Mahaprasthanika Parva, Adhyaya 3, Verse 1
ततः संनादयञ्शक्रो दिवं भूमिं च सर्वशः
रथेनोपययौ पार्थमारोहेत्यब्रवीच्च तम्
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः संनादयञ्शक्रो दिवं भूमिं च सर्वशः
रथेनोपययौ पार्थमारोहेत्यब्रवीच्च तम्
स भ्रातॄन्पतितान्दृष्ट्वा धर्मराजो युधिष्ठिरः
अब्रवीच्छोकसंतप्तः सहस्राक्षमिदं वचः
भ्रातरः पतिता मेऽत्र आगच्छेयुर्मया सह
न विना भ्रातृभिः स्वर्गमिच्छे गन्तुं सुरेश्वर
सुकुमारी सुखार्हा च राजपुत्री पुरंदर
सास्माभिः सह गच्छेत तद्भवाननुमन्यताम्
भ्रातॄन्द्रक्ष्यसि पुत्रांस्त्वमग्रतस्त्रिदिवं गतान्
कृष्णया सहितान्सर्वान्मा शुचो भरतर्षभ
निक्षिप्य मानुषं देहं गतास्ते भरतर्षभ
अनेन त्वं शरीरेण स्वर्गं गन्ता न संशयः
अयं श्वा भूतभव्येश भक्तो मां नित्यमेव ह
स गच्छेत मया सार्धमानृशंस्या हि मे मतिः
अमर्त्यत्वं मत्समत्वं च राज;ञ्श्रियं कृत्स्नां महतीं चैव कीर्तिम्
संप्राप्तोऽद्य स्वर्गसुखानि च त्वं; त्यज श्वानं नात्र नृशंसमस्ति
अनार्यमार्येण सहस्रनेत्र; शक्यं कर्तुं दुष्करमेतदार्य
मा मे श्रिया संगमनं तयास्तु; यस्याः कृते भक्तजनं त्यजेयम्
स्वर्गे लोके श्ववतां नास्ति धिष्ण्य;मिष्टापूर्तं क्रोधवशा हरन्ति
ततो विचार्य क्रियतां धर्मराज; त्यज श्वानं नात्र नृशंसमस्ति
भक्तत्यागं प्राहुरत्यन्तपापं; तुल्यं लोके ब्रह्मवध्याकृतेन
तस्मान्नाहं जातु कथंचनाद्य; त्यक्ष्याम्येनं स्वसुखार्थी महेन्द्र
शुना दृष्टं क्रोधवशा हरन्ति; यद्दत्तमिष्टं विवृतमथो हुतं च
तस्माच्छुनस्त्यागमिमं कुरुष्व; शुनस्त्यागात्प्राप्स्यसे देवलोकम्
त्यक्त्वा भ्रातॄन्दयितां चापि कृष्णां; प्राप्तो लोकः कर्मणा स्वेन वीर
श्वानं चैनं न त्यजसे कथं नु; त्यागं कृत्स्नं चास्थितो मुह्यसेऽद्य
न विद्यते संधिरथापि विग्रहो; मृतैर्मर्त्यैरिति लोकेषु निष्ठा
न ते मया जीवयितुं हि शक्या; तस्मात्त्यागस्तेषु कृतो न जीवताम्
प्रतिप्रदानं शरणागतस्य; स्त्रिया वधो ब्राह्मणस्वापहारः
मित्रद्रोहस्तानि चत्वारि शक्र; भक्तत्यागश्चैव समो मतो मे
तद्धर्मराजस्य वचो निशम्य; धर्मस्वरूपी भगवानुवाच
युधिष्ठिरं प्रीतियुक्तो नरेन्द्रं; श्लक्ष्णैर्वाक्यैः संस्तवसंप्रयुक्तैः
अभिजातोऽसि राजेन्द्र पितुर्वृत्तेन मेधया
अनुक्रोशेन चानेन सर्वभूतेषु भारत
पुरा द्वैतवने चासि मया पुत्र परीक्षितः
पानीयार्थे पराक्रान्ता यत्र ते भ्रातरो हताः
भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातरावुभौ
मात्रोः साम्यमभीप्सन्वै नकुलं जीवमिच्छसि
अयं श्वा भक्त इत्येव त्यक्तो देवरथस्त्वया
तस्मात्स्वर्गे न ते तुल्यः कश्चिदस्ति नराधिप
अतस्तवाक्षया लोकाः स्वशरीरेण भारत
प्राप्तोऽसि भरतश्रेष्ठ दिव्यां गतिमनुत्तमाम्
ततो धर्मश्च शक्रश्च मरुतश्चाश्विनावपि
देवा देवर्षयश्चैव रथमारोप्य पाण्डवम्
प्रययुः स्वैर्विमानैस्ते सिद्धाः कामविहारिणः
सर्वे विरजसः पुण्याः पुण्यवाग्बुद्धिकर्मिणः
स तं रथं समास्थाय राजा कुरुकुलोद्वहः
ऊर्ध्वमाचक्रमे शीघ्रं तेजसावृत्य रोदसी
ततो देवनिकायस्थो नारदः सर्वलोकवित्
उवाचोच्चैस्तदा वाक्यं बृहद्वादी बृहत्तपाः
येऽपि राजर्षयः सर्वे ते चापि समुपस्थिताः
कीर्तिं प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति
लोकानावृत्य यशसा तेजसा वृत्तसंपदा
स्वशरीरेण संप्राप्तं नान्यं शुश्रुम पाण्डवात्
नारदस्य वचः श्रुत्वा राजा वचनमब्रवीत्
देवानामन्त्र्य धर्मात्मा स्वपक्षांश्चैव पार्थिवान्
शुभं वा यदि वा पापं भ्रातॄणां स्थानमद्य मे
तदेव प्राप्तुमिच्छामि लोकानन्यान्न कामये
राज्ञस्तु वचनं श्रुत्वा देवराजः पुरंदरः
आनृशंस्यसमायुक्तं प्रत्युवाच युधिष्ठिरम्