Mahabharata

Ashramavasika Parva, Adhyaya 39

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 39, Verse 1

भद्रे द्रक्ष्यसि गान्धारि पुत्रान्भ्रातॄन्सखींस्तथा

वधूश्च पतिभिः सार्धं निशि सुप्तोत्थिता इव

Mahabharata

Ashramavasika Parva, Adhyaya 39, Verse 2

कर्णं द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी

द्रौपदी पञ्च पुत्रांश्च पितॄन्भ्रातॄंस्तथैव च

Mahabharata

Ashramavasika Parva, Adhyaya 39, Verse 3

पूर्वमेवैष हृदये व्यवसायोऽभवन्मम

यथास्मि चोदितो राज्ञा भवत्या पृथयैव च

Mahabharata

Ashramavasika Parva, Adhyaya 39, Verse 4

न ते शोच्या महात्मानः सर्व एव नरर्षभाः

क्षत्रधर्मपराः सन्तस्तथा हि निधनं गताः

Mahabharata

Ashramavasika Parva, Adhyaya 39, Verse 5

भवितव्यमवश्यं तत्सुरकार्यमनिन्दिते

अवतेरुस्ततः सर्वे देवभागैर्महीतलम्

Mahabharata

Ashramavasika Parva, Adhyaya 39, Verse 6

गन्धर्वाप्सरसश्चैव पिशाचा गुह्यराक्षसाः

तथा पुण्यजनाश्चैव सिद्धा देवर्षयोऽपि च

Mahabharata

Ashramavasika Parva, Adhyaya 39, Verse 7

देवाश्च दानवाश्चैव तथा ब्रह्मर्षयोऽमलाः

त एते निधनं प्राप्ताः कुरुक्षेत्रे रणाजिरे

Mahabharata

Ashramavasika Parva, Adhyaya 39, Verse 8

गन्धर्वराजो यो धीमान्धृतराष्ट्र इति श्रुतः

स एव मानुषे लोके धृतराष्ट्रः पतिस्तव

Mahabharata

Ashramavasika Parva, Adhyaya 39, Verse 9

पाण्डुं मरुद्गणं विद्धि विशिष्टतममच्युतम्

धर्मस्यांशोऽभवत्क्षत्ता राजा चायं युधिष्ठिरः

Mahabharata

Ashramavasika Parva, Adhyaya 39, Verse 10

कलिं दुर्योधनं विद्धि शकुनिं द्वापरं तथा

दुःशासनादीन्विद्धि त्वं राक्षसाञ्शुभदर्शने

Mahabharata

Ashramavasika Parva, Adhyaya 39, Verse 11

मरुद्गणाद्भीमसेनं बलवन्तमरिंदमम्

विद्धि च त्वं नरमृषिमिमं पार्थं धनंजयम्

नारायणं हृषीकेशमश्विनौ यमजावुभौ

Mahabharata

Ashramavasika Parva, Adhyaya 39, Verse 12

द्विधा कृत्वात्मनो देहमादित्यं तपतां वरम्

लोकांश्च तापयानं वै विद्धि कर्णं च शोभने

यश्च वैरार्थमुद्भूतः संघर्षजननस्तथा

Mahabharata

Ashramavasika Parva, Adhyaya 39, Verse 13

यश्च पाण्डवदायादो हतः षड्भिर्महारथैः

स सोम इह सौभद्रो योगादेवाभवद्द्विधा

Mahabharata

Ashramavasika Parva, Adhyaya 39, Verse 14

द्रौपद्या सह संभूतं धृष्टद्युम्नं च पावकात्

अग्नेर्भागं शुभं विद्धि राक्षसं तु शिखण्डिनम्

Mahabharata

Ashramavasika Parva, Adhyaya 39, Verse 15

द्रोणं बृहस्पतेर्भागं विद्धि द्रौणिं च रुद्रजम्

भीष्मं च विद्धि गाङ्गेयं वसुं मानुषतां गतम्

Mahabharata

Ashramavasika Parva, Adhyaya 39, Verse 16

एवमेते महाप्राज्ञे देवा मानुष्यमेत्य हि

ततः पुनर्गताः स्वर्गं कृते कर्मणि शोभने

Mahabharata

Ashramavasika Parva, Adhyaya 39, Verse 17

यच्च वो हृदि सर्वेषां दुःखमेनच्चिरं स्थितम्

तदद्य व्यपनेष्यामि परलोककृताद्भयात्

Mahabharata

Ashramavasika Parva, Adhyaya 39, Verse 18

सर्वे भवन्तो गच्छन्तु नदीं भागीरथीं प्रति

तत्र द्रक्ष्यथ तान्सर्वान्ये हतास्मिन्रणाजिरे

Mahabharata

Ashramavasika Parva, Adhyaya 39, Verse 19

इति व्यासस्य वचनं श्रुत्वा सर्वो जनस्तदा

महता सिंहनादेन गङ्गामभिमुखो ययौ

Mahabharata

Ashramavasika Parva, Adhyaya 39, Verse 20

धृतराष्ट्रश्च सामात्यः प्रययौ सह पाण्डवैः

सहितो मुनिशार्दूलैर्गन्धर्वैश्च समागतैः

Mahabharata

Ashramavasika Parva, Adhyaya 39, Verse 21

ततो गङ्गां समासाद्य क्रमेण स जनार्णवः

निवासमकरोत्सर्वो यथाप्रीति यथासुखम्

Mahabharata

Ashramavasika Parva, Adhyaya 39, Verse 22

राजा च पाण्डवैः सार्धमिष्टे देशे सहानुगः

निवासमकरोद्धीमान्सस्त्रीवृद्धपुरःसरः

Mahabharata

Ashramavasika Parva, Adhyaya 39, Verse 23

जगाम तदहश्चापि तेषां वर्षशतं यथा

निशां प्रतीक्षमाणानां दिदृक्षूणां मृतान्नृपान्

Mahabharata

Ashramavasika Parva, Adhyaya 39, Verse 24

अथ पुण्यं गिरिवरमस्तमभ्यगमद्रविः

ततः कृताभिषेकास्ते नैशं कर्म समाचरन्