Sabha Parva, Adhyaya 7, Verse 1
शक्रस्य तु सभा दिव्या भास्वरा कर्मभिर्जिता
स्वयं शक्रेण कौरव्य निर्मितार्कसमप्रभा
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
शक्रस्य तु सभा दिव्या भास्वरा कर्मभिर्जिता
स्वयं शक्रेण कौरव्य निर्मितार्कसमप्रभा
विस्तीर्णा योजनशतं शतमध्यर्धमायता
वैहायसी कामगमा पञ्चयोजनमुच्छ्रिता
जराशोकक्लमापेता निरातङ्का शिवा शुभा
वेश्मासनवती रम्या दिव्यपादपशोभिता
तस्यां देवेश्वरः पार्थ सभायां परमासने
आस्ते शच्या महेन्द्राण्या श्रिया लक्ष्म्या च भारत
बिभ्रद्वपुरनिर्देश्यं किरीटी लोहिताङ्गदः
विरजोम्बरश्चित्रमाल्यो ह्रीकीर्तिद्युतिभिः सह
तस्यामुपासते नित्यं महात्मानं शतक्रतुम्
मरुतः सर्वतो राजन्सर्वे च गृहमेधिनः
सिद्धा देवर्षयश्चैव साध्या देवगणास्तथा
एते सानुचराः सर्वे दिव्यरूपाः स्वलंकृताः
उपासते महात्मानं देवराजमरिंदमम्
तथा देवर्षयः सर्वे पार्थ शक्रमुपासते
अमला धूतपाप्मानो दीप्यमाना इवाग्नयः
तेजस्विनः सोमयुजो विपापा विगतक्लमाः
पराशरः पर्वतश्च तथा सावर्णिगालवौ
शङ्खश्च लिखितश्चैव तथा गौरशिरा मुनिः
दुर्वासाश्च दीर्घतपा याज्ञवल्क्योऽथ भालुकिः
उद्दालकः श्वेतकेतुस्तथा शाट्यायनः प्रभुः
हविष्मांश्च गविष्ठश्च हरिश्चन्द्रश्च पार्थिवः
हृद्यश्चोदरशाण्डिल्यः पाराशर्यः कृषीवलः
वातस्कन्धो विशाखश्च विधाता काल एव च
अनन्तदन्तस्त्वष्टा च विश्वकर्मा च तुम्बुरुः
अयोनिजा योनिजाश्च वायुभक्षा हुताशिनः
ईशानं सर्वलोकस्य वज्रिणं समुपासते
सहदेवः सुनीथश्च वाल्मीकिश्च महातपाः
समीकः सत्यवांश्चैव प्रचेताः सत्यसंगरः
मेधातिथिर्वामदेवः पुलस्त्यः पुलहः क्रतुः
मरुत्तश्च मरीचिश्च स्थाणुश्चात्रिर्महातपाः
कक्षीवान्गौतमस्तार्क्ष्यस्तथा वैश्वानरो मुनिः
मुनिः कालकवृक्षीय आश्राव्योऽथ हिरण्यदः
संवर्तो देवहव्यश्च विष्वक्सेनश्च वीर्यवान्
दिव्या आपस्तथौषध्यः श्रद्धा मेधा सरस्वती
अर्थो धर्मश्च कामश्च विद्युतश्चापि पाण्डव
जलवाहास्तथा मेघा वायवः स्तनयित्नवः
प्राची दिग्यज्ञवाहाश्च पावकाः सप्तविंशतिः
अग्नीषोमौ तथेन्द्राग्नी मित्रोऽथ सवितार्यमा
भगो विश्वे च साध्याश्च शुक्रो मन्थी च भारत
यज्ञाश्च दक्षिणाश्चैव ग्रहाः स्तोभाश्च सर्वशः
यज्ञवाहाश्च ये मन्त्राः सर्वे तत्र समासते
तथैवाप्सरसो राजन्गन्धर्वाश्च मनोरमाः
नृत्यवादित्रगीतैश्च हास्यैश्च विविधैरपि
रमयन्ति स्म नृपते देवराजं शतक्रतुम्
स्तुतिभिर्मङ्गलैश्चैव स्तुवन्तः कर्मभिस्तथा
विक्रमैश्च महात्मानं बलवृत्रनिषूदनम्
ब्रह्मराजर्षयः सर्वे सर्वे देवर्षयस्तथा
विमानैर्विविधैर्दिव्यैर्भ्राजमानैरिवाग्निभिः
स्रग्विणो भूषिताश्चान्ये यान्ति चायान्ति चापरे
बृहस्पतिश्च शुक्रश्च तस्यामाययतुः सह
एते चान्ये च बहवो यतात्मानो यतव्रताः
विमानैश्चन्द्रसंकाशैः सोमवत्प्रियदर्शनाः
ब्रह्मणो वचनाद्राजन्भृगुः सप्तर्षयस्तथा
एषा सभा मया राजन्दृष्टा पुष्करमालिनी
शतक्रतोर्महाराज याम्यां शृणु ममानघ