Mausala Parva, Adhyaya 3, Verse 1
एवं प्रयतमानानां वृष्णीनामन्धकैः सह
कालो गृहाणि सर्वेषां परिचक्राम नित्यशः
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवं प्रयतमानानां वृष्णीनामन्धकैः सह
कालो गृहाणि सर्वेषां परिचक्राम नित्यशः
करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः
गृहाण्यवेक्ष्य वृष्णीनां नादृश्यत पुनः क्वचित्
उत्पेदिरे महावाता दारुणाश्चा दिने दिने
वृष्ण्यन्धकविनाशाय बहवो रोमहर्षणाः
विवृद्धमूषका रथ्या विभिन्नमणिकास्तथा
चीचीकूचीति वाश्यन्त्यः सारिका वृष्णिवेश्मसु
नोपशाम्यति शब्दश्च स दिवारात्रमेव हि
अनुकुर्वन्नुलूकानां सारसा विरुतं तथा
अजाः शिवानां च रुतमन्वकुर्वत भारत
पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः
वृष्ण्यन्धकानां गेहेषु कपोता व्यचरंस्तदा
व्यजायन्त खरा गोषु करभाश्वतरीषु च
शुनीष्वपि बिडालाश्च मूषका नकुलीषु च
नापत्रपन्त पापानि कुर्वन्तो वृष्णयस्तदा
प्राद्विषन्ब्राह्मणांश्चापि पितॄन्देवांस्तथैव च
गुरूंश्चाप्यवमन्यन्त न तु रामजनार्दनौ
पत्न्यः पतीन्व्युच्चरन्त पत्नीश्च पतयस्तथा
विभावसुः प्रज्वलितो वामं विपरिवर्तते
नीललोहितमाञ्जिष्ठा विसृजन्नर्चिषः पृथक्
उदयास्तमने नित्यं पुर्यां तस्यां दिवाकरः
व्यदृश्यतासकृत्पुंभिः कबन्धैः परिवारितः
महानसेषु सिद्धेऽन्ने संस्कृतेऽतीव भारत
आहार्यमाणे कृमयो व्यदृश्यन्त नराधिप
पुण्याहे वाच्यमाने च जपत्सु च महात्मसु
अभिधावन्तः श्रूयन्ते न चादृश्यत कश्चन
परस्परं च नक्षत्रं हन्यमानं पुनः पुनः
ग्रहैरपश्यन्सर्वे ते नात्मनस्तु कथंचन
नदन्तं पाञ्चजन्यं च वृष्ण्यन्धकनिवेशने
समन्तात्प्रत्यवाश्यन्त रासभा दारुणस्वराः
एवं पश्यन्हृषीकेशः संप्राप्तं कालपर्ययम्
त्रयोदश्याममावास्यां तां दृष्ट्वा प्राब्रवीदिदम्
चतुर्दशी पञ्चदशी कृतेयं राहुणा पुनः
तदा च भारते युद्धे प्राप्ता चाद्य क्षयाय नः
विमृशन्नेव कालं तं परिचिन्त्य जनार्दनः
मेने प्राप्तं स षट्त्रिंशं वर्षं वै केशिसूदनः
पुत्रशोकाभिसंतप्ता गान्धारी हतबान्धवा
यदनुव्याजहारार्ता तदिदं समुपागतम्
इदं च तदनुप्राप्तमब्रवीद्यद्युधिष्ठिरः
पुरा व्यूढेष्वनीकेषु दृष्ट्वोत्पातान्सुदारुणान्
इत्युक्त्वा वासुदेवस्तु चिकीर्षन्सत्यमेव तत्
आज्ञापयामास तदा तीर्थयात्रामरिंदम
अघोषयन्त पुरुषास्तत्र केशवशासनात्
तीर्थयात्रा समुद्रे वः कार्येति पुरुषर्षभाः