Mahabharata

Ashramavasika Parva, Adhyaya 44

Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 1

दृष्ट्वा पुत्रांस्तथा पौत्रान्सानुबन्धाञ्जनाधिपः

धृतराष्ट्रः किमकरोद्राजा चैव युधिष्ठिरः

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 2

तद्दृष्ट्वा महदाश्चर्यं पुत्राणां दर्शनं पुनः

वीतशोकः स राजर्षिः पुनराश्रममागमत्

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 3

इतरस्तु जनः सर्वस्ते चैव परमर्षयः

प्रतिजग्मुर्यथाकामं धृतराष्ट्राभ्यनुज्ञया

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 4

पाण्डवास्तु महात्मानो लघुभूयिष्ठसैनिकाः

अनुजग्मुर्महात्मानं सदारं तं महीपतिम्

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 5

तमाश्रमगतं धीमान्ब्रह्मर्षिर्लोकपूजितः

मुनिः सत्यवतीपुत्रो धृतराष्ट्रमभाषत

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 6

धृतराष्ट्र महाबाहो शृणु कौरवनन्दन

श्रुतं ते ज्ञानवृद्धानामृषीणां पुण्यकर्मणाम्

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 7

ऋद्धाभिजनवृद्धानां वेदवेदाङ्गवेदिनाम्

धर्मज्ञानां पुराणानां वदतां विविधाः कथाः

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 8

मा स्म शोके मनः कार्षीर्दिष्टे न व्यथते बुधः

श्रुतं देवरहस्यं ते नारदाद्देवदर्शनात्

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 9

गतास्ते क्षत्रधर्मेण शस्त्रपूतां गतिं शुभाम्

यथा दृष्टास्त्वया पुत्रा यथाकामविहारिणः

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 10

युधिष्ठिरस्त्वयं धीमान्भवन्तमनुरुध्यते

सहितो भ्रातृभिः सर्वैः सदारः ससुहृज्जनः

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 11

विसर्जयैनं यात्वेष स्वराज्यमनुशासताम्

मासः समधिको ह्येषामतीतो वसतां वने

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 12

एतद्धि नित्यं यत्नेन पदं रक्ष्यं परंतप

बहुप्रत्यर्थिकं ह्येतद्राज्यं नाम नराधिप

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 13

इत्युक्तः कौरवो राजा व्यासेनामितबुद्धिना

युधिष्ठिरमथाहूय वाग्मी वचनमब्रवीत्

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 14

अजातशत्रो भद्रं ते शृणु मे भ्रातृभिः सह

त्वत्प्रसादान्महीपाल शोको नास्मान्प्रबाधते

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 15

रमे चाहं त्वया पुत्र पुरेव गजसाह्वये

नाथेनानुगतो विद्वन्प्रियेषु परिवर्तिना

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 16

प्राप्तं पुत्रफलं त्वत्तः प्रीतिर्मे विपुला त्वयि

न मे मन्युर्महाबाहो गम्यतां पुत्र मा चिरम्

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 17

भवन्तं चेह संप्रेक्ष्य तपो मे परिहीयते

तपोयुक्तं शरीरं च त्वां दृष्ट्वा धारितं पुनः

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 18

मातरौ ते तथैवेमे शीर्णपर्णकृताशने

मम तुल्यव्रते पुत्र नचिरं वर्तयिष्यतः

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 19

दुर्योधनप्रभृतयो दृष्टा लोकान्तरं गताः

व्यासस्य तपसो वीर्याद्भवतश्च समागमात्

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 20

प्रयोजनं चिरं वृत्तं जीवितस्य च मेऽनघ

उग्रं तपः समास्थास्ये त्वमनुज्ञातुमर्हसि

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 21

त्वय्यद्य पिण्डः कीर्तिश्च कुलं चेदं प्रतिष्ठितम्

श्वो वाद्य वा महाबाहो गम्यतां पुत्र मा चिरम्

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 22

राजनीतिः सुबहुशः श्रुता ते भरतर्षभ

संदेष्टव्यं न पश्यामि कृतमेतावता विभो

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 23

इत्युक्तवचनं तात नृपो राजानमब्रवीत्

न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम्

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 24

कामं गच्छन्तु मे सर्वे भ्रातरोऽनुचरास्तथा

भवन्तमहमन्विष्ये मातरौ च यतव्रते

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 25

तमुवाचाथ गान्धारी मैवं पुत्र शृणुष्व मे

त्वय्यधीनं कुरुकुलं पिण्डश्च श्वशुरस्य मे

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 26

गम्यतां पुत्र पर्याप्तमेतावत्पूजिता वयम्

राजा यदाह तत्कार्यं त्वया पुत्र पितुर्वचः

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 27

इत्युक्तः स तु गान्धार्या कुन्तीमिदमुवाच ह

स्नेहबाष्पाकुले नेत्रे प्रमृज्य रुदतीं वचः

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 28

विसर्जयति मां राजा गान्धारी च यशस्विनी

भवत्यां बद्धचित्तस्तु कथं यास्यामि दुःखितः

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 29

न चोत्सहे तपोविघ्नं कर्तुं ते धर्मचारिणि

तपसो हि परं नास्ति तपसा विन्दते महत्

Mahabharata

Ashramavasika Parva, Adhyaya 44, Verse 30

ममापि न तथा राज्ञि राज्ये बुद्धिर्यथा पुरा

तपस्येवानुरक्तं मे मनः सर्वात्मना तथा