Mahabharata

Ashramavasika Parva, Adhyaya 46

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 46, Verse 1

तथा महात्मनस्तस्य तपस्युग्रे च वर्ततः

अनाथस्येव निधनं तिष्ठत्स्वस्मासु बन्धुषु

Mahabharata

Ashramavasika Parva, Adhyaya 46, Verse 2

दुर्विज्ञेया हि गतयः पुरुषाणां मता मम

यत्र वैचित्रवीर्योऽसौ दग्ध एवं दवाग्निना

Mahabharata

Ashramavasika Parva, Adhyaya 46, Verse 3

यस्य पुत्रशतं श्रीमदभवद्बाहुशालिनः

नागायुतबलो राजा स दग्धो हि दवाग्निना

Mahabharata

Ashramavasika Parva, Adhyaya 46, Verse 4

यं पुरा पर्यवीजन्त तालवृन्तैर्वरस्त्रियः

तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम्

Mahabharata

Ashramavasika Parva, Adhyaya 46, Verse 5

सूतमागधसंघैश्च शयानो यः प्रबोध्यते

धरण्यां स नृपः शेते पापस्य मम कर्मभिः

Mahabharata

Ashramavasika Parva, Adhyaya 46, Verse 6

न तु शोचामि गान्धारीं हतपुत्रां यशस्विनीम्

पतिलोकमनुप्राप्तां तथा भर्तृव्रते स्थिताम्

Mahabharata

Ashramavasika Parva, Adhyaya 46, Verse 7

पृथामेव तु शोचामि या पुत्रैश्वर्यमृद्धिमत्

उत्सृज्य सुमहद्दीप्तं वनवासमरोचयत्

Mahabharata

Ashramavasika Parva, Adhyaya 46, Verse 8

धिग्राज्यमिदमस्माकं धिग्बलं धिक्पराक्रमम्

क्षत्रधर्मं च धिग्यस्मान्मृता जीवामहे वयम्

Mahabharata

Ashramavasika Parva, Adhyaya 46, Verse 9

सुसूक्ष्मा किल कालस्य गतिर्द्विजवरोत्तम

यत्समुत्सृज्य राज्यं सा वनवासमरोचयत्

Mahabharata

Ashramavasika Parva, Adhyaya 46, Verse 10

युधिष्ठिरस्य जननी भीमस्य विजयस्य च

अनाथवत्कथं दग्धा इति मुह्यामि चिन्तयन्

Mahabharata

Ashramavasika Parva, Adhyaya 46, Verse 11

वृथा संतोषितो वह्निः खाण्डवे सव्यसाचिना

उपकारमजानन्स कृतघ्न इति मे मतिः

Mahabharata

Ashramavasika Parva, Adhyaya 46, Verse 12

यत्रादहत्स भगवान्मातरं सव्यसाचिनः

कृत्वा यो ब्राह्मणच्छद्म भिक्षार्थी समुपागतः

धिगग्निं धिक्च पार्थस्य विश्रुतां सत्यसंधताम्

Mahabharata

Ashramavasika Parva, Adhyaya 46, Verse 13

इदं कष्टतरं चान्यद्भगवन्प्रतिभाति मे

वृथाग्निना समायोगो यदभूत्पृथिवीपतेः

Mahabharata

Ashramavasika Parva, Adhyaya 46, Verse 14

तथा तपस्विनस्तस्य राजर्षेः कौरवस्य ह

कथमेवंविधो मृत्युः प्रशास्य पृथिवीमिमाम्

Mahabharata

Ashramavasika Parva, Adhyaya 46, Verse 15

तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने

वृथाग्निना समायुक्तो निष्ठां प्राप्तः पिता मम

Mahabharata

Ashramavasika Parva, Adhyaya 46, Verse 16

मन्ये पृथा वेपमाना कृशा धमनिसंतता

हा तात धर्मराजेति समाक्रन्दन्महाभये

Mahabharata

Ashramavasika Parva, Adhyaya 46, Verse 17

भीम पर्याप्नुहि भयादिति चैवाभिवाशती

समन्ततः परिक्षिप्ता माता मेऽभूद्दवाग्निना

Mahabharata

Ashramavasika Parva, Adhyaya 46, Verse 18

सहदेवः प्रियस्तस्याः पुत्रेभ्योऽधिक एव तु

न चैनां मोक्षयामास वीरो माद्रवतीसुतः

Mahabharata

Ashramavasika Parva, Adhyaya 46, Verse 19

तच्छ्रुत्वा रुरुदुः सर्वे समालिङ्ग्य परस्परम्

पाण्डवाः पञ्च दुःखार्ता भूतानीव युगक्षये

Mahabharata

Ashramavasika Parva, Adhyaya 46, Verse 20

तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः

प्रासादाभोगसंरुद्धो अन्वरौत्सीत्स रोदसी