Ashramavasika Parva, Adhyaya 46, Verse 1
तथा महात्मनस्तस्य तपस्युग्रे च वर्ततः
अनाथस्येव निधनं तिष्ठत्स्वस्मासु बन्धुषु
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
तथा महात्मनस्तस्य तपस्युग्रे च वर्ततः
अनाथस्येव निधनं तिष्ठत्स्वस्मासु बन्धुषु
दुर्विज्ञेया हि गतयः पुरुषाणां मता मम
यत्र वैचित्रवीर्योऽसौ दग्ध एवं दवाग्निना
यस्य पुत्रशतं श्रीमदभवद्बाहुशालिनः
नागायुतबलो राजा स दग्धो हि दवाग्निना
यं पुरा पर्यवीजन्त तालवृन्तैर्वरस्त्रियः
तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम्
सूतमागधसंघैश्च शयानो यः प्रबोध्यते
धरण्यां स नृपः शेते पापस्य मम कर्मभिः
न तु शोचामि गान्धारीं हतपुत्रां यशस्विनीम्
पतिलोकमनुप्राप्तां तथा भर्तृव्रते स्थिताम्
पृथामेव तु शोचामि या पुत्रैश्वर्यमृद्धिमत्
उत्सृज्य सुमहद्दीप्तं वनवासमरोचयत्
धिग्राज्यमिदमस्माकं धिग्बलं धिक्पराक्रमम्
क्षत्रधर्मं च धिग्यस्मान्मृता जीवामहे वयम्
सुसूक्ष्मा किल कालस्य गतिर्द्विजवरोत्तम
यत्समुत्सृज्य राज्यं सा वनवासमरोचयत्
युधिष्ठिरस्य जननी भीमस्य विजयस्य च
अनाथवत्कथं दग्धा इति मुह्यामि चिन्तयन्
वृथा संतोषितो वह्निः खाण्डवे सव्यसाचिना
उपकारमजानन्स कृतघ्न इति मे मतिः
यत्रादहत्स भगवान्मातरं सव्यसाचिनः
कृत्वा यो ब्राह्मणच्छद्म भिक्षार्थी समुपागतः
धिगग्निं धिक्च पार्थस्य विश्रुतां सत्यसंधताम्
इदं कष्टतरं चान्यद्भगवन्प्रतिभाति मे
वृथाग्निना समायोगो यदभूत्पृथिवीपतेः
तथा तपस्विनस्तस्य राजर्षेः कौरवस्य ह
कथमेवंविधो मृत्युः प्रशास्य पृथिवीमिमाम्
तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने
वृथाग्निना समायुक्तो निष्ठां प्राप्तः पिता मम
मन्ये पृथा वेपमाना कृशा धमनिसंतता
हा तात धर्मराजेति समाक्रन्दन्महाभये
भीम पर्याप्नुहि भयादिति चैवाभिवाशती
समन्ततः परिक्षिप्ता माता मेऽभूद्दवाग्निना
सहदेवः प्रियस्तस्याः पुत्रेभ्योऽधिक एव तु
न चैनां मोक्षयामास वीरो माद्रवतीसुतः
तच्छ्रुत्वा रुरुदुः सर्वे समालिङ्ग्य परस्परम्
पाण्डवाः पञ्च दुःखार्ता भूतानीव युगक्षये
तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः
प्रासादाभोगसंरुद्धो अन्वरौत्सीत्स रोदसी