyaya 9, Verse 4

तथा शकुनयस्तस्यां नानारूपा मृदुस्वराः

अनिर्देश्या वपुष्मन्तः शतशोऽथ सहस्रशः

Mahabharata

Sabha Parva, Adhyaya 9, Verse 5

सा सभा सुखसंस्पर्शा न शीता न च घर्मदा

वेश्मासनवती रम्या सिता वरुणपालिता

Mahabharata

Sabha Parva, Adhyaya 9, Verse 6

यस्यामास्ते स वरुणो वारुण्या सह भारत

दिव्यरत्नाम्बरधरो भूषणैरुपशोभितः

Mahabharata

Sabha Parva, Adhyaya 9, Verse 7

स्रग्विणो भूषिताश्चापि दिव्यमाल्यानुकर्षिणः

आदित्यास्तत्र वरुणं जलेश्वरमुपासते

Mahabharata

Sabha Parva, Adhyaya 9, Verse 8

वासुकिस्तक्षकश्चैव नागश्चैरावतस्तथा

कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्यवान्

Mahabharata

Sabha Parva, Adhyaya 9, Verse 9

कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ

मणिमान्कुण्डलधरः कर्कोटकधनंजयौ

Mahabharata

Sabha Parva, Adhyaya 9, Verse 10

प्रह्लादो मूषिकादश्च तथैव जनमेजयः

पताकिनो मण्डलिनः फणवन्तश्च सर्वशः

Mahabharata

Sabha Parva, Adhyaya 9, Verse 11

एते चान्ये च बहवः सर्पास्तस्यां युधिष्ठिर

उपासते महात्मानं वरुणं विगतक्लमाः

Mahabharata

Sabha Parva, Adhyaya 9, Verse 12

बलिर्वैरोचनो राजा नरकः पृथिवींजयः

प्रह्लादो विप्रचित्तिश्च कालखञ्जाश्च सर्वशः

Mahabharata

Sabha Parva, Adhyaya 9, Verse 13

सुहनुर्दुर्मुखः शङ्खः सुमनाः सुमतिः स्वनः

घटोदरो महापार्श्वः क्रथनः पिठरस्तथा

Mahabharata

Sabha Parva, Adhyaya 9, Verse 14

विश्वरूपः सुरूपश्च विरूपोऽथ महाशिराः

दशग्रीवश्च वाली च मेघवासा दशावरः

Mahabharata

Sabha Parva, Adhyaya 9, Verse 15

कैटभो विटटूतश्च संह्रादश्चेन्द्रतापनः

दैत्यदानवसंघाश्च सर्वे रुचिरकुण्डलाः

Mahabharata

Sabha Parva, Adhyaya 9, Verse 16

स्रग्विणो मौलिनः सर्वे तथा दिव्यपरिच्छदाः

सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः

Mahabharata

Sabha Parva, Adhyaya 9, Verse 17

ते तस्यां वरुणं देवं धर्मपाशस्थिताः सदा

उपासते महात्मानं सर्वे सुचरितव्रताः

Mahabharata

Sabha Parva, Adhyaya 9, Verse 18

तथा समुद्राश्चत्वारो नदी भागीरथी च या

कालिन्दी विदिशा वेण्णा नर्मदा वेगवाहिनी

Mahabharata

Sabha Parva, Adhyaya 9, Verse 19

विपाशा च शतद्रुश्च चन्द्रभागा सरस्वती

इरावती वितस्ता च सिन्धुर्देवनदस्तथा

Mahabharata

Sabha Parva, Adhyaya 9, Verse 20

गोदावरी कृष्णवेण्णा कावेरी च सरिद्वरा

एताश्चान्याश्च सरितस्तीर्थानि च सरांसि च

Mahabharata

Sabha Parva, Adhyaya 9, Verse 21

कूपाश्च सप्रस्रवणा देहवन्तो युधिष्ठिर

पल्वलानि तडागानि देहवन्त्यथ भारत

Mahabharata

Sabha Parva, Adhyaya 9, Verse 22

दिशस्तथा मही चैव तथा सर्वे महीधराः

उपासते महात्मानं सर्वे जलचरास्तथा

Mahabharata

Sabha Parva, Adhyaya 9, Verse 23

गीतवादित्रवन्तश्च गन्धर्वाप्सरसां गणाः

स्तुवन्तो वरुणं तस्यां सर्व एव समासते

Mahabharata

Sabha Parva, Adhyaya 9, Verse 24

महीधरा रत्नवन्तो रसा येषु प्रतिष्ठिताः

सर्वे विग्रहवन्तस्ते तमीश्वरमुपासते

Mahabharata

Sabha Parva, Adhyaya 9, Verse 25

एषा मया संपतता वारुणी भरतर्षभ

दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु