Svargarohana Parva, Adhyaya 4, Verse 1
ततो युधिष्ठिरो राजा देवैः सर्षिमरुद्गणैः
पूज्यमानो ययौ तत्र यत्र ते कुरुपुंगवाः
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो युधिष्ठिरो राजा देवैः सर्षिमरुद्गणैः
पूज्यमानो ययौ तत्र यत्र ते कुरुपुंगवाः
ददर्श तत्र गोविन्दं ब्राह्मेण वपुषान्वितम्
तेनैव दृष्टपूर्वेण सादृश्येनोपसूचितम्
दीप्यमानं स्ववपुषा दिव्यैरस्त्रैरुपस्थितम्
चक्रप्रभृतिभिर्घोरैर्दिव्यैः पुरुषविग्रहैः
उपास्यमानं वीरेण फल्गुनेन सुवर्चसा
अपरस्मिन्नथोद्देशे कर्णं शस्त्रभृतां वरम्
द्वादशादित्यसहितं ददर्श कुरुनन्दनः
अथापरस्मिन्नुद्देशे मरुद्गणवृतं प्रभुम्
भीमसेनमथापश्यत्तेनैव वपुषान्वितम्
अश्विनोस्तु तथा स्थाने दीप्यमानौ स्वतेजसा
नकुलं सहदेवं च ददर्श कुरुनन्दनः
तथा ददर्श पाञ्चालीं कमलोत्पलमालिनीम्
वपुषा स्वर्गमाक्रम्य तिष्ठन्तीमर्कवर्चसम्
अथैनां सहसा राजा प्रष्टुमैच्छद्युधिष्ठिरः
ततोऽस्य भगवानिन्द्रः कथयामास देवराट्
श्रीरेषा द्रौपदीरूपा त्वदर्थे मानुषं गता
अयोनिजा लोककान्ता पुण्यगन्धा युधिष्ठिर
द्रुपदस्य कुले जाता भवद्भिश्चोपजीविता
रत्यर्थं भवतां ह्येषा निर्मिता शूलपाणिना
एते पञ्च महाभागा गन्धर्वाः पावकप्रभाः
द्रौपद्यास्तनया राजन्युष्माकममितौजसः
पश्य गन्धर्वराजानं धृतराष्ट्रं मनीषिणम्
एनं च त्वं विजानीहि भ्रातरं पूर्वजं पितुः
अयं ते पूर्वजो भ्राता कौन्तेयः पावकद्युतिः
सूर्यपुत्रोऽग्रजः श्रेष्ठो राधेय इति विश्रुतः
आदित्यसहितो याति पश्यैनं पुरुषर्षभ
साध्यानामथ देवानां वसूनां मरुतामपि
गणेषु पश्य राजेन्द्र वृष्ण्यन्धकमहारथान्
सात्यकिप्रमुखान्वीरान्भोजांश्चैव महारथान्
सोमेन सहितं पश्य सौभद्रमपराजितम्
अभिमन्युं महेष्वासं निशाकरसमद्युतिम्
एष पाण्डुर्महेष्वासः कुन्त्या माद्र्या च संगतः
विमानेन सदाभ्येति पिता तव ममान्तिकम्
वसुभिः सहितं पश्य भीष्मं शांतनवं नृपम्
द्रोणं बृहस्पतेः पार्श्वे गुरुमेनं निशामय
एते चान्ये महीपाला योधास्तव च पाण्डव
गन्धर्वैः सहिता यान्ति यक्षैः पुण्यजनैस्तथा
गुह्यकानां गतिं चापि केचित्प्राप्ता नृसत्तमाः
त्यक्त्वा देहं जितस्वर्गाः पुण्यवाग्बुद्धिकर्मभिः