Mahabharata

Mausala Parva, Adhyaya 2

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Mausala Parva, Adhyaya 2, Verse 1

कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह

पश्यतो वासुदेवस्य भोजाश्चैव महारथाः

Mahabharata

Mausala Parva, Adhyaya 2, Verse 2

षट्त्रिंशेऽथ ततो वर्षे वृष्णीनामनयो महान्

अन्योन्यं मुसलैस्ते तु निजघ्नुः कालचोदिताः

Mahabharata

Mausala Parva, Adhyaya 2, Verse 3

केनानुशप्तास्ते वीराः क्षयं वृष्ण्यन्धका ययुः

भोजाश्च द्विजवर्य त्वं विस्तरेण वदस्व मे

Mahabharata

Mausala Parva, Adhyaya 2, Verse 4

विश्वामित्रं च कण्वं च नारदं च तपोधनम्

सारणप्रमुखा वीरा ददृशुर्द्वारकागतान्

Mahabharata

Mausala Parva, Adhyaya 2, Verse 5

ते वै साम्बं पुरस्कृत्य भूषयित्वा स्त्रियं यथा

अब्रुवन्नुपसंगम्य दैवदण्डनिपीडिताः

Mahabharata

Mausala Parva, Adhyaya 2, Verse 6

इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः

ऋषयः साधु जानीत किमियं जनयिष्यति

Mahabharata

Mausala Parva, Adhyaya 2, Verse 7

इत्युक्तास्ते तदा राजन्विप्रलम्भप्रधर्षिताः

प्रत्यब्रुवंस्तान्मुनयो यत्तच्छृणु नराधिप

Mahabharata

Mausala Parva, Adhyaya 2, Verse 8

वृष्ण्यन्धकविनाशाय मुसलं घोरमायसम्

वासुदेवस्य दायादः साम्बोऽयं जनयिष्यति

Mahabharata

Mausala Parva, Adhyaya 2, Verse 9

येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः

उच्छेत्तारः कुलं कृत्स्नमृते रामजनार्दनौ

Mahabharata

Mausala Parva, Adhyaya 2, Verse 10

समुद्रं यास्यति श्रीमांस्त्यक्त्वा देहं हलायुधः

जरा कृष्णं महात्मानं शयानं भुवि भेत्स्यति

Mahabharata

Mausala Parva, Adhyaya 2, Verse 11

इत्यब्रुवन्त ते राजन्प्रलब्धास्तैर्दुरात्मभिः

मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम्

Mahabharata

Mausala Parva, Adhyaya 2, Verse 12

तथोक्त्वा मुनयस्ते तु ततः केशवमभ्ययुः

Mahabharata

Mausala Parva, Adhyaya 2, Verse 13

अथाब्रवीत्तदा वृष्णीञ्श्रुत्वैवं मधुसूदनः

अन्तज्ञो मतिमांस्तस्य भवितव्यं तथेति तान्

Mahabharata

Mausala Parva, Adhyaya 2, Verse 14

एवमुक्त्वा हृषीकेशः प्रविवेश पुनर्गृहान्

कृतान्तमन्यथा नैच्छत्कर्तुं स जगतः प्रभुः

Mahabharata

Mausala Parva, Adhyaya 2, Verse 15

श्वोभूतेऽथ ततः साम्बो मुसलं तदसूत वै

वृष्ण्यन्धकविनाशाय किंकरप्रतिमं महत्

Mahabharata

Mausala Parva, Adhyaya 2, Verse 16

प्रसूतं शापजं घोरं तच्च राज्ञे न्यवेदयन्

विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकारयत्

Mahabharata

Mausala Parva, Adhyaya 2, Verse 17

प्राक्षिपन्सागरे तच्च पुरुषा राजशासनात्

अघोषयंश्च नगरे वचनादाहुकस्य च

Mahabharata

Mausala Parva, Adhyaya 2, Verse 18

अद्य प्रभृति सर्वेषु वृष्ण्यन्धकगृहेष्विह

सुरासवो न कर्तव्यः सर्वैर्नगरवासिभिः

Mahabharata

Mausala Parva, Adhyaya 2, Verse 19

यश्च नोऽविदितं कुर्यात्पेयं कश्चिन्नरः क्वचित्

जीवन्स शूलमारोहेत्स्वयं कृत्वा सबान्धवः

Mahabharata

Mausala Parva, Adhyaya 2, Verse 20

ततो राजभयात्सर्वे नियमं चक्रिरे तदा

नराः शासनमाज्ञाय तस्य राज्ञो महात्मनः