Mahabharata

Mausala Parva, Adhyaya 4

Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Mausala Parva, Adhyaya 4, Verse 1

काली स्त्री पाण्डुरैर्दन्तैः प्रविश्य हसती निशि

स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकां परिधावति

Mahabharata

Mausala Parva, Adhyaya 4, Verse 2

अलंकाराश्च छत्रं च ध्वजाश्च कवचानि च

ह्रियमाणान्यदृश्यन्त रक्षोभिः सुभयानकैः

Mahabharata

Mausala Parva, Adhyaya 4, Verse 3

तच्चाग्निदत्तं कृष्णस्य वज्रनाभमयस्मयम्

दिवमाचक्रमे चक्रं वृष्णीनां पश्यतां तदा

Mahabharata

Mausala Parva, Adhyaya 4, Verse 4

युक्तं रथं दिव्यमादित्यवर्णं; हयाहरन्पश्यतो दारुकस्य

ते सागरस्योपरिष्टादवर्त;न्मनोजवाश्चतुरो वाजिमुख्याः

Mahabharata

Mausala Parva, Adhyaya 4, Verse 5

तालः सुपर्णश्च महाध्वजौ तौ; सुपूजितौ रामजनार्दनाभ्याम्

उच्चैर्जह्रुरप्सरसो दिवानिशं; वाचश्चोचुर्गम्यतां तीर्थयात्रा

Mahabharata

Mausala Parva, Adhyaya 4, Verse 6

ततो जिगमिषन्तस्ते वृष्ण्यन्धकमहारथाः

सान्तःपुरास्तदा तीर्थयात्रामैच्छन्नरर्षभाः

Mahabharata

Mausala Parva, Adhyaya 4, Verse 7

ततो भोज्यं च भक्ष्यं च पेयं चान्धकवृष्णयः

बहु नानाविधं चक्रुर्मद्यं मांसमनेकशः

Mahabharata

Mausala Parva, Adhyaya 4, Verse 8

ततः सीधुषु सक्ताश्च निर्ययुर्नगराद्बहिः

यानैरश्वैर्गजैश्चैव श्रीमन्तस्तिग्मतेजसः

Mahabharata

Mausala Parva, Adhyaya 4, Verse 9

ततः प्रभासे न्यवसन्यथोद्देशं यथागृहम्

प्रभूतभक्ष्यपेयास्ते सदारा यादवास्तदा

Mahabharata

Mausala Parva, Adhyaya 4, Verse 10

निविष्टांस्तान्निशम्याथ समुद्रान्ते स योगवित्

जगामामन्त्र्य तान्वीरानुद्धवोऽर्थविशारदः

Mahabharata

Mausala Parva, Adhyaya 4, Verse 11

तं प्रस्थितं महात्मानमभिवाद्य कृताञ्जलिम्

जानन्विनाशं वृष्णीनां नैच्छद्वारयितुं हरिः

Mahabharata

Mausala Parva, Adhyaya 4, Verse 12

ततः कालपरीतास्ते वृष्ण्यन्धकमहारथाः

अपश्यन्नुद्धवं यान्तं तेजसावृत्य रोदसी

Mahabharata

Mausala Parva, Adhyaya 4, Verse 13

ब्राह्मणार्थेषु यत्सिद्धमन्नं तेषां महात्मनाम्

तद्वानरेभ्यः प्रददुः सुरागन्धसमन्वितम्

Mahabharata

Mausala Parva, Adhyaya 4, Verse 14

ततस्तूर्यशताकीर्णं नटनर्तकसंकुलम्

प्रावर्तत महापानं प्रभासे तिग्मतेजसाम्

Mahabharata

Mausala Parva, Adhyaya 4, Verse 15

कृष्णस्य संनिधौ रामः सहितः कृतवर्मणा

अपिबद्युयुधानश्च गदो बभ्रुस्तथैव च

Mahabharata

Mausala Parva, Adhyaya 4, Verse 16

ततः परिषदो मध्ये युयुधानो मदोत्कटः

अब्रवीत्कृतवर्माणमवहस्यावमन्य च

Mahabharata

Mausala Parva, Adhyaya 4, Verse 17

कः क्षत्रियो मन्यमानः सुप्तान्हन्यान्मृतानिव

न तन्मृष्यन्ति हार्दिक्य यादवा यत्त्वया कृतम्

Mahabharata

Mausala Parva, Adhyaya 4, Verse 18

इत्युक्ते युयुधानेन पूजयामास तद्वचः

प्रद्युम्नो रथिनां श्रेष्ठो हार्दिक्यमवमन्य च

Mahabharata

Mausala Parva, Adhyaya 4, Verse 19

ततः परमसंक्रुद्धः कृतवर्मा तमब्रवीत्

निर्दिशन्निव सावज्ञं तदा सव्येन पाणिना

Mahabharata

Mausala Parva, Adhyaya 4, Verse 20

भूरिश्रवाश्छिन्नबाहुर्युद्धे प्रायगतस्त्वया

वधेन सुनृशंसेन कथं वीरेण पातितः

Mahabharata

Mausala Parva, Adhyaya 4, Verse 21

इति तस्य वचः श्रुत्वा केशवः परवीरहा

तिर्यक्सरोषया दृष्ट्या वीक्षां चक्रे स मन्युमान्

Mahabharata

Mausala Parva, Adhyaya 4, Verse 22

मणिः स्यमन्तकश्चैव यः स सत्राजितोऽभवत्

तां कथां स्मारयामास सात्यकिर्मधुसूदनम्

Mahabharata

Mausala Parva, Adhyaya 4, Verse 23

तच्छ्रुत्वा केशवस्याङ्कमगमद्रुदती तदा

सत्यभामा प्रकुपिता कोपयन्ती जनार्दनम्

Mahabharata

Mausala Parva, Adhyaya 4, Verse 24

तत उत्थाय सक्रोधः सात्यकिर्वाक्यमब्रवीत्

पञ्चानां द्रौपदेयानां धृष्टद्युम्नशिखण्डिनोः

Mahabharata

Mausala Parva, Adhyaya 4, Verse 25

एष गच्छामि पदवीं सत्येन च तथा शपे

सौप्तिके ये च निहताः सुप्तानेन दुरात्मना

Mahabharata

Mausala Parva, Adhyaya 4, Verse 26

द्रोणपुत्रसहायेन पापेन कृतवर्मणा

समाप्तमायुरस्याद्य यशश्चापि सुमध्यमे

Mahabharata

Mausala Parva, Adhyaya 4, Verse 27

इतीदमुक्त्वा खड्गेन केशवस्य समीपतः

अभिद्रुत्य शिरः क्रुद्धश्चिच्छेद कृतवर्मणः

Mahabharata

Mausala Parva, Adhyaya 4, Verse 28

तथान्यानपि निघ्नन्तं युयुधानं समन्ततः

अभ्यधावद्धृषीकेशो विनिवारयिषुस्तदा

Mahabharata

Mausala Parva, Adhyaya 4, Verse 29

एकीभूतास्ततः सर्वे कालपर्यायचोदिताः

भोजान्धका महाराज शैनेयं पर्यवारयन्

Mahabharata

Mausala Parva, Adhyaya 4, Verse 30

तान्दृष्ट्वा पततस्तूर्णमभिक्रुद्धाञ्जनार्दनः

न चुक्रोध महातेजा जानन्कालस्य पर्ययम्