Mahabharata

Sabha Parva, Adhyaya 1

Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Sabha Parva, Adhyaya 1, Verse 1

ततोऽब्रवीन्मयः पार्थं वासुदेवस्य संनिधौ

प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः

Mahabharata

Sabha Parva, Adhyaya 1, Verse 2

अस्माच्च कृष्णात्संक्रुद्धात्पावकाच्च दिधक्षतः

त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते

Mahabharata

Sabha Parva, Adhyaya 1, Verse 3

कृतमेव त्वया सर्वं स्वस्ति गच्छ महासुर

प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते

Mahabharata

Sabha Parva, Adhyaya 1, Verse 4

युक्तमेतत्त्वयि विभो यथात्थ पुरुषर्षभ

प्रीतिपूर्वमहं किंचित्कर्तुमिच्छामि भारत

Mahabharata

Sabha Parva, Adhyaya 1, Verse 5

अहं हि विश्वकर्मा वै दानवानां महाकविः

सोऽहं वै त्वत्कृते किंचित्कर्तुमिच्छामि पाण्डव

Mahabharata

Sabha Parva, Adhyaya 1, Verse 6

प्राणकृच्छ्राद्विमुक्तं त्वमात्मानं मन्यसे मया

एवं गते न शक्ष्यामि किंचित्कारयितुं त्वया

Mahabharata

Sabha Parva, Adhyaya 1, Verse 7

न चापि तव संकल्पं मोघमिच्छामि दानव

कृष्णस्य क्रियतां किंचित्तथा प्रतिकृतं मयि

Mahabharata

Sabha Parva, Adhyaya 1, Verse 8

चोदितो वासुदेवस्तु मयेन भरतर्षभ

मुहूर्तमिव संदध्यौ किमयं चोद्यतामिति

Mahabharata

Sabha Parva, Adhyaya 1, Verse 9

चोदयामास तं कृष्णः सभा वै क्रियतामिति

धर्मराजस्य दैतेय यादृशीमिह मन्यसे

Mahabharata

Sabha Parva, Adhyaya 1, Verse 10

यां कृतां नानुकुर्युस्ते मानवाः प्रेक्ष्य विस्मिताः

मनुष्यलोके कृत्स्नेऽस्मिंस्तादृशीं कुरु वै सभाम्

Mahabharata

Sabha Parva, Adhyaya 1, Verse 11

यत्र दिव्यानभिप्रायान्पश्येम विहितांस्त्वया

आसुरान्मानुषांश्चैव तां सभां कुरु वै मय

Mahabharata

Sabha Parva, Adhyaya 1, Verse 12

प्रतिगृह्य तु तद्वाक्यं संप्रहृष्टो मयस्तदा

विमानप्रतिमां चक्रे पाण्डवस्य सभां मुदा

Mahabharata

Sabha Parva, Adhyaya 1, Verse 13

ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे

सर्वमेतद्यथावेद्य दर्शयामासतुर्मयम्

Mahabharata

Sabha Parva, Adhyaya 1, Verse 14

तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदा

स तु तां प्रतिजग्राह मयः सत्कृत्य सत्कृतः

Mahabharata

Sabha Parva, Adhyaya 1, Verse 15

स पूर्वदेवचरितं तत्र तत्र विशां पते

कथयामास दैतेयः पाण्डुपुत्रेषु भारत

Mahabharata

Sabha Parva, Adhyaya 1, Verse 16

स कालं कंचिदाश्वस्य विश्वकर्मा प्रचिन्त्य च

सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम्

Mahabharata

Sabha Parva, Adhyaya 1, Verse 17

अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः

पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः

Mahabharata

Sabha Parva, Adhyaya 1, Verse 18

तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः

धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान्

Mahabharata

Sabha Parva, Adhyaya 1, Verse 19

सर्वर्तुगुणसंपन्नां दिव्यरूपां मनोरमाम्

दशकिष्कुसहस्रां तां मापयामास सर्वतः