Sabha Parva, Adhyaya 3, Verse 1
अथाब्रवीन्मयः पार्थमर्जुनं जयतां वरम्
आपृच्छे त्वां गमिष्यामि क्षिप्रमेष्यामि चाप्यहम्
Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथाब्रवीन्मयः पार्थमर्जुनं जयतां वरम्
आपृच्छे त्वां गमिष्यामि क्षिप्रमेष्यामि चाप्यहम्
उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति
यक्ष्यमाणेषु सर्वेषु दानवेषु तदा मया
कृतं मणिमयं भाण्डं रम्यं बिन्दुसरः प्रति
सभायां सत्यसंधस्य यदासीद्वृषपर्वणः
आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत
ततः सभां करिष्यामि पाण्डवाय यशस्विने
मनःप्रह्लादिनीं चित्रां सर्वरत्नविभूषिताम्
अस्ति बिन्दुसरस्येव गदा श्रेष्ठा कुरूद्वह
निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून्
सुवर्णबिन्दुभिश्चित्रा गुर्वी भारसहा दृढा
सा वै शतसहस्रस्य संमिता सर्वघातिनी
अनुरूपा च भीमस्य गाण्डीवं भवतो यथा
वारुणश्च महाशङ्खो देवदत्तः सुघोषवान्
सर्वमेतत्प्रदास्यामि भवते नात्र संशयः
इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीचीमगाद्दिशम्
उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति
हिरण्यशृङ्गो भगवान्महामणिमयो गिरिः
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः
दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः
यत्रेष्ट्वा सर्वभूतानामीश्वरेण महात्मना
आहृताः क्रतवो मुख्याः शतं भरतसत्तम
यत्र यूपा मणिमयाश्चित्याश्चापि हिरण्मयाः
शोभार्थं विहितास्तत्र न तु दृष्टान्ततः कृताः
यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः
यत्र भूतपतिः सृष्ट्वा सर्वलोकान्सनातनः
उपास्यते तिग्मतेजा वृतो भूतैः सहस्रशः
नरनारायणौ ब्रह्मा यमः स्थाणुश्च पञ्चमः
उपासते यत्र सत्रं सहस्रयुगपर्यये
यत्रेष्टं वासुदेवेन सत्रैर्वर्षसहस्रकैः
श्रद्दधानेन सततं शिष्टसंप्रतिपत्तये
सुवर्णमालिनो यूपाश्चित्याश्चाप्यतिभास्वराः
ददौ यत्र सहस्राणि प्रयुतानि च केशवः
तत्र गत्वा स जग्राह गदां शङ्खं च भारत
स्फाटिकं च सभाद्रव्यं यदासीद्वृषपर्वणः
किंकरैः सह रक्षोभिरगृह्णात्सर्वमेव तत्
तदाहृत्य तु तां चक्रे सोऽसुरोऽप्रतिमां सभाम्
विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभाम्
गदां च भीमसेनाय प्रवरां प्रददौ तदा
देवदत्तं च पार्थाय ददौ शङ्खमनुत्तमम्
सभा तु सा महाराज शातकुम्भमयद्रुमा
दश किष्कुसहस्राणि समन्तादायताभवत्
यथा वह्नेर्यथार्कस्य सोमस्य च यथैव सा
भ्राजमाना तथा दिव्या बभार परमं वपुः
प्रतिघ्नतीव प्रभया प्रभामर्कस्य भास्वराम्
प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा
नगमेघप्रतीकाशा दिवमावृत्य विष्ठिता
आयता विपुला श्लक्ष्णा विपाप्मा विगतक्लमा
उत्तमद्रव्यसंपन्ना मणिप्राकारमालिनी
बहुरत्ना बहुधना सुकृता विश्वकर्मणा
न दाशार्ही सुधर्मा वा ब्रह्मणो वापि तादृशी
आसीद्रूपेण संपन्ना यां चक्रेऽप्रतिमां मयः
तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च
सभामष्टौ सहस्राणि किंकरा नाम राक्षसाः
अन्तरिक्षचरा घोरा महाकाया महाबलाः
रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः प्रहारिणः
तस्यां सभायां नलिनीं चकाराप्रतिमां मयः
वैडूर्यपत्रविततां मणिनालमयाम्बुजाम्
पद्मसौगन्धिकवतीं नानाद्विजगणायुताम्
पुष्पितैः पङ्कजैश्चित्रां कूर्ममत्स्यैश्च शोभिताम्
सूपतीर्थामकलुषां सर्वर्तुसलिलां शुभाम्
मारुतेनैव चोद्धूतैर्मुक्ताबिन्दुभिराचिताम्
मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः
दृष्ट्वापि नाभ्यजानन्त तेऽज्ञानात्प्रपतन्त्युत