Mahaprasthanika Parva, Adhyaya 2, Verse 1
ततस्ते नियतात्मान उदीचीं दिशमास्थिताः
ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम्
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततस्ते नियतात्मान उदीचीं दिशमास्थिताः
ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम्
तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम्
अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम्
तेषां तु गच्छतां शीघ्रं सर्वेषां योगधर्मिणाम्
याज्ञसेनी भ्रष्टयोगा निपपात महीतले
तां तु प्रपतितां दृष्ट्वा भीमसेनो महाबलः
उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ह
नाधर्मश्चरितः कश्चिद्राजपुत्र्या परंतप
कारणं किं नु तद्राजन्यत्कृष्णा पतिता भुवि
पक्षपातो महानस्या विशेषेण धनंजये
तस्यैतत्फलमद्यैषा भुङ्क्ते पुरुषसत्तम
एवमुक्त्वानवेक्ष्यैनां ययौ धर्मसुतो नृपः
समाधाय मनो धीमान्धर्मात्मा पुरुषर्षभः
सहदेवस्ततो धीमान्निपपात महीतले
तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत्
योऽयमस्मासु सर्वेषु शुश्रूषुरनहंकृतः
सोऽयं माद्रवतीपुत्रः कस्मान्निपतितो भुवि
आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कंचन
तेन दोषेण पतितस्तस्मादेष नृपात्मजः
इत्युक्त्वा तु समुत्सृज्य सहदेवं ययौ तदा
भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः
कृष्णां निपतितां दृष्ट्वा सहदेवं च पाण्डवम्
आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह
तस्मिन्निपतिते वीरे नकुले चारुदर्शने
पुनरेव तदा भीमो राजानमिदमब्रवीत्
योऽयमक्षतधर्मात्मा भ्राता वचनकारकः
रूपेणाप्रतिमो लोके नकुलः पतितो भुवि
इत्युक्तो भीमसेनेन प्रत्युवाच युधिष्ठिरः
नकुलं प्रति धर्मात्मा सर्वबुद्धिमतां वरः
रूपेण मत्समो नास्ति कश्चिदित्यस्य दर्शनम्
अधिकश्चाहमेवैक इत्यस्य मनसि स्थितम्
नकुलः पतितस्तस्मादागच्छ त्वं वृकोदर
यस्य यद्विहितं वीर सोऽवश्यं तदुपाश्नुते
तांस्तु प्रपतितान्दृष्ट्वा पाण्डवः श्वेतवाहनः
पपात शोकसंतप्तस्ततोऽनु परवीरहा
तस्मिंस्तु पुरुषव्याघ्रे पतिते शक्रतेजसि
म्रियमाणे दुराधर्षे भीमो राजानमब्रवीत्
अनृतं न स्मराम्यस्य स्वैरेष्वपि महात्मनः
अथ कस्य विकारोऽयं येनायं पतितो भुवि
एकाह्ना निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत्
न च तत्कृतवानेष शूरमानी ततोऽपतत्
अवमेने धनुर्ग्राहानेष सर्वांश्च फल्गुनः
यथा चोक्तं तथा चैव कर्तव्यं भूतिमिच्छता
इत्युक्त्वा प्रस्थितो राजा भीमोऽथ निपपात ह
पतितश्चाब्रवीद्भीमो धर्मराजं युधिष्ठिरम्
भो भो राजन्नवेक्षस्व पतितोऽहं प्रियस्तव
किंनिमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह
अतिभुक्तं च भवता प्राणेन च विकत्थसे
अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ
इत्युक्त्वा तं महाबाहुर्जगामानवलोकयन्
श्वा त्वेकोऽनुययौ यस्ते बहुशः कीर्तितो मया