Mahabharata

Sabha Parva, Adhyaya 6

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 6, Verse 1

संपूज्याथाभ्यनुज्ञातो महर्षेर्वचनात्परम्

प्रत्युवाचानुपूर्व्येण धर्मराजो युधिष्ठिरः

Mahabharata

Sabha Parva, Adhyaya 6, Verse 2

भगवन्न्याय्यमाहैतं यथावद्धर्मनिश्चयम्

यथाशक्ति यथान्यायं क्रियतेऽयं विधिर्मया

Mahabharata

Sabha Parva, Adhyaya 6, Verse 3

राजभिर्यद्यथा कार्यं पुरा तत्तन्न संशयः

यथान्यायोपनीतार्थं कृतं हेतुमदर्थवत्

Mahabharata

Sabha Parva, Adhyaya 6, Verse 4

वयं तु सत्पथं तेषां यातुमिच्छामहे प्रभो

न तु शक्यं तथा गन्तुं यथा तैर्नियतात्मभिः

Mahabharata

Sabha Parva, Adhyaya 6, Verse 5

एवमुक्त्वा स धर्मात्मा वाक्यं तदभिपूज्य च

मुहूर्तात्प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम्

Mahabharata

Sabha Parva, Adhyaya 6, Verse 6

नारदं स्वस्थमासीनमुपासीनो युधिष्ठिरः

अपृच्छत्पाण्डवस्तत्र राजमध्ये महामतिः

Mahabharata

Sabha Parva, Adhyaya 6, Verse 7

भवान्संचरते लोकान्सदा नानाविधान्बहून्

ब्रह्मणा निर्मितान्पूर्वं प्रेक्षमाणो मनोजवः

Mahabharata

Sabha Parva, Adhyaya 6, Verse 8

ईदृशी भवता काचिद्दृष्टपूर्वा सभा क्वचित्

इतो वा श्रेयसी ब्रह्मंस्तन्ममाचक्ष्व पृच्छतः

Mahabharata

Sabha Parva, Adhyaya 6, Verse 9

तच्छ्रुत्वा नारदस्तस्य धर्मराजस्य भाषितम्

पाण्डवं प्रत्युवाचेदं स्मयन्मधुरया गिरा

Mahabharata

Sabha Parva, Adhyaya 6, Verse 10

मानुषेषु न मे तात दृष्टपूर्वा न च श्रुता

सभा मणिमयी राजन्यथेयं तव भारत

Mahabharata

Sabha Parva, Adhyaya 6, Verse 11

सभां तु पितृराजस्य वरुणस्य च धीमतः

कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च

Mahabharata

Sabha Parva, Adhyaya 6, Verse 12

ब्रह्मणश्च सभां दिव्यां कथयिष्ये गतक्लमाम्

यदि ते श्रवणे बुद्धिर्वर्तते भरतर्षभ

Mahabharata

Sabha Parva, Adhyaya 6, Verse 13

नारदेनैवमुक्तस्तु धर्मराजो युधिष्ठिरः

प्राञ्जलिर्भ्रातृभिः सार्धं तैश्च सर्वैर्नृपैर्वृतः

Mahabharata

Sabha Parva, Adhyaya 6, Verse 14

नारदं प्रत्युवाचेदं धर्मराजो महामनाः

सभाः कथय ताः सर्वाः श्रोतुमिच्छामहे वयम्

Mahabharata

Sabha Parva, Adhyaya 6, Verse 15

किंद्रव्यास्ताः सभा ब्रह्मन्किंविस्ताराः किमायताः

पितामहं च के तस्यां सभायां पर्युपासते

Mahabharata

Sabha Parva, Adhyaya 6, Verse 16

वासवं देवराजं च यमं वैवस्वतं च के

वरुणं च कुबेरं च सभायां पर्युपासते

Mahabharata

Sabha Parva, Adhyaya 6, Verse 17

एतत्सर्वं यथातत्त्वं देवर्षे वदतस्तव

श्रोतुमिच्छाम सहिताः परं कौतूहलं हि नः

Mahabharata

Sabha Parva, Adhyaya 6, Verse 18

एवमुक्तः पाण्डवेन नारदः प्रत्युवाच तम्

क्रमेण राजन्दिव्यास्ताः श्रूयन्तामिह नः सभाः