Mahabharata

Sabha Parva, Adhyaya 5

Containing 116 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 5, Verse 1

तथा तत्रोपविष्टेषु पाण्डवेषु महात्मसु

महत्सु चोपविष्टेषु गन्धर्वेषु च भारत

Mahabharata

Sabha Parva, Adhyaya 5, Verse 2

लोकाननुचरन्सर्वानागमत्तां सभामृषिः

नारदः सुमहातेजा ऋषिभिः सहितस्तदा

Mahabharata

Sabha Parva, Adhyaya 5, Verse 3

पारिजातेन राजेन्द्र रैवतेन च धीमता

सुमुखेन च सौम्येन देवर्षिरमितद्युतिः

सभास्थान्पाण्डवान्द्रष्टुं प्रीयमाणो मनोजवः

Mahabharata

Sabha Parva, Adhyaya 5, Verse 4

तमागतमृषिं दृष्ट्वा नारदं सर्वधर्मवित्

सहसा पाण्डवश्रेष्ठः प्रत्युत्थायानुजैः सह

अभ्यवादयत प्रीत्या विनयावनतस्तदा

Mahabharata

Sabha Parva, Adhyaya 5, Verse 5

तदर्हमासनं तस्मै संप्रदाय यथाविधि

अर्चयामास रत्नैश्च सर्वकामैश्च धर्मवित्

Mahabharata

Sabha Parva, Adhyaya 5, Verse 6

सोऽर्चितः पाण्डवैः सर्वैर्महर्षिर्वेदपारगः

धर्मकामार्थसंयुक्तं पप्रच्छेदं युधिष्ठिरम्

Mahabharata

Sabha Parva, Adhyaya 5, Verse 7

कच्चिदर्थाश्च कल्पन्ते धर्मे च रमते मनः

सुखानि चानुभूयन्ते मनश्च न विहन्यते

Mahabharata

Sabha Parva, Adhyaya 5, Verse 8

कच्चिदाचरितां पूर्वैर्नरदेव पितामहैः

वर्तसे वृत्तिमक्षीणां धर्मार्थसहितां नृषु

Mahabharata

Sabha Parva, Adhyaya 5, Verse 9

कच्चिदर्थेन वा धर्मं धर्मेणार्थमथापि वा

उभौ वा प्रीतिसारेण न कामेन प्रबाधसे

Mahabharata

Sabha Parva, Adhyaya 5, Verse 10

कच्चिदर्थं च धर्मं च कामं च जयतां वर

विभज्य काले कालज्ञ सदा वरद सेवसे

Mahabharata

Sabha Parva, Adhyaya 5, Verse 11

कच्चिद्राजगुणैः षड्भिः सप्तोपायांस्तथानघ

बलाबलं तथा सम्यक्चतुर्दश परीक्षसे

Mahabharata

Sabha Parva, Adhyaya 5, Verse 12

कच्चिदात्मानमन्वीक्ष्य परांश्च जयतां वर

तथा संधाय कर्माणि अष्टौ भारत सेवसे

Mahabharata

Sabha Parva, Adhyaya 5, Verse 13

कच्चित्प्रकृतयः षट्ते न लुप्ता भरतर्षभ

आढ्यास्तथाव्यसनिनः स्वनुरक्ताश्च सर्वशः

Mahabharata

Sabha Parva, Adhyaya 5, Verse 14

कच्चिन्न तर्कैर्दूतैर्वा ये चाप्यपरिशङ्किताः

त्वत्तो वा तव वामात्यैर्भिद्यते जातु मन्त्रितम्

Mahabharata

Sabha Parva, Adhyaya 5, Verse 15

कच्चित्संधिं यथाकालं विग्रहं चोपसेवसे

कच्चिद्वृत्तिमुदासीने मध्यमे चानुवर्तसे

Mahabharata

Sabha Parva, Adhyaya 5, Verse 16

कच्चिदात्मसमा बुद्ध्या शुचयो जीवितक्षमाः

कुलीनाश्चानुरक्ताश्च कृतास्ते वीर मन्त्रिणः

Mahabharata

Sabha Parva, Adhyaya 5, Verse 17

विजयो मन्त्रमूलो हि राज्ञां भवति भारत

सुसंवृतो मन्त्रधनैरमात्यैः शास्त्रकोविदैः

Mahabharata

Sabha Parva, Adhyaya 5, Verse 18

कच्चिन्निद्रावशं नैषि कच्चित्काले विबुध्यसे

कच्चिच्चापररात्रेषु चिन्तयस्यर्थमर्थवित्

Mahabharata

Sabha Parva, Adhyaya 5, Verse 19

कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह

कच्चित्ते मन्त्रितो मन्त्रो न राष्ट्रमनुधावति

Mahabharata

Sabha Parva, Adhyaya 5, Verse 20

कच्चिदर्थान्विनिश्चित्य लघुमूलान्महोदयान्

क्षिप्रमारभसे कर्तुं न विघ्नयसि तादृशान्

Mahabharata

Sabha Parva, Adhyaya 5, Verse 21

कच्चिन्न सर्वे कर्मान्ताः परोक्षास्ते विशङ्किताः

सर्वे वा पुनरुत्सृष्टाः संसृष्टं ह्यत्र कारणम्

Mahabharata

Sabha Parva, Adhyaya 5, Verse 22

कच्चिद्राजन्कृतान्येव कृतप्रायाणि वा पुनः

विदुस्ते वीर कर्माणि नानवाप्तानि कानिचित्

Mahabharata

Sabha Parva, Adhyaya 5, Verse 23

कच्चित्कारणिकाः सर्वे सर्वशास्त्रेषु कोविदाः

कारयन्ति कुमारांश्च योधमुख्यांश्च सर्वशः

Mahabharata

Sabha Parva, Adhyaya 5, Verse 24

कच्चित्सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम्

पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं परम्

Mahabharata

Sabha Parva, Adhyaya 5, Verse 25

कच्चिद्दुर्गाणि सर्वाणि धनधान्यायुधोदकैः

यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः

Mahabharata

Sabha Parva, Adhyaya 5, Verse 26

एकोऽप्यमात्यो मेधावी शूरो दान्तो विचक्षणः

राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम्

Mahabharata

Sabha Parva, Adhyaya 5, Verse 27

कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च

त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः

Mahabharata

Sabha Parva, Adhyaya 5, Verse 28

कच्चिद्द्विषामविदितः प्रतियत्तश्च सर्वदा

नित्ययुक्तो रिपून्सर्वान्वीक्षसे रिपुसूदन

Mahabharata

Sabha Parva, Adhyaya 5, Verse 29

कच्चिद्विनयसंपन्नः कुलपुत्रो बहुश्रुतः

अनसूयुरनुप्रष्टा सत्कृतस्ते पुरोहितः

Mahabharata

Sabha Parva, Adhyaya 5, Verse 30

कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः

हुतं च होष्यमाणं च काले वेदयते सदा