Svargarohana Parva, Adhyaya 3, Verse 1
स्थिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिरे
आजग्मुस्तत्र कौरव्य देवाः शक्रपुरोगमाः
Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.
स्थिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिरे
आजग्मुस्तत्र कौरव्य देवाः शक्रपुरोगमाः
स्वयं विग्रहवान्धर्मो राजानं प्रसमीक्षितुम्
तत्राजगाम यत्रासौ कुरुराजो युधिष्ठिरः
तेषु भास्वरदेहेषु पुण्याभिजनकर्मसु
समागतेषु देवेषु व्यगमत्तत्तमो नृप
नादृश्यन्त च तास्तत्र यातनाः पापकर्मिणाम्
नदी वैतरणी चैव कूटशाल्मलिना सह
लोहकुम्भ्यः शिलाश्चैव नादृश्यन्त भयानकाः
विकृतानि शरीराणि यानि तत्र समन्ततः
ददर्श राजा कौन्तेयस्तान्यदृश्यानि चाभवन्
ततो वायुः सुखस्पर्शः पुण्यगन्धवहः शिवः
ववौ देवसमीपस्थः शीतलोऽतीव भारत
मरुतः सह शक्रेण वसवश्चाश्विनौ सह
साध्या रुद्रास्तथादित्या ये चान्येऽपि दिवौकसः
सर्वे तत्र समाजग्मुः सिद्धाश्च परमर्षयः
यत्र राजा महातेजा धर्मपुत्रः स्थितोऽभवत्
ततः शक्रः सुरपतिः श्रिया परमया युतः
युधिष्ठिरमुवाचेदं सान्त्वपूर्वमिदं वचः
युधिष्ठिर महाबाहो प्रीता देवगणास्तव
एह्येहि पुरुषव्याघ्र कृतमेतावता विभो
सिद्धिः प्राप्ता त्वया राजँल्लोकाश्चाप्यक्षयास्तव
न च मन्युस्त्वया कार्यः शृणु चेदं वचो मम
अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः
शुभानामशुभानां च द्वौ राशी पुरुषर्षभ
यः पूर्वं सुकृतं भुङ्क्ते पश्चान्निरयमेति सः
पूर्वं नरकभाग्यस्तु पश्चात्स्वर्गमुपैति सः
भूयिष्ठं पापकर्मा यः स पूर्वं स्वर्गमश्नुते
तेन त्वमेवं गमितो मया श्रेयोर्थिना नृप
व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति
व्याजेनैव ततो राजन्दर्शितो नरकस्तव
यथैव त्वं तथा भीमस्तथा पार्थो यमौ तथा
द्रौपदी च तथा कृष्णा व्याजेन नरकं गताः
आगच्छ नरशार्दूल मुक्तास्ते चैव किल्बिषात्
स्वपक्षाश्चैव ये तुभ्यं पार्थिवा निहता रणे
सर्वे स्वर्गमनुप्राप्तास्तान्पश्य पुरुषर्षभ
कर्णश्चैव महेष्वासः सर्वशस्त्रभृतां वरः
स गतः परमां सिद्धिं यदर्थं परितप्यसे
तं पश्य पुरुषव्याघ्रमादित्यतनयं विभो
स्वस्थानस्थं महाबाहो जहि शोकं नरर्षभ
भ्रातॄंश्चान्यांस्तथा पश्य स्वपक्षांश्चैव पार्थिवान्
स्वं स्वं स्थानमनुप्राप्तान्व्येतु ते मानसो ज्वरः
अनुभूय पूर्वं त्वं कृच्छ्रमितः प्रभृति कौरव
विहरस्व मया सार्धं गतशोको निरामयः
कर्मणां तात पुण्यानां जितानां तपसा स्वयम्
दानानां च महाबाहो फलं प्राप्नुहि पाण्डव
अद्य त्वां देवगन्धर्वा दिव्याश्चाप्सरसो दिवि
उपसेवन्तु कल्याणं विरजोम्बरवाससः
राजसूयजिताँल्लोकानश्वमेधाभिवर्धितान्
प्राप्नुहि त्वं महाबाहो तपसश्च फलं महत्
उपर्युपरि राज्ञां हि तव लोका युधिष्ठिर
हरिश्चन्द्रसमाः पार्थ येषु त्वं विहरिष्यसि
मान्धाता यत्र राजर्षिर्यत्र राजा भगीरथः
दौःषन्तिर्यत्र भरतस्तत्र त्वं विहरिष्यसि
एषा देवनदी पुण्या पार्थ त्रैलोक्यपावनी
आकाशगङ्गा राजेन्द्र तत्राप्लुत्य गमिष्यसि
अत्र स्नातस्य ते भावो मानुषो विगमिष्यति
गतशोको निरायासो मुक्तवैरो भविष्यसि
एवं ब्रुवति देवेन्द्रे कौरवेन्द्रं युधिष्ठिरम्
धर्मो विग्रहवान्साक्षादुवाच सुतमात्मनः
भो भो राजन्महाप्राज्ञ प्रीतोऽस्मि तव पुत्रक
मद्भक्त्या सत्यवाक्येन क्षमया च दमेन च
एषा तृतीया जिज्ञासा तव राजन्कृता मया
न शक्यसे चालयितुं स्वभावात्पार्थ हेतुभिः