Mahabharata

Ashramavasika Parva, Adhyaya 38

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 38, Verse 1

भगवञ्श्वशुरो मेऽसि दैवतस्यापि दैवतम्

स मे देवातिदेवस्त्वं शृणु सत्यां गिरं मम

Mahabharata

Ashramavasika Parva, Adhyaya 38, Verse 2

तपस्वी कोपनो विप्रो दुर्वासा नाम मे पितुः

भिक्षामुपागतो भोक्तुं तमहं पर्यतोषयम्

Mahabharata

Ashramavasika Parva, Adhyaya 38, Verse 3

शौचेन त्वागसस्त्यागैः शुद्धेन मनसा तथा

कोपस्थानेष्वपि महत्स्वकुप्यं न कदाचन

Mahabharata

Ashramavasika Parva, Adhyaya 38, Verse 4

स मे वरमदात्प्रीतः कृतमित्यहमब्रुवम्

अवश्यं ते ग्रहीतव्यमिति मां सोऽब्रवीद्वचः

Mahabharata

Ashramavasika Parva, Adhyaya 38, Verse 5

ततः शापभयाद्विप्रमवोचं पुनरेव तम्

एवमस्त्विति च प्राह पुनरेव स मां द्विजः

Mahabharata

Ashramavasika Parva, Adhyaya 38, Verse 6

धर्मस्य जननी भद्रे भवित्री त्वं वरानने

वशे स्थास्यन्ति ते देवा यांस्त्वमावाहयिष्यसि

Mahabharata

Ashramavasika Parva, Adhyaya 38, Verse 7

इत्युक्त्वान्तर्हितो विप्रस्ततोऽहं विस्मिताभवम्

न च सर्वास्ववस्थासु स्मृतिर्मे विप्रणश्यति

Mahabharata

Ashramavasika Parva, Adhyaya 38, Verse 8

अथ हर्म्यतलस्थाहं रविमुद्यन्तमीक्षती

संस्मृत्य तदृषेर्वाक्यं स्पृहयन्ती दिवाकरम्

स्थिताहं बालभावेन तत्र दोषमबुध्यती

Mahabharata

Ashramavasika Parva, Adhyaya 38, Verse 9

अथ देवः सहस्रांशुर्मत्समीपगतोऽभवत्

द्विधा कृत्वात्मनो देहं भूमौ च गगनेऽपि च

तताप लोकानेकेन द्वितीयेनागमच्च माम्

Mahabharata

Ashramavasika Parva, Adhyaya 38, Verse 10

स मामुवाच वेपन्तीं वरं मत्तो वृणीष्व ह

गम्यतामिति तं चाहं प्रणम्य शिरसावदम्

Mahabharata

Ashramavasika Parva, Adhyaya 38, Verse 11

स मामुवाच तिग्मांशुर्वृथाह्वानं न ते क्षमम्

धक्ष्यामि त्वां च विप्रं च येन दत्तो वरस्तव

Mahabharata

Ashramavasika Parva, Adhyaya 38, Verse 12

तमहं रक्षती विप्रं शापादनपराधिनम्

पुत्रो मे त्वत्समो देव भवेदिति ततोऽब्रुवम्

Mahabharata

Ashramavasika Parva, Adhyaya 38, Verse 13

ततो मां तेजसाविश्य मोहयित्वा च भानुमान्

उवाच भविता पुत्रस्तवेत्यभ्यगमद्दिवम्

Mahabharata

Ashramavasika Parva, Adhyaya 38, Verse 14

ततोऽहमन्तर्भवने पितुर्वृत्तान्तरक्षिणी

गूढोत्पन्नं सुतं बालं जले कर्णमवासृजम्

Mahabharata

Ashramavasika Parva, Adhyaya 38, Verse 15

नूनं तस्यैव देवस्य प्रसादात्पुनरेव तु

कन्याहमभवं विप्र यथा प्राह स मामृषिः

Mahabharata

Ashramavasika Parva, Adhyaya 38, Verse 16

स मया मूढया पुत्रो ज्ञायमानोऽप्युपेक्षितः

तन्मां दहति विप्रर्षे यथा सुविदितं तव

Mahabharata

Ashramavasika Parva, Adhyaya 38, Verse 17

यदि पापमपापं वा तदेतद्विवृतं मया

तन्मे भयं त्वं भगवन्व्यपनेतुमिहार्हसि

Mahabharata

Ashramavasika Parva, Adhyaya 38, Verse 18

यच्चास्य राज्ञो विदितं हृदिस्थं भवतोऽनघ

तं चायं लभतां काममद्यैव मुनिसत्तम

Mahabharata

Ashramavasika Parva, Adhyaya 38, Verse 19

इत्युक्तः प्रत्युवाचेदं व्यासो वेदविदां वरः

साधु सर्वमिदं तथ्यमेवमेव यथात्थ माम्

Mahabharata

Ashramavasika Parva, Adhyaya 38, Verse 20

अपराधश्च ते नास्ति कन्याभावं गता ह्यसि

देवाश्चैश्वर्यवन्तो वै शरीराण्याविशन्ति वै

Mahabharata

Ashramavasika Parva, Adhyaya 38, Verse 21

सन्ति देवनिकायाश्च संकल्पाज्जनयन्ति ये

वाचा दृष्ट्या तथा स्पर्शात्संघर्षेणेति पञ्चधा

Mahabharata

Ashramavasika Parva, Adhyaya 38, Verse 22

मनुष्यधर्मो दैवेन धर्मेण न हि युज्यते

इति कुन्ति व्यजानीहि व्येतु ते मानसो ज्वरः

Mahabharata

Ashramavasika Parva, Adhyaya 38, Verse 23

सर्वं बलवतां पथ्यं सर्वं बलवतां शुचि

सर्वं बलवतां धर्मः सर्वं बलवतां स्वकम्