Mahabharata

Mausala Parva, Adhyaya 1

Containing 11 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Mausala Parva, Adhyaya 1, Verse 1

षट्त्रिंशे त्वथ संप्राप्ते वर्षे कौरवनन्दनः

ददर्श विपरीतानि निमित्तानि युधिष्ठिरः

Mahabharata

Mausala Parva, Adhyaya 1, Verse 2

ववुर्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः

अपसव्यानि शकुना मण्डलानि प्रचक्रिरे

Mahabharata

Mausala Parva, Adhyaya 1, Verse 3

प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः

उल्काश्चाङ्गारवर्षिण्यः प्रपेतुर्गगनाद्भुवि

Mahabharata

Mausala Parva, Adhyaya 1, Verse 4

आदित्यो रजसा राजन्समवच्छन्नमण्डलः

विरश्मिरुदये नित्यं कबन्धैः समदृश्यत

Mahabharata

Mausala Parva, Adhyaya 1, Verse 5

परिवेषाश्च दृश्यन्ते दारुणाः चन्द्रसूर्ययोः

त्रिवर्णाः श्यामरूक्षान्तास्तथा भस्मारुणप्रभाः

Mahabharata

Mausala Parva, Adhyaya 1, Verse 6

एते चान्ये च बहव उत्पाता भयशंसिनः

दृश्यन्तेऽहरहो राजन्हृदयोद्वेगकारकाः

Mahabharata

Mausala Parva, Adhyaya 1, Verse 7

कस्यचित्त्वथ कालस्य कुरुराजो युधिष्ठिरः

शुश्राव वृष्णिचक्रस्य मौसले कदनं कृतम्

Mahabharata

Mausala Parva, Adhyaya 1, Verse 8

विमुक्तं वासुदेवं च श्रुत्वा रामं च पाण्डवः

समानीयाब्रवीद्भ्रातॄन्किं करिष्याम इत्युत

Mahabharata

Mausala Parva, Adhyaya 1, Verse 9

परस्परं समासाद्य ब्रह्मदण्डबलात्कृतान्

वृष्णीन्विनष्टांस्ते श्रुत्वा व्यथिताः पाण्डवाभवन्

Mahabharata

Mausala Parva, Adhyaya 1, Verse 10

निधनं वासुदेवस्य समुद्रस्येव शोषणम्

वीरा न श्रद्दधुस्तस्य विनाशं शार्ङ्गधन्वनः

Mahabharata

Mausala Parva, Adhyaya 1, Verse 11

मौसलं ते परिश्रुत्य दुःखशोकसमन्विताः

विषण्णा हतसंकल्पाः पाण्डवाः समुपाविशन्