Mahabharata

Mausala Parva, Adhyaya 9

Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Mausala Parva, Adhyaya 9, Verse 1

प्रविशन्नर्जुनो राजन्नाश्रमं सत्यवादिनः

ददर्शासीनमेकान्ते मुनिं सत्यवतीसुतम्

Mahabharata

Mausala Parva, Adhyaya 9, Verse 2

स तमासाद्य धर्मज्ञमुपतस्थे महाव्रतम्

अर्जुनोऽस्मीति नामास्मै निवेद्याभ्यवदत्ततः

Mahabharata

Mausala Parva, Adhyaya 9, Verse 3

स्वागतं तेऽस्त्विति प्राह मुनिः सत्यवतीसुतः

आस्यतामिति चोवाच प्रसन्नात्मा महामुनिः

Mahabharata

Mausala Parva, Adhyaya 9, Verse 4

तमप्रतीतमनसं निःश्वसन्तं पुनः पुनः

निर्विण्णमनसं दृष्ट्वा पार्थं व्यासोऽब्रवीदिदम्

Mahabharata

Mausala Parva, Adhyaya 9, Verse 5

अवीरजोऽभिघातस्ते ब्राह्मणो वा हतस्त्वया

युद्धे पराजितो वासि गतश्रीरिव लक्ष्यसे

Mahabharata

Mausala Parva, Adhyaya 9, Verse 6

न त्वा प्रत्यभिजानामि किमिदं भरतर्षभ

श्रोतव्यं चेन्मया पार्थ क्षिप्रमाख्यातुमर्हसि

Mahabharata

Mausala Parva, Adhyaya 9, Verse 7

यः स मेघवपुः श्रीमान्बृहत्पङ्कजलोचनः

स कृष्णः सह रामेण त्यक्त्वा देहं दिवं गतः

Mahabharata

Mausala Parva, Adhyaya 9, Verse 8

मौसले वृष्णिवीराणां विनाशो ब्रह्मशापजः

बभूव वीरान्तकरः प्रभासे रोमहर्षणः

Mahabharata

Mausala Parva, Adhyaya 9, Verse 9

ये ते शूरा महात्मानः सिंहदर्पा महाबलाः

भोजवृष्ण्यन्धका ब्रह्मन्नन्योन्यं तैर्हतं युधि

Mahabharata

Mausala Parva, Adhyaya 9, Verse 10

गदापरिघशक्तीनां सहाः परिघबाहवः

त एरकाभिर्निहताः पश्य कालस्य पर्ययम्

Mahabharata

Mausala Parva, Adhyaya 9, Verse 11

हतं पञ्चशतं तेषां सहस्रं बाहुशालिनाम्

निधनं समनुप्राप्तं समासाद्येतरेतरम्

Mahabharata

Mausala Parva, Adhyaya 9, Verse 12

पुनः पुनर्न मृष्यामि विनाशममितौजसाम्

चिन्तयानो यदूनां च कृष्णस्य च यशस्विनः

Mahabharata

Mausala Parva, Adhyaya 9, Verse 13

शोषणं सागरस्येव पर्वतस्येव चालनम्

नभसः पतनं चैव शैत्यमग्नेस्तथैव च

Mahabharata

Mausala Parva, Adhyaya 9, Verse 14

अश्रद्धेयमहं मन्ये विनाशं शार्ङ्गधन्वनः

न चेह स्थातुमिच्छामि लोके कृष्णविनाकृतः

Mahabharata

Mausala Parva, Adhyaya 9, Verse 15

इतः कष्टतरं चान्यच्छृणु तद्वै तपोधन

मनो मे दीर्यते येन चिन्तयानस्य वै मुहुः

Mahabharata

Mausala Parva, Adhyaya 9, Verse 16

पश्यतो वृष्णिदाराश्च मम ब्रह्मन्सहस्रशः

आभीरैरनुसृत्याजौ हृताः पञ्चनदालयैः

Mahabharata

Mausala Parva, Adhyaya 9, Verse 17

धनुरादाय तत्राहं नाशकं तस्य पूरणे

यथा पुरा च मे वीर्यं भुजयोर्न तथाभवत्

Mahabharata

Mausala Parva, Adhyaya 9, Verse 18

अस्त्राणि मे प्रनष्टानि विविधानि महामुने

शराश्च क्षयमापन्नाः क्षणेनैव समन्ततः

Mahabharata

Mausala Parva, Adhyaya 9, Verse 19

पुरुषश्चाप्रमेयात्मा शङ्खचक्रगदाधरः

चतुर्भुजः पीतवासा श्यामः पद्मायतेक्षणः

Mahabharata

Mausala Parva, Adhyaya 9, Verse 20

यः स याति पुरस्तान्मे रथस्य सुमहाद्युतिः

प्रदहन्रिपुसैन्यानि न पश्याम्यहमद्य तम्

Mahabharata

Mausala Parva, Adhyaya 9, Verse 21

येन पूर्वं प्रदग्धानि शत्रुसैन्यानि तेजसा

शरैर्गाण्डीवनिर्मुक्तैरहं पश्चाद्व्यनाशयम्

Mahabharata

Mausala Parva, Adhyaya 9, Verse 22

तमपश्यन्विषीदामि घूर्णामीव च सत्तम

परिनिर्विण्णचेताश्च शान्तिं नोपलभेऽपि च

Mahabharata

Mausala Parva, Adhyaya 9, Verse 23

विना जनार्दनं वीरं नाहं जीवितुमुत्सहे

श्रुत्वैव हि गतं विष्णुं ममापि मुमुहुर्दिशः

Mahabharata

Mausala Parva, Adhyaya 9, Verse 24

प्रनष्टज्ञातिवीर्यस्य शून्यस्य परिधावतः

उपदेष्टुं मम श्रेयो भवानर्हति सत्तम

Mahabharata

Mausala Parva, Adhyaya 9, Verse 25

ब्रह्मशापविनिर्दग्धा वृष्ण्यन्धकमहारथाः

विनष्टाः कुरुशार्दूल न ताञ्शोचितुमर्हसि

Mahabharata

Mausala Parva, Adhyaya 9, Verse 26

भवितव्यं तथा तद्धि दिष्टमेतन्महात्मनाम्

उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम्

Mahabharata

Mausala Parva, Adhyaya 9, Verse 27

त्रैलोक्यमपि कृष्णो हि कृत्स्नं स्थावरजङ्गमम्

प्रसहेदन्यथा कर्तुं किमु शापं मनीषिणाम्

Mahabharata

Mausala Parva, Adhyaya 9, Verse 28

रथस्य पुरतो याति यः स चक्रगदाधरः

तव स्नेहात्पुराणर्षिर्वासुदेवश्चतुर्भुजः

Mahabharata

Mausala Parva, Adhyaya 9, Verse 29

कृत्वा भारावतरणं पृथिव्याः पृथुलोचनः

मोक्षयित्वा जगत्सर्वं गतः स्वस्थानमुत्तमम्

Mahabharata

Mausala Parva, Adhyaya 9, Verse 30

त्वया त्विह महत्कर्म देवानां पुरुषर्षभ

कृतं भीमसहायेन यमाभ्यां च महाभुज