Svargarohana Parva, Adhyaya 5, Verse 1
भीष्मद्रोणौ महात्मानौ धृतराष्ट्रश्च पार्थिवः
विराटद्रुपदौ चोभौ शङ्खश्चैवोत्तरस्तथा
Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.
भीष्मद्रोणौ महात्मानौ धृतराष्ट्रश्च पार्थिवः
विराटद्रुपदौ चोभौ शङ्खश्चैवोत्तरस्तथा
धृष्टकेतुर्जयत्सेनो राजा चैव स सत्यजित्
दुर्योधनसुताश्चैव शकुनिश्चैव सौबलः
कर्णपुत्राश्च विक्रान्ता राजा चैव जयद्रथः
घटोत्कचादयश्चैव ये चान्ये नानुकीर्तिताः
ये चान्ये कीर्तितास्तत्र राजानो दीप्तमूर्तयः
स्वर्गे कालं कियन्तं ते तस्थुस्तदपि शंस मे
आहोस्विच्छाश्वतं स्थानं तेषां तत्र द्विजोत्तम
अन्ते वा कर्मणः कां ते गतिं प्राप्ता नरर्षभाः
एतदिच्छाम्यहं श्रोतुं प्रोच्यमानं त्वया द्विज
इत्युक्तः स तु विप्रर्षिरनुज्ञातो महात्मना
व्यासेन तस्य नृपतेराख्यातुमुपचक्रमे
गन्तव्यं कर्मणामन्ते सर्वेण मनुजाधिप
शृणु गुह्यमिदं राजन्देवानां भरतर्षभ
यदुवाच महातेजा दिव्यचक्षुः प्रतापवान्
मुनिः पुराणः कौरव्य पाराशर्यो महाव्रतः
अगाधबुद्धिः सर्वज्ञो गतिज्ञः सर्वकर्मणाम्
वसूनेव महातेजा भीष्मः प्राप महाद्युतिः
अष्टावेव हि दृश्यन्ते वसवो भरतर्षभ
बृहस्पतिं विवेशाथ द्रोणो ह्यङ्गिरसां वरम्
कृतवर्मा तु हार्दिक्यः प्रविवेश मरुद्गणम्
सनत्कुमारं प्रद्युम्नः प्रविवेश यथागतम्
धृतराष्ट्रो धनेशस्य लोकान्प्राप दुरासदान्
धृतराष्ट्रेण सहिता गान्धारी च यशस्विनी
पत्नीभ्यां सहितः पाण्डुर्महेन्द्रसदनं ययौ
विराटद्रुपदौ चोभौ धृष्टकेतुश्च पार्थिवः
निशठाक्रूरसाम्बाश्च भानुः कम्पो विडूरथः
भूरिश्रवाः शलश्चैव भूरिश्च पृथिवीपतिः
उग्रसेनस्तथा कंसो वसुदेवश्च वीर्यवान्
उत्तरश्च सह भ्रात्रा शङ्खेन नरपुंगवः
विश्वेषां देवतानां ते विविशुर्नरसत्तमाः
वर्चा नाम महातेजाः सोमपुत्रः प्रतापवान्
सोऽभिमन्युर्नृसिंहस्य फल्गुनस्य सुतोऽभवत्
स युद्ध्वा क्षत्रधर्मेण यथा नान्यः पुमान्क्वचित्
विवेश सोमं धर्मात्मा कर्मणोऽन्ते महारथः
आविवेश रविं कर्णः पितरं पुरुषर्षभ
द्वापरं शकुनिः प्राप धृष्टद्युम्नस्तु पावकम्
धृतराष्ट्रात्मजाः सर्वे यातुधाना बलोत्कटाः
ऋद्धिमन्तो महात्मानः शस्त्रपूता दिवं गताः
धर्ममेवाविशत्क्षत्ता राजा चैव युधिष्ठिरः
अनन्तो भगवान्देवः प्रविवेश रसातलम्
पितामहनियोगाद्धि यो योगाद्गामधारयत्
षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः
न्यमज्जन्त सरस्वत्यां कालेन जनमेजय
ताश्चाप्यप्सरसो भूत्वा वासुदेवमुपागमन्
हतास्तस्मिन्महायुद्धे ये वीरास्तु महारथाः
घटोत्कचादयः सर्वे देवान्यक्षांश्च भेजिरे
दुर्योधनसहायाश्च राक्षसाः परिकीर्तिताः
प्राप्तास्ते क्रमशो राजन्सर्वलोकाननुत्तमान्
भवनं च महेन्द्रस्य कुबेरस्य च धीमतः
वरुणस्य तथा लोकान्विविशुः पुरुषर्षभाः
एतत्ते सर्वमाख्यातं विस्तरेण महाद्युते
कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत
एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः
विस्मितोऽभवदत्यर्थं यज्ञकर्मान्तरेष्वथ
ततः समापयामासुः कर्म तत्तस्य याजकाः
आस्तीकश्चाभवत्प्रीतः परिमोक्ष्य भुजंगमान्
ततो द्विजातीन्सर्वांस्तान्दक्षिणाभिरतोषयत्
पूजिताश्चापि ते राज्ञा ततो जग्मुर्यथागतम्
विसर्जयित्वा विप्रांस्तान्राजापि जनमेजयः
ततस्तक्षशिलायाः स पुनरायाद्गजाह्वयम्
एतत्ते सर्वमाख्यातं वैशंपायनकीर्तितम्
व्यासाज्ञया समाख्यातं सर्पसत्रे नृपस्य ह