Mahabharata

Ashramavasika Parva, Adhyaya 45

Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 1

द्विवर्षोपनिवृत्तेषु पाण्डवेषु यदृच्छया

देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम्

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 2

तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः

आसीनं परिविश्वस्तं प्रोवाच वदतां वरः

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 3

चिरस्य खलु पश्यामि भगवन्तमुपस्थितम्

कच्चित्ते कुशलं विप्र शुभं वा प्रत्युपस्थितम्

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 4

के देशाः परिदृष्टास्ते किं च कार्यं करोमि ते

तद्ब्रूहि द्विजमुख्य त्वमस्माकं च प्रियोऽतिथिः

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 5

चिरदृष्टोऽसि मे राजन्नागतोऽस्मि तपोवनात्

परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 6

वदन्ति पुरुषा मेऽद्य गङ्गातीरनिवासिनः

धृतराष्ट्रं महात्मानमास्थितं परमं तपः

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 7

अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः

गान्धारी च पृथा चैव सूतपुत्रश्च संजयः

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 8

कथं च वर्तते चाद्य पिता मम स पार्थिवः

श्रोतुमिच्छामि भगवन्यदि दृष्टस्त्वया नृपः

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 9

स्थिरीभूय महाराज शृणु सर्वं यथातथम्

यथा श्रुतं च दृष्टं च मया तस्मिंस्तपोवने

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 10

वनवासनिवृत्तेषु भवत्सु कुरुनन्दन

कुरुक्षेत्रात्पिता तुभ्यं गङ्गाद्वारं ययौ नृप

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 11

गान्धार्या सहितो धीमान्वध्वा कुन्त्या समन्वितः

संजयेन च सूतेन साग्निहोत्रः सयाजकः

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 12

आतस्थे स तपस्तीव्रं पिता तव तपोधनः

वीटां मुखे समाधाय वायुभक्षोऽभवन्मुनिः

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 13

वने स मुनिभिः सर्वैः पूज्यमानो महातपाः

त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 14

गान्धारी तु जलाहारा कुन्ती मासोपवासिनी

संजयः षष्ठभक्तेन वर्तयामास भारत

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 15

अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत्प्रभो

दृश्यतोऽदृश्यतश्चैव वने तस्मिन्नृपस्य ह

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 16

अनिकेतोऽथ राजा स बभूव वनगोचरः

ते चापि सहिते देव्यौ संजयश्च तमन्वयुः

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 17

संजयो नृपतेर्नेता समेषु विषमेषु च

गान्धार्यास्तु पृथा राजंश्चक्षुरासीदनिन्दिता

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 18

ततः कदाचिद्गङ्गायाः कच्छे स नृपसत्तमः

गङ्गायामाप्लुतो धीमानाश्रमाभिमुखोऽभवत्

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 19

अथ वायुः समुद्भूतो दावाग्निरभवन्महान्

ददाह तद्वनं सर्वं परिगृह्य समन्ततः

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 20

दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः

वराहाणां च यूथेषु संश्रयत्सु जलाशयान्

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 21

समाविद्धे वने तस्मिन्प्राप्ते व्यसन उत्तमे

निराहारतया राजा मन्दप्राणविचेष्टितः

असमर्थोऽपसरणे सुकृशौ मातरौ च ते

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 22

ततः स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात्

इदमाह ततः सूतं संजयं पृथिवीपते

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 23

गच्छ संजय यत्राग्निर्न त्वां दहति कर्हिचित्

वयमत्राग्निना युक्ता गमिष्यामः परां गतिम्

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 24

तमुवाच किलोद्विग्नः संजयो वदतां वरः

राजन्मृत्युरनिष्टोऽयं भविता ते वृथाग्निना

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 25

न चोपायं प्रपश्यामि मोक्षणे जातवेदसः

यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 26

इत्युक्तः संजयेनेदं पुनराह स पार्थिवः

नैष मृत्युरनिष्टो नो निःसृतानां गृहात्स्वयम्

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 27

जलमग्निस्तथा वायुरथ वापि विकर्शनम्

तापसानां प्रशस्यन्ते गच्छ संजय माचिरम्

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 28

इत्युक्त्वा संजयं राजा समाधाय मनस्तदा

प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत्तदा

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 29

संजयस्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत्

उवाच चैनं मेधावी युङ्क्ष्वात्मानमिति प्रभो

Mahabharata

Ashramavasika Parva, Adhyaya 45, Verse 30

ऋषिपुत्रो मनीषी स राजा चक्रेऽस्य तद्वचः

संनिरुध्येन्द्रियग्राममासीत्काष्ठोपमस्तदा