Mahabharata

Ashramavasika Parva, Adhyaya 41

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 1

ततस्ते भरतश्रेष्ठाः समाजग्मुः परस्परम्

विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 2

विधिं परममास्थाय ब्रह्मर्षिविहितं शुभम्

संप्रीतमनसः सर्वे देवलोक इवामराः

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 3

पुत्रः पित्रा च मात्रा च भार्या च पतिना सह

भ्राता भ्रात्रा सखा चैव सख्या राजन्समागताः

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 4

पाण्डवास्तु महेष्वासं कर्णं सौभद्रमेव च

संप्रहर्षात्समाजग्मुर्द्रौपदेयांश्च सर्वशः

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 5

ततस्ते प्रीयमाणा वै कर्णेन सह पाण्डवाः

समेत्य पृथिवीपालाः सौहृदेऽवस्थिताभवन्

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 6

ऋषिप्रसादात्तेऽन्ये च क्षत्रिया नष्टमन्यवः

असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 7

एवं समागताः सर्वे गुरुभिर्बान्धवैस्तथा

पुत्रैश्च पुरुषव्याघ्राः कुरवोऽन्ये च मानवाः

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 8

तां रात्रिमेकां कृत्स्नां ते विहृत्य प्रीतमानसाः

मेनिरे परितोषेण नृपाः स्वर्गसदो यथा

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 9

नात्र शोको भयं त्रासो नारतिर्नायशोऽभवत्

परस्परं समागम्य योधानां भरतर्षभ

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 10

समागतास्ताः पितृभिर्भ्रातृभिः पतिभिः सुतैः

मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन्

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 11

एकां रात्रिं विहृत्यैवं ते वीरास्ताश्च योषितः

आमन्त्र्यान्योन्यमाश्लिष्य ततो जग्मुर्यथागतम्

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 12

ततो विसर्जयामास लोकांस्तान्मुनिपुंगवः

क्षणेनान्तर्हिताश्चैव प्रेक्षतामेव तेऽभवन्

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 13

अवगाह्य महात्मानः पुण्यां त्रिपथगां नदीम्

सरथाः सध्वजाश्चैव स्वानि स्थानानि भेजिरे

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 14

देवलोकं ययुः केचित्केचिद्ब्रह्मसदस्तथा

केचिच्च वारुणं लोकं केचित्कौबेरमाप्नुवन्

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 15

तथा वैवस्वतं लोकं केचिच्चैवाप्नुवन्नृपाः

राक्षसानां पिशाचानां केचिच्चाप्युत्तरान्कुरून्

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 16

विचित्रगतयः सर्वे या अवाप्यामरैः सह

आजग्मुस्ते महात्मानः सवाहाः सपदानुगाः

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 17

गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः

धर्मशीलो महातेजाः कुरूणां हितकृत्सदा

ततः प्रोवाच ताः सर्वाः क्षत्रिया निहतेश्वराः

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 18

या याः पतिकृताँल्लोकानिच्छन्ति परमस्त्रियः

ता जाह्नवीजलं क्षिप्रमवगाहन्त्वतन्द्रिताः

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 19

ततस्तस्य वचः श्रुत्वा श्रद्दधाना वराङ्गनाः

श्वशुरं समनुज्ञाप्य विविशुर्जाह्नवीजलम्

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 20

विमुक्ता मानुषैर्देहैस्ततस्ता भर्तृभिः सह

समाजग्मुस्तदा साध्व्यः सर्वा एव विशां पते

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 21

एवं क्रमेण सर्वास्ताः शीलवत्यः कुलस्त्रियः

प्रविश्य तोयं निर्मुक्ता जग्मुर्भर्तृसलोकताम्

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 22

दिव्यरूपसमायुक्ता दिव्याभरणभूषिताः

दिव्यमाल्याम्बरधरा यथासां पतयस्तथा

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 23

ताः शीलसत्त्वसंपन्ना वितमस्का गतक्लमाः

सर्वाः सर्वगुणैर्युक्ताः स्वं स्वं स्थानं प्रपेदिरे

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 24

यस्य यस्य च यः कामस्तस्मिन्कालेऽभवत्तदा

तं तं विसृष्टवान्व्यासो वरदो धर्मवत्सलः

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 25

तच्छ्रुत्वा नरदेवानां पुनरागमनं नराः

जहृषुर्मुदिताश्चासन्नन्यदेहगता अपि

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 26

प्रियैः समागमं तेषां य इमं शृणुयान्नरः

प्रियाणि लभते नित्यमिह च प्रेत्य चैव ह

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 27

इष्टबान्धवसंयोगमनायासमनामयम्

य इमं श्रावयेद्विद्वान्संसिद्धिं प्राप्नुयात्पराम्

Mahabharata

Ashramavasika Parva, Adhyaya 41, Verse 28

स्वाध्याययुक्ताः पुरुषाः क्रियायुक्ताश्च भारत

अध्यात्मयोगयुक्ताश्च धृतिमन्तश्च मानवाः

श्रुत्वा पर्व त्विदं नित्यमवाप्स्यन्ति परां गतिम्