Mahabharata

Svargarohana Parva, Adhyaya 2

Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 1

नेह पश्यामि विबुधा राधेयममितौजसम्

भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 2

जुहुवुर्ये शरीराणि रणवह्नौ महारथाः

राजानो राजपुत्राश्च ये मदर्थे हता रणे

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 3

क्व ते महारथाः सर्वे शार्दूलसमविक्रमाः

तैरप्ययं जितो लोकः कच्चित्पुरुषसत्तमैः

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 4

यदि लोकानिमान्प्राप्तास्ते च सर्वे महारथाः

स्थितं वित्त हि मां देवाः सहितं तैर्महात्मभिः

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 5

कच्चिन्न तैरवाप्तोऽयं नृपैर्लोकोऽक्षयः शुभः

न तैरहं विना वत्स्ये ज्ञातिभिर्भ्रातृभिस्तथा

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 6

मातुर्हि वचनं श्रुत्वा तदा सलिलकर्मणि

कर्णस्य क्रियतां तोयमिति तप्यामि तेन वै

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 7

इदं च परितप्यामि पुनः पुनरहं सुराः

यन्मातुः सदृशौ पादौ तस्याहममितौजसः

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 8

दृष्ट्वैव तं नानुगतः कर्णं परबलार्दनम्

न ह्यस्मान्कर्णसहिताञ्जयेच्छक्रोऽपि संयुगे

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 9

तमहं यत्रतत्रस्थं द्रष्टुमिच्छामि सूर्यजम्

अविज्ञातो मया योऽसौ घातितः सव्यसाचिना

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 10

भीमं च भीमविक्रान्तं प्राणेभ्योऽपि प्रियं मम

अर्जुनं चेन्द्रसंकाशं यमौ तौ च यमोपमौ

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 11

द्रष्टुमिच्छामि तां चाहं पाञ्चालीं धर्मचारिणीम्

न चेह स्थातुमिच्छामि सत्यमेतद्ब्रवीमि वः

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 12

किं मे भ्रातृविहीनस्य स्वर्गेण सुरसत्तमाः

यत्र ते स मम स्वर्गो नायं स्वर्गो मतो मम

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 13

यदि वै तत्र ते श्रद्धा गम्यतां पुत्र माचिरम्

प्रिये हि तव वर्तामो देवराजस्य शासनात्

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 14

इत्युक्त्वा तं ततो देवा देवदूतमुपादिशन्

युधिष्ठिरस्य सुहृदो दर्शयेति परंतप

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 15

ततः कुन्तीसुतो राजा देवदूतश्च जग्मतुः

सहितौ राजशार्दूल यत्र ते पुरुषर्षभाः

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 16

अग्रतो देवदूतस्तु ययौ राजा च पृष्ठतः

पन्थानमशुभं दुर्गं सेवितं पापकर्मभिः

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 17

तमसा संवृतं घोरं केशशैवलशाद्वलम्

युक्तं पापकृतां गन्धैर्मांसशोणितकर्दमम्

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 18

दंशोत्थानं सझिल्लीकं मक्षिकामशकावृतम्

इतश्चेतश्च कुणपैः समन्तात्परिवारितम्

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 19

अस्थिकेशसमाकीर्णं कृमिकीटसमाकुलम्

ज्वलनेन प्रदीप्तेन समन्तात्परिवेष्टितम्

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 20

अयोमुखैश्च काकोलैर्गृध्रैश्च समभिद्रुतम्

सूचीमुखैस्तथा प्रेतैर्विन्ध्यशैलोपमैर्वृतम्

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 21

मेदोरुधिरयुक्तैश्च छिन्नबाहूरुपाणिभिः

निकृत्तोदरपादैश्च तत्र तत्र प्रवेरितैः

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 22

स तत्कुणपदुर्गन्धमशिवं रोमहर्षणम्

जगाम राजा धर्मात्मा मध्ये बहु विचिन्तयन्

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 23

ददर्शोष्णोदकैः पूर्णां नदीं चापि सुदुर्गमाम्

असिपत्रवनं चैव निशितक्षुरसंवृतम्

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 24

करम्भवालुकास्तप्ता आयसीश्च शिलाः पृथक्

लोहकुम्भीश्च तैलस्य क्वाथ्यमानाः समन्ततः

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 25

कूटशाल्मलिकं चापि दुस्पर्शं तीक्ष्णकण्टकम्

ददर्श चापि कौन्तेयो यातनाः पापकर्मिणाम्

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 26

स तं दुर्गन्धमालक्ष्य देवदूतमुवाच ह

कियदध्वानमस्माभिर्गन्तव्यमिदमीदृशम्

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 27

क्व च ते भ्रातरो मह्यं तन्ममाख्यातुमर्हसि

देशोऽयं कश्च देवानामेतदिच्छामि वेदितुम्

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 28

स संनिववृते श्रुत्वा धर्मराजस्य भाषितम्

देवदूतोऽब्रवीच्चैनमेतावद्गमनं तव

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 29

निवर्तितव्यं हि मया तथास्म्युक्तो दिवौकसैः

यदि श्रान्तोऽसि राजेन्द्र त्वमथागन्तुमर्हसि

Mahabharata

Svargarohana Parva, Adhyaya 2, Verse 30

युधिष्ठिरस्तु निर्विण्णस्तेन गन्धेन मूर्छितः

निवर्तने धृतमनाः पर्यावर्तत भारत