Mahabharata

Sabha Parva, Adhyaya 8

Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 8, Verse 1

कथयिष्ये सभां दिव्यां युधिष्ठिर निबोध ताम्

वैवस्वतस्य यामर्थे विश्वकर्मा चकार ह

Mahabharata

Sabha Parva, Adhyaya 8, Verse 2

तैजसी सा सभा राजन्बभूव शतयोजना

विस्तारायामसंपन्ना भूयसी चापि पाण्डव

Mahabharata

Sabha Parva, Adhyaya 8, Verse 3

अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामचारिणी

नैवातिशीता नात्युष्णा मनसश्च प्रहर्षिणी

Mahabharata

Sabha Parva, Adhyaya 8, Verse 4

न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम्

न च दैन्यं क्लमो वापि प्रतिकूलं न चाप्युत

Mahabharata

Sabha Parva, Adhyaya 8, Verse 5

सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः

रसवच्च प्रभूतं च भक्ष्यभोज्यमरिंदम

Mahabharata

Sabha Parva, Adhyaya 8, Verse 6

पुण्यगन्धाः स्रजस्तत्र नित्यपुष्पफलद्रुमाः

रसवन्ति च तोयानि शीतान्युष्णानि चैव ह

Mahabharata

Sabha Parva, Adhyaya 8, Verse 7

तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः

यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते

Mahabharata

Sabha Parva, Adhyaya 8, Verse 8

ययातिर्नहुषः पूरुर्मान्धाता सोमको नृगः

त्रसदस्युश्च तुरयः कृतवीर्यः श्रुतश्रवाः

Mahabharata

Sabha Parva, Adhyaya 8, Verse 9

अरिप्रणुत्सुसिंहश्च कृतवेगः कृतिर्निमिः

प्रतर्दनः शिबिर्मत्स्यः पृथ्वक्षोऽथ बृहद्रथः

Mahabharata

Sabha Parva, Adhyaya 8, Verse 10

ऐडो मरुत्तः कुशिकः सांकाश्यः सांकृतिर्भवः

चतुरश्वः सदश्वोर्मिः कार्तवीर्यश्च पार्थिवः

Mahabharata

Sabha Parva, Adhyaya 8, Verse 11

भरतस्तथा सुरथः सुनीथो नैषधो नलः

दिवोदासोऽथ सुमना अम्बरीषो भगीरथः

Mahabharata

Sabha Parva, Adhyaya 8, Verse 12

व्यश्वः सदश्वो वध्र्यश्वः पञ्चहस्तः पृथुश्रवाः

रुषद्गुर्वृषसेनश्च क्षुपश्च सुमहाबलः

Mahabharata

Sabha Parva, Adhyaya 8, Verse 13

रुषदश्वो वसुमनाः पुरुकुत्सो ध्वजी रथी

आर्ष्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः

Mahabharata

Sabha Parva, Adhyaya 8, Verse 14

औशीनरः पुण्डरीकः शर्यातिः शरभः शुचिः

अङ्गोऽरिष्टश्च वेनश्च दुःषन्तः संजयो जयः

Mahabharata

Sabha Parva, Adhyaya 8, Verse 15

भाङ्गास्वरिः सुनीथश्च निषधोऽथ त्विषीरथः

करंधमो बाह्लिकश्च सुद्युम्नो बलवान्मधुः

Mahabharata

Sabha Parva, Adhyaya 8, Verse 16

कपोतरोमा तृणकः सहदेवार्जुनौ तथा

रामो दाशरथिश्चैव लक्ष्मणोऽथ प्रतर्दनः

Mahabharata

Sabha Parva, Adhyaya 8, Verse 17

अलर्कः कक्षसेनश्च गयो गौराश्व एव च

जामदग्न्योऽथ रामोऽत्र नाभागसगरौ तथा

Mahabharata

Sabha Parva, Adhyaya 8, Verse 18

भूरिद्युम्नो महाश्वश्च पृथ्वश्वो जनकस्तथा

वैन्यो राजा वारिषेणः पुरुजो जनमेजयः

Mahabharata

Sabha Parva, Adhyaya 8, Verse 19

ब्रह्मदत्तस्त्रिगर्तश्च राजोपरिचरस्तथा

इन्द्रद्युम्नो भीमजानुर्गयः पृष्ठो नयोऽनघः

Mahabharata

Sabha Parva, Adhyaya 8, Verse 20

पद्मोऽथ मुचुकुन्दश्च भूरिद्युम्नः प्रसेनजित्

अरिष्टनेमिः प्रद्युम्नः पृथगश्वोऽजकस्तथा

Mahabharata

Sabha Parva, Adhyaya 8, Verse 21

शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः

धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः

Mahabharata

Sabha Parva, Adhyaya 8, Verse 22

शतं च ब्रह्मदत्तानामीरिणां वैरिणां शतम्

शंतनुश्चैव राजर्षिः पाण्डुश्चैव पिता तव

Mahabharata

Sabha Parva, Adhyaya 8, Verse 23

उशद्गवः शतरथो देवराजो जयद्रथः

वृषादर्भिश्च राजर्षिर्धाम्ना सह समन्त्रिणा

Mahabharata

Sabha Parva, Adhyaya 8, Verse 24

अथापरे सहस्राणि ये गताः शशबिन्दवः

इष्ट्वाश्वमेधैर्बहुभिर्महद्भिर्भूरिदक्षिणैः

Mahabharata

Sabha Parva, Adhyaya 8, Verse 25

एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः

तस्यां सभायां राजर्षे वैवस्वतमुपासते

Mahabharata

Sabha Parva, Adhyaya 8, Verse 26

अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च

यज्वानश्चैव सिद्धाश्च ये च योगशरीरिणः

Mahabharata

Sabha Parva, Adhyaya 8, Verse 27

अग्निष्वात्ताश्च पितरः फेनपाश्चोष्मपाश्च ये

स्वधावन्तो बर्हिषदो मूर्तिमन्तस्तथापरे

Mahabharata

Sabha Parva, Adhyaya 8, Verse 28

कालचक्रं च साक्षाच्च भगवान्हव्यवाहनः

नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः

Mahabharata

Sabha Parva, Adhyaya 8, Verse 29

कालस्य नयने युक्ता यमस्य पुरुषाश्च ये

तस्यां शिंशपपालाशास्तथा काशकुशादयः

उपासते धर्मराजं मूर्तिमन्तो निरामयाः

Mahabharata

Sabha Parva, Adhyaya 8, Verse 30

एते चान्ये च बहवः पितृराजसभासदः

अशक्याः परिसंख्यातुं नामभिः कर्मभिस्तथा