Mahaprasthanika Parva, Adhyaya 1, Verse 1
एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम्
पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते
Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम्
पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते
श्रुत्वैव कौरवो राजा वृष्णीनां कदनं महत्
प्रस्थाने मतिमाधाय वाक्यमर्जुनमब्रवीत्
कालः पचति भूतानि सर्वाण्येव महामते
कर्मन्यासमहं मन्ये त्वमपि द्रष्टुमर्हसि
इत्युक्तः स तु कौन्तेयः कालः काल इति ब्रुवन्
अन्वपद्यत तद्वाक्यं भ्रातुर्ज्येष्ठस्य वीर्यवान्
अर्जुनस्य मतं ज्ञात्वा भीमसेनो यमौ तथा
अन्वपद्यन्त तद्वाक्यं यदुक्तं सव्यसाचिना
ततो युयुत्सुमानाय्य प्रव्रजन्धर्मकाम्यया
राज्यं परिददौ सर्वं वैश्यापुत्रे युधिष्ठिरः
अभिषिच्य स्वराज्ये तु तं राजानं परिक्षितम्
दुःखार्तश्चाब्रवीद्राजा सुभद्रां पाण्डवाग्रजः
एष पुत्रस्य ते पुत्रः कुरुराजो भविष्यति
यदूनां परिशेषश्च वज्रो राजा कृतश्च ह
परिक्षिद्धास्तिनपुरे शक्रप्रस्थे तु यादवः
वज्रो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः
इत्युक्त्वा धर्मराजः स वासुदेवस्य धीमतः
मातुलस्य च वृद्धस्य रामादीनां तथैव च
भ्रातृभिः सह धर्मात्मा कृत्वोदकमतन्द्रितः
श्राद्धान्युद्दिश्य सर्वेषां चकार विधिवत्तदा
ददौ रत्नानि वासांसि ग्रामानश्वान्रथानपि
स्त्रियश्च द्विजमुख्येभ्यो गवां शतसहस्रशः
कृपमभ्यर्च्य च गुरुमर्थमानपुरस्कृतम्
शिष्यं परिक्षितं तस्मै ददौ भरतसत्तमः
ततस्तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः
सर्वमाचष्ट राजर्षिश्चिकीर्षितमथात्मनः
ते श्रुत्वैव वचस्तस्य पौरजानपदा जनाः
भृशमुद्विग्नमनसो नाभ्यनन्दन्त तद्वचः
नैवं कर्तव्यमिति ते तदोचुस्ते नराधिपम्
न च राजा तथाकार्षीत्कालपर्यायधर्मवित्
ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम्
गमनाय मतिं चक्रे भ्रातरश्चास्य ते तदा
ततः स राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः
उत्सृज्याभरणान्यङ्गाज्जगृहे वल्कलान्युत
भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी
तथैव सर्वे जगृहुर्वल्कलानि जनाधिप
विधिवत्कारयित्वेष्टिं नैष्ठिकीं भरतर्षभ
समुत्सृज्याप्सु सर्वेऽग्नीन्प्रतस्थुर्नरपुंगवाः
ततः प्ररुरुदुः सर्वाः स्त्रियो दृष्ट्वा नरर्षभान्
प्रस्थितान्द्रौपदीषष्ठान्पुरा द्यूतजितान्यथा
हर्षोऽभवच्च सर्वेषां भ्रातॄणां गमनं प्रति
युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयमवेक्ष्य च
भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः
आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात्
पौरैरनुगतो दूरं सर्वैरन्तःपुरैस्तथा
न चैनमशकत्कश्चिन्निवर्तस्वेति भाषितुम्
न्यवर्तन्त ततः सर्वे नरा नगरवासिनः
कृपप्रभृतयश्चैव युयुत्सुं पर्यवारयन्
विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा
चित्राङ्गदा ययौ चापि मणिपूरपुरं प्रति
शिष्टाः परिक्षितं त्वन्या मातरः पर्यवारयन्
पाण्डवाश्च महात्मानो द्रौपदी च यशस्विनी
कृतोपवासाः कौरव्य प्रययुः प्राङ्मुखास्ततः
योगयुक्ता महात्मानस्त्यागधर्ममुपेयुषः
अभिजग्मुर्बहून्देशान्सरितः पर्वतांस्तथा
युधिष्ठिरो ययावग्रे भीमस्तु तदनन्तरम्
अर्जुनस्तस्य चान्वेव यमौ चैव यथाक्रमम्
पृष्ठतस्तु वरारोहा श्यामा पद्मदलेक्षणा
द्रौपदी योषितां श्रेष्ठा ययौ भरतसत्तम