Mahabharata

Mausala Parva, Adhyaya 6

Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Mausala Parva, Adhyaya 6, Verse 1

दारुकोऽपि कुरून्गत्वा दृष्ट्वा पार्थान्महारथान्

आचष्ट मौसले वृष्णीनन्योन्येनोपसंहृतान्

Mahabharata

Mausala Parva, Adhyaya 6, Verse 2

श्रुत्वा विनष्टान्वार्ष्णेयान्सभोजकुकुरान्धकान्

पाण्डवाः शोकसंतप्ता वित्रस्तमनसोऽभवन्

Mahabharata

Mausala Parva, Adhyaya 6, Verse 3

ततोऽर्जुनस्तानामन्त्र्य केशवस्य प्रियः सखा

प्रययौ मातुलं द्रष्टुं नेदमस्तीति चाब्रवीत्

Mahabharata

Mausala Parva, Adhyaya 6, Verse 4

स वृष्णिनिलयं गत्वा दारुकेण सह प्रभो

ददर्श द्वारकां वीरो मृतनाथामिव स्त्रियम्

Mahabharata

Mausala Parva, Adhyaya 6, Verse 5

याः स्म ता लोकनाथेन नाथवत्यः पुराभवन्

तास्त्वनाथास्तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः

Mahabharata

Mausala Parva, Adhyaya 6, Verse 6

षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः

तासामासीन्महान्नादो दृष्ट्वैवार्जुनमागतम्

Mahabharata

Mausala Parva, Adhyaya 6, Verse 7

तास्तु दृष्ट्वैव कौरव्यो बाष्पेण पिहितोऽर्जुनः

हीनाः कृष्णेन पुत्रैश्च नाशकत्सोऽभिवीक्षितुम्

Mahabharata

Mausala Parva, Adhyaya 6, Verse 8

तां स वृष्ण्यन्धकजलां हयमीनां रथोडुपाम्

वादित्ररथघोषौघां वेश्मतीर्थमहाग्रहाम्

Mahabharata

Mausala Parva, Adhyaya 6, Verse 9

रत्नशैवलसंघाटां वज्रप्राकारमालिनीम्

रथ्यास्रोतोजलावर्तां चत्वरस्तिमितह्रदाम्

Mahabharata

Mausala Parva, Adhyaya 6, Verse 10

रामकृष्णमहाग्राहां द्वारकासरितं तदा

कालपाशग्रहां घोरां नदीं वैतरणीमिव

Mahabharata

Mausala Parva, Adhyaya 6, Verse 11

तां ददर्शार्जुनो धीमान्विहीनां वृष्णिपुंगवैः

गतश्रियं निरानन्दां पद्मिनीं शिशिरे यथा

Mahabharata

Mausala Parva, Adhyaya 6, Verse 12

तां दृष्ट्वा द्वारकां पार्थस्ताश्च कृष्णस्य योषितः

सस्वनं बाष्पमुत्सृज्य निपपात महीतले

Mahabharata

Mausala Parva, Adhyaya 6, Verse 13

सात्राजिती ततः सत्या रुक्मिणी च विशां पते

अभिपत्य प्ररुरुदुः परिवार्य धनंजयम्

Mahabharata

Mausala Parva, Adhyaya 6, Verse 14

ततस्ताः काञ्चने पीठे समुत्थायोपवेश्य च

अब्रुवन्त्यो महात्मानं परिवार्योपतस्थिरे

Mahabharata

Mausala Parva, Adhyaya 6, Verse 15

ततः संस्तूय गोविन्दं कथयित्वा च पाण्डवः

आश्वास्य ताः स्त्रियश्चापि मातुलं द्रष्टुमभ्यगात्