Mausala Parva, Adhyaya 8, Verse 1
एवमुक्तः स बीभत्सुर्मातुलेन परंतपः
दुर्मना दीनमनसं वसुदेवमुवाच ह
Containing 74 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्तः स बीभत्सुर्मातुलेन परंतपः
दुर्मना दीनमनसं वसुदेवमुवाच ह
नाहं वृष्णिप्रवीरेण मधुभिश्चैव मातुल
विहीनां पृथिवीं द्रष्टुं शक्तश्चिरमिह प्रभो
राजा च भीमसेनश्च सहदेवश्च पाण्डवः
नकुलो याज्ञसेनी च षडेकमनसो वयम्
राज्ञः संक्रमणे चापि कालोऽयं वर्तते ध्रुवम्
तमिमं विद्धि संप्राप्तं कालं कालविदां वर
सर्वथा वृष्णिदारांस्तु बालवृद्धांस्तथैव च
नयिष्ये परिगृह्याहमिन्द्रप्रस्थमरिंदम
इत्युक्त्वा दारुकमिदं वाक्यमाह धनंजयः
अमात्यान्वृष्णिवीराणां द्रष्टुमिच्छामि माचिरम्
इत्येवमुक्त्वा वचनं सुधर्मां यादवीं सभाम्
प्रविवेशार्जुनः शूरः शोचमानो महारथान्
तमासनगतं तत्र सर्वाः प्रकृतयस्तथा
ब्राह्मणा नैगमाश्चैव परिवार्योपतस्थिरे
तान्दीनमनसः सर्वान्निभृतान्गतचेतसः
उवाचेदं वचः पार्थः स्वयं दीनतरस्तदा
शक्रप्रस्थमहं नेष्ये वृष्ण्यन्धकजनं स्वयम्
इदं तु नगरं सर्वं समुद्रः प्लावयिष्यति
सज्जीकुरुत यानानि रत्नानि विविधानि च
वज्रोऽयं भवतां राजा शक्रप्रस्थे भविष्यति
सप्तमे दिवसे चैव रवौ विमल उद्गते
बहिर्वत्स्यामहे सर्वे सज्जीभवत माचिरम्
इत्युक्तास्तेन ते पौराः पार्थेनाक्लिष्टकर्मणा
सज्जमाशु ततश्चक्रुः स्वसिद्ध्यर्थं समुत्सुकाः
तां रात्रिमवसत्पार्थः केशवस्य निवेशने
महता शोकमोहेन सहसाभिपरिप्लुतः
श्वोभूतेऽथ ततः शौरिर्वसुदेवः प्रतापवान्
युक्त्वात्मानं महातेजा जगाम गतिमुत्तमाम्
ततः शब्दो महानासीद्वसुदेवस्य वेश्मनि
दारुणः क्रोशतीनां च रुदतीनां च योषिताम्
प्रकीर्णमूर्धजाः सर्वा विमुक्ताभरणस्रजः
उरांसि पाणिभिर्घ्नन्त्यो व्यलपन्करुणं स्त्रियः
तं देवकी च भद्रा च रोहिणी मदिरा तथा
अन्वारोढुं व्यवसिता भर्तारं योषितां वराः
ततः शौरिं नृयुक्तेन बहुमाल्येन भारत
यानेन महता पार्थो बहिर्निष्क्रामयत्तदा
तमन्वयुस्तत्र तत्र दुःखशोकसमाहताः
द्वारकावासिनः पौराः सर्व एव नरर्षभ
तस्याश्वमेधिकं छत्रं दीप्यमानाश्च पावकाः
पुरस्तात्तस्य यानस्य याजकाश्च ततो ययुः
अनुजग्मुश्च तं वीरं देव्यस्ता वै स्वलंकृताः
स्त्रीसहस्रैः परिवृता वधूभिश्च सहस्रशः
यस्तु देशः प्रियस्तस्य जीवतोऽभून्महात्मनः
तत्रैनमुपसंकल्प्य पितृमेधं प्रचक्रिरे
तं चिताग्निगतं वीरं शूरपुत्रं वराङ्गनाः
ततोऽन्वारुरुहुः पत्न्यश्चतस्रः पतिलोकगाः
तं वै चतसृभिः स्त्रीभिरन्वितं पाण्डुनन्दनः
अदाहयच्चन्दनैश्च गन्धैरुच्चावचैरपि
ततः प्रादुरभूच्छब्दः समिद्धस्य विभावसोः
सामगानां च निर्घोषो नराणां रुदतामपि
ततो वज्रप्रधानास्ते वृष्णिवीरकुमारकाः
सर्व एवोदकं चक्रुः स्त्रियश्चैव महात्मनः
अलुप्तधर्मस्तं धर्मं कारयित्वा स फल्गुनः
जगाम वृष्णयो यत्र विनष्टा भरतर्षभ
स तान्दृष्ट्वा निपतितान्कदने भृशदुःखितः
बभूवातीव कौरव्यः प्राप्तकालं चकार च
यथाप्रधानतश्चैव चक्रे सर्वाः क्रियास्तदा
ये हता ब्रह्मशापेन मुसलैरेरकोद्भवैः