Mahabharata

Ashramavasika Parva, Adhyaya 42

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 42, Verse 1

एतच्छ्रुत्वा नृपो विद्वान्हृष्टोऽभूज्जनमेजयः

पितामहानां सर्वेषां गमनागमनं तदा

Mahabharata

Ashramavasika Parva, Adhyaya 42, Verse 2

अब्रवीच्च मुदा युक्तः पुनरागमनं प्रति

कथं नु त्यक्तदेहानां पुनस्तद्रूपदर्शनम्

Mahabharata

Ashramavasika Parva, Adhyaya 42, Verse 3

इत्युक्तः स द्विजश्रेष्ठो व्यासशिष्यः प्रतापवान्

प्रोवाच वदतां श्रेष्ठस्तं नृपं जनमेजयम्

Mahabharata

Ashramavasika Parva, Adhyaya 42, Verse 4

अविप्रणाशः सर्वेषां कर्मणामिति निश्चयः

कर्मजानि शरीराणि तथैवाकृतयो नृप

Mahabharata

Ashramavasika Parva, Adhyaya 42, Verse 5

महाभूतानि नित्यानि भूताधिपतिसंश्रयात्

तेषां च नित्यसंवासो न विनाशो वियुज्यताम्

Mahabharata

Ashramavasika Parva, Adhyaya 42, Verse 6

अनाशाय कृतं कर्म तस्य चेष्टः फलागमः

आत्मा चैभिः समायुक्तः सुखदुःखमुपाश्नुते

Mahabharata

Ashramavasika Parva, Adhyaya 42, Verse 7

अविनाशी तथा नित्यं क्षेत्रज्ञ इति निश्चयः

भूतानामात्मभावो यो ध्रुवोऽसौ संविजानताम्

Mahabharata

Ashramavasika Parva, Adhyaya 42, Verse 8

यावन्न क्षीयते कर्म तावदस्य स्वरूपता

संक्षीणकर्मा पुरुषो रूपान्यत्वं नियच्छति

Mahabharata

Ashramavasika Parva, Adhyaya 42, Verse 9

नानाभावास्तथैकत्वं शरीरं प्राप्य संहताः

भवन्ति ते तथा नित्याः पृथग्भावं विजानताम्

Mahabharata

Ashramavasika Parva, Adhyaya 42, Verse 10

अश्वमेधे श्रुतिश्चेयमश्वसंज्ञपनं प्रति

लोकान्तरगता नित्यं प्राणा नित्या हि वाजिनः

Mahabharata

Ashramavasika Parva, Adhyaya 42, Verse 11

अहं हितं वदाम्येतत्प्रियं चेत्तव पार्थिव

देवयाना हि पन्थानः श्रुतास्ते यज्ञसंस्तरे

Mahabharata

Ashramavasika Parva, Adhyaya 42, Verse 12

सुकृतो यत्र ते यज्ञस्तत्र देवा हितास्तव

यदा समन्विता देवाः पशूनां गमनेश्वराः

गतिमन्तश्च तेनेष्ट्वा नान्ये नित्या भवन्ति ते

Mahabharata

Ashramavasika Parva, Adhyaya 42, Verse 13

नित्येऽस्मिन्पञ्चके वर्गे नित्ये चात्मनि यो नरः

अस्य नानासमायोगं यः पश्यति वृथामतिः

वियोगे शोचतेऽत्यर्थं स बाल इति मे मतिः

Mahabharata

Ashramavasika Parva, Adhyaya 42, Verse 14

वियोगे दोषदर्शी यः संयोगमिह वर्जयेत्

असङ्गे संगमो नास्ति दुःखं भुवि वियोगजम्

Mahabharata

Ashramavasika Parva, Adhyaya 42, Verse 15

परापरज्ञस्तु नरो नाभिमानादुदीरितः

अपरज्ञः परां बुद्धिं स्पृष्ट्वा मोहाद्विमुच्यते

Mahabharata

Ashramavasika Parva, Adhyaya 42, Verse 16

अदर्शनादापतितः पुनश्चादर्शनं गतः

नाहं तं वेद्मि नासौ मां न च मेऽस्ति विरागता

Mahabharata

Ashramavasika Parva, Adhyaya 42, Verse 17

येन येन शरीरेण करोत्ययमनीश्वरः

तेन तेन शरीरेण तदवश्यमुपाश्नुते

मानसं मनसाप्नोति शारीरं च शरीरवान्