Ashramavasika Parva, Adhyaya 47, Verse 1
नासौ वृथाग्निना दग्धो यथा तत्र श्रुतं मया
वैचित्रवीर्यो नृपतिस्तत्ते वक्ष्यामि भारत
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
नासौ वृथाग्निना दग्धो यथा तत्र श्रुतं मया
वैचित्रवीर्यो नृपतिस्तत्ते वक्ष्यामि भारत
वनं प्रविशता तेन वायुभक्षेण धीमता
अग्नयः कारयित्वेष्टिमुत्सृष्टा इति नः श्रुतम्
याजकास्तु ततस्तस्य तानग्नीन्निर्जने वने
समुत्सृज्य यथाकामं जग्मुर्भरतसत्तम
स विवृद्धस्तदा वह्निर्वने तस्मिन्नभूत्किल
तेन तद्वनमादीप्तमिति मे तापसाब्रुवन्
स राजा जाह्नवीकच्छे यथा ते कथितं मया
तेनाग्निना समायुक्तः स्वेनैव भरतर्षभ
एवमावेदयामासुर्मुनयस्ते ममानघ
ये ते भागीरथीतीरे मया दृष्टा युधिष्ठिर
एवं स्वेनाग्निना राजा समायुक्तो महीपते
मा शोचिथास्त्वं नृपतिं गतः स परमां गतिम्
गुरुशुश्रूषया चैव जननी तव पाण्डव
प्राप्ता सुमहतीं सिद्धिमिति मे नात्र संशयः
कर्तुमर्हसि कौरव्य तेषां त्वमुदकक्रियाम्
भ्रातृभिः सहितः सर्वैरेतदत्र विधीयताम्
ततः स पृथिवीपालः पाण्डवानां धुरंधरः
निर्ययौ सह सोदर्यैः सदारो भरतर्षभ
पौरजानपदाश्चैव राजभक्तिपुरस्कृताः
गङ्गां प्रजग्मुरभितो वाससैकेन संवृताः
ततोऽवगाह्य सलिलं सर्वे ते कुरुपुंगवाः
युयुत्सुमग्रतः कृत्वा ददुस्तोयं महात्मने
गान्धार्याश्च पृथायाश्च विधिवन्नामगोत्रतः
शौचं निवर्तयन्तस्ते तत्रोषुर्नगराद्बहिः
प्रेषयामास स नरान्विधिज्ञानाप्तकारिणः
गङ्गाद्वारं कुरुश्रेष्ठो यत्र दग्धोऽभवन्नृपः
तत्रैव तेषां कुल्यानि गङ्गाद्वारेऽन्वशात्तदा
कर्तव्यानीति पुरुषान्दत्तदेयान्महीपतिः
द्वादशेऽहनि तेभ्यः स कृतशौचो नराधिपः
ददौ श्राद्धानि विधिवद्दक्षिणावन्ति पाण्डवः
धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः
सुवर्णं रजतं गाश्च शय्याश्च सुमहाधनाः
गान्धार्याश्चैव तेजस्वी पृथायाश्च पृथक्पृथक्
संकीर्त्य नामनी राजा ददौ दानमनुत्तमम्
यो यदिच्छति यावच्च तावत्स लभते द्विजः
शयनं भोजनं यानं मणिरत्नमथो धनम्
यानमाच्छादनं भोगान्दासीश्च परिचारिकाः
ददौ राजा समुद्दिश्य तयोर्मात्रोर्महीपतिः
ततः स पृथिवीपालो दत्त्वा श्राद्धान्यनेकशः
प्रविवेश पुनर्धीमान्नगरं वारणाह्वयम्
ते चापि राजवचनात्पुरुषा ये गताभवन्
संकल्प्य तेषां कुल्यानि पुनः प्रत्यागमंस्ततः
माल्यैर्गन्धैश्च विविधैः पूजयित्वा यथाविधि
कुल्यानि तेषां संयोज्य तदाचख्युर्महीपतेः
समाश्वास्य च राजानं धर्मात्मानं युधिष्ठिरम्
नारदोऽप्यगमद्राजन्परमर्षिर्यथेप्सितम्
एवं वर्षाण्यतीतानि धृतराष्ट्रस्य धीमतः
वनवासे तदा त्रीणि नगरे दश पञ्च च
हतपुत्रस्य संग्रामे दानानि ददतः सदा
ज्ञातिसंबन्धिमित्राणां भ्रातॄणां स्वजनस्य च
युधिष्ठिरस्तु नृपतिर्नातिप्रीतमनास्तदा
धारयामास तद्राज्यं निहतज्ञातिबान्धवः