Mahabharata

Ashramavasika Parva, Adhyaya 40

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 40, Verse 1

ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः

व्यासमभ्यगमन्सर्वे ये तत्रासन्समागताः

Mahabharata

Ashramavasika Parva, Adhyaya 40, Verse 2

धृतराष्ट्रस्तु धर्मात्मा पाण्डवैः सहितस्तदा

शुचिरेकमनाः सार्धमृषिभिस्तैरुपाविशत्

Mahabharata

Ashramavasika Parva, Adhyaya 40, Verse 3

गान्धार्या सह नार्यस्तु सहिताः समुपाविशन्

पौरजानपदश्चापि जनः सर्वो यथावयः

Mahabharata

Ashramavasika Parva, Adhyaya 40, Verse 4

ततो व्यासो महातेजाः पुण्यं भागीरथीजलम्

अवगाह्याजुहावाथ सर्वाँल्लोकान्महामुनिः

Mahabharata

Ashramavasika Parva, Adhyaya 40, Verse 5

पाण्डवानां च ये योधाः कौरवाणां च सर्वशः

राजानश्च महाभागा नानादेशनिवासिनः

Mahabharata

Ashramavasika Parva, Adhyaya 40, Verse 6

ततः सुतुमुलः शब्दो जलान्तर्जनमेजय

प्रादुरासीद्यथा पूर्वं कुरुपाण्डवसेनयोः

Mahabharata

Ashramavasika Parva, Adhyaya 40, Verse 7

ततस्ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः

ससैन्याः सलिलात्तस्मात्समुत्तस्थुः सहस्रशः

Mahabharata

Ashramavasika Parva, Adhyaya 40, Verse 8

विराटद्रुपदौ चोभौ सपुत्रौ सहसैनिकौ

द्रौपदेयाश्च सौभद्रो राक्षसश्च घटोत्कचः

Mahabharata

Ashramavasika Parva, Adhyaya 40, Verse 9

कर्णदुर्योधनौ चोभौ शकुनिश्च महारथः

दुःशासनादयश्चैव धार्तराष्ट्रा महारथाः

Mahabharata

Ashramavasika Parva, Adhyaya 40, Verse 10

जारासंधिर्भगदत्तो जलसंधश्च पार्थिवः

भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः

Mahabharata

Ashramavasika Parva, Adhyaya 40, Verse 11

लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्य चात्मजाः

शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुजः

Mahabharata

Ashramavasika Parva, Adhyaya 40, Verse 12

अचलो वृषकश्चैव राक्षसश्चाप्यलायुधः

बाह्लीकः सोमदत्तश्च चेकितानश्च पार्थिवः

Mahabharata

Ashramavasika Parva, Adhyaya 40, Verse 13

एते चान्ये च बहवो बहुत्वाद्ये न कीर्तिताः

सर्वे भासुरदेहास्ते समुत्तस्थुर्जलात्ततः

Mahabharata

Ashramavasika Parva, Adhyaya 40, Verse 14

यस्य वीरस्य यो वेषो यो ध्वजो यच्च वाहनम्

तेन तेन व्यदृश्यन्त समुपेता नराधिपाः

Mahabharata

Ashramavasika Parva, Adhyaya 40, Verse 15

दिव्याम्बरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः

निर्वैरा निरहंकारा विगतक्रोधमन्यवः

Mahabharata

Ashramavasika Parva, Adhyaya 40, Verse 16

गन्धर्वैरुपगीयन्तः स्तूयमानाश्च बन्दिभिः

दिव्यमाल्याम्बरधरा वृताश्चाप्सरसां गणैः

Mahabharata

Ashramavasika Parva, Adhyaya 40, Verse 17

धृतराष्ट्रस्य च तदा दिव्यं चक्षुर्नराधिप

मुनिः सत्यवतीपुत्रः प्रीतः प्रादात्तपोबलात्

Mahabharata

Ashramavasika Parva, Adhyaya 40, Verse 18

दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी

ददर्श पुत्रांस्तान्सर्वान्ये चान्येऽपि रणे हताः

Mahabharata

Ashramavasika Parva, Adhyaya 40, Verse 19

तदद्भुतमचिन्त्यं च सुमहद्रोमहर्षणम्

विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः

Mahabharata

Ashramavasika Parva, Adhyaya 40, Verse 20

तदुत्सवमदोदग्रं हृष्टनारीनराकुलम्

ददृशे बलमायान्तं चित्रं पटगतं यथा

Mahabharata

Ashramavasika Parva, Adhyaya 40, Verse 21

धृतराष्ट्रस्तु तान्सर्वान्पश्यन्दिव्येन चक्षुषा

मुमुदे भरतश्रेष्ठ प्रसादात्तस्य वै मुनेः