Mahabharata

Sabha Parva, Adhyaya 2

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 2, Verse 1

उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः

पार्थैः प्रीतिसमायुक्तैः पूजनार्होऽभिपूजितः

Mahabharata

Sabha Parva, Adhyaya 2, Verse 2

गमनाय मतिं चक्रे पितुर्दर्शनलालसः

धर्मराजमथामन्त्र्य पृथां च पृथुलोचनः

Mahabharata

Sabha Parva, Adhyaya 2, Verse 3

ववन्दे चरणौ मूर्ध्ना जगद्वन्द्यः पितृष्वसुः

स तया मूर्ध्न्युपाघ्रातः परिष्वक्तश्च केशवः

Mahabharata

Sabha Parva, Adhyaya 2, Verse 4

ददर्शानन्तरं कृष्णो भगिनीं स्वां महायशाः

तामुपेत्य हृषीकेशः प्रीत्या बाष्पसमन्वितः

Mahabharata

Sabha Parva, Adhyaya 2, Verse 5

अर्थ्यं तथ्यं हितं वाक्यं लघु युक्तमनुत्तमम्

उवाच भगवान्भद्रां सुभद्रां भद्रभाषिणीम्

Mahabharata

Sabha Parva, Adhyaya 2, Verse 6

तया स्वजनगामीनि श्रावितो वचनानि सः

संपूजितश्चाप्यसकृच्छिरसा चाभिवादितः

Mahabharata

Sabha Parva, Adhyaya 2, Verse 7

तामनुज्ञाप्य वार्ष्णेयः प्रतिनन्द्य च भामिनीम्

ददर्शानन्तरं कृष्णां धौम्यं चापि जनार्दनः

Mahabharata

Sabha Parva, Adhyaya 2, Verse 8

ववन्दे च यथान्यायं धौम्यं पुरुषसत्तमः

द्रौपदीं सान्त्वयित्वा च आमन्त्र्य च जनार्दनः

Mahabharata

Sabha Parva, Adhyaya 2, Verse 9

भ्रातॄनभ्यगमद्धीमान्पार्थेन सहितो बली

भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इवामरैः

Mahabharata

Sabha Parva, Adhyaya 2, Verse 10

अर्चयामास देवांश्च द्विजांश्च यदुपुंगवः

माल्यजप्यनमस्कारैर्गन्धैरुच्चावचैरपि

स कृत्वा सर्वकार्याणि प्रतस्थे तस्थुषां वरः

Mahabharata

Sabha Parva, Adhyaya 2, Verse 11

स्वस्ति वाच्यार्हतो विप्रान्दधिपात्रफलाक्षतैः

वसु प्रदाय च ततः प्रदक्षिणमवर्तत

Mahabharata

Sabha Parva, Adhyaya 2, Verse 12

काञ्चनं रथमास्थाय तार्क्ष्यकेतनमाशुगम्

गदाचक्रासिशार्ङ्गाद्यैरायुधैश्च समन्वितम्

Mahabharata

Sabha Parva, Adhyaya 2, Verse 13

तिथावथ च नक्षत्रे मुहूर्ते च गुणान्विते

प्रययौ पुण्डरीकाक्षः सैन्यसुग्रीववाहनः

Mahabharata

Sabha Parva, Adhyaya 2, Verse 14

अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः

अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम्

अभीषून्संप्रजग्राह स्वयं कुरुपतिस्तदा

Mahabharata

Sabha Parva, Adhyaya 2, Verse 15

उपारुह्यार्जुनश्चापि चामरव्यजनं सितम्

रुक्मदण्डं बृहन्मूर्ध्नि दुधावाभिप्रदक्षिणम्

Mahabharata

Sabha Parva, Adhyaya 2, Verse 16

तथैव भीमसेनोऽपि यमाभ्यां सहितो वशी

पृष्ठतोऽनुययौ कृष्णमृत्विक्पौरजनैर्वृतः

Mahabharata

Sabha Parva, Adhyaya 2, Verse 17

स तथा भ्रातृभिः सार्धं केशवः परवीरहा

अनुगम्यमानः शुशुभे शिष्यैरिव गुरुः प्रियैः

Mahabharata

Sabha Parva, Adhyaya 2, Verse 18

पार्थमामन्त्र्य गोविन्दः परिष्वज्य च पीडितम्

युधिष्ठिरं पूजयित्वा भीमसेनं यमौ तथा

Mahabharata

Sabha Parva, Adhyaya 2, Verse 19

परिष्वक्तो भृशं ताभ्यां यमाभ्यामभिवादितः

ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः

Mahabharata

Sabha Parva, Adhyaya 2, Verse 20

निवर्तयित्वा च तदा पाण्डवान्सपदानुगान्

स्वां पुरीं प्रययौ कृष्णः पुरंदर इवापरः

Mahabharata

Sabha Parva, Adhyaya 2, Verse 21

लोचनैरनुजग्मुस्ते तमा दृष्टिपथात्तदा

मनोभिरनुजग्मुस्ते कृष्णं प्रीतिसमन्वयात्

Mahabharata

Sabha Parva, Adhyaya 2, Verse 22

अतृप्तमनसामेव तेषां केशवदर्शने

क्षिप्रमन्तर्दधे शौरिश्चक्षुषां प्रियदर्शनः

Mahabharata

Sabha Parva, Adhyaya 2, Verse 23

अकामा इव पार्थास्ते गोविन्दगतमानसाः

निवृत्योपययुः सर्वे स्वपुरं पुरुषर्षभाः

स्यन्दनेनाथ कृष्णोऽपि समये द्वारकामगात्