Ashramavasika Parva, Adhyaya 45, Verse 1
द्विवर्षोपनिवृत्तेषु पाण्डवेषु यदृच्छया
देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम्
Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.
द्विवर्षोपनिवृत्तेषु पाण्डवेषु यदृच्छया
देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम्
तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः
आसीनं परिविश्वस्तं प्रोवाच वदतां वरः
चिरस्य खलु पश्यामि भगवन्तमुपस्थितम्
कच्चित्ते कुशलं विप्र शुभं वा प्रत्युपस्थितम्
के देशाः परिदृष्टास्ते किं च कार्यं करोमि ते
तद्ब्रूहि द्विजमुख्य त्वमस्माकं च प्रियोऽतिथिः
चिरदृष्टोऽसि मे राजन्नागतोऽस्मि तपोवनात्
परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप
वदन्ति पुरुषा मेऽद्य गङ्गातीरनिवासिनः
धृतराष्ट्रं महात्मानमास्थितं परमं तपः
अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः
गान्धारी च पृथा चैव सूतपुत्रश्च संजयः
कथं च वर्तते चाद्य पिता मम स पार्थिवः
श्रोतुमिच्छामि भगवन्यदि दृष्टस्त्वया नृपः
स्थिरीभूय महाराज शृणु सर्वं यथातथम्
यथा श्रुतं च दृष्टं च मया तस्मिंस्तपोवने
वनवासनिवृत्तेषु भवत्सु कुरुनन्दन
कुरुक्षेत्रात्पिता तुभ्यं गङ्गाद्वारं ययौ नृप
गान्धार्या सहितो धीमान्वध्वा कुन्त्या समन्वितः
संजयेन च सूतेन साग्निहोत्रः सयाजकः
आतस्थे स तपस्तीव्रं पिता तव तपोधनः
वीटां मुखे समाधाय वायुभक्षोऽभवन्मुनिः
वने स मुनिभिः सर्वैः पूज्यमानो महातपाः
त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः
गान्धारी तु जलाहारा कुन्ती मासोपवासिनी
संजयः षष्ठभक्तेन वर्तयामास भारत
अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत्प्रभो
दृश्यतोऽदृश्यतश्चैव वने तस्मिन्नृपस्य ह
अनिकेतोऽथ राजा स बभूव वनगोचरः
ते चापि सहिते देव्यौ संजयश्च तमन्वयुः
संजयो नृपतेर्नेता समेषु विषमेषु च
गान्धार्यास्तु पृथा राजंश्चक्षुरासीदनिन्दिता
ततः कदाचिद्गङ्गायाः कच्छे स नृपसत्तमः
गङ्गायामाप्लुतो धीमानाश्रमाभिमुखोऽभवत्
अथ वायुः समुद्भूतो दावाग्निरभवन्महान्
ददाह तद्वनं सर्वं परिगृह्य समन्ततः
दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः
वराहाणां च यूथेषु संश्रयत्सु जलाशयान्
समाविद्धे वने तस्मिन्प्राप्ते व्यसन उत्तमे
निराहारतया राजा मन्दप्राणविचेष्टितः
असमर्थोऽपसरणे सुकृशौ मातरौ च ते
ततः स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात्
इदमाह ततः सूतं संजयं पृथिवीपते
गच्छ संजय यत्राग्निर्न त्वां दहति कर्हिचित्
वयमत्राग्निना युक्ता गमिष्यामः परां गतिम्
तमुवाच किलोद्विग्नः संजयो वदतां वरः
राजन्मृत्युरनिष्टोऽयं भविता ते वृथाग्निना
न चोपायं प्रपश्यामि मोक्षणे जातवेदसः
यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति
इत्युक्तः संजयेनेदं पुनराह स पार्थिवः
नैष मृत्युरनिष्टो नो निःसृतानां गृहात्स्वयम्
जलमग्निस्तथा वायुरथ वापि विकर्शनम्
तापसानां प्रशस्यन्ते गच्छ संजय माचिरम्
इत्युक्त्वा संजयं राजा समाधाय मनस्तदा
प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत्तदा
संजयस्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत्
उवाच चैनं मेधावी युङ्क्ष्वात्मानमिति प्रभो
ऋषिपुत्रो मनीषी स राजा चक्रेऽस्य तद्वचः
संनिरुध्येन्द्रियग्राममासीत्काष्ठोपमस्तदा