Mahabharata

Ashramavasika Parva, Adhyaya 37

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 37, Verse 1

तच्छ्रुत्वा विविधं तस्य राजर्षेः परिदेवितम्

पुनर्नवीकृतः शोको गान्धार्या जनमेजय

Mahabharata

Ashramavasika Parva, Adhyaya 37, Verse 2

कुन्त्या द्रुपदपुत्र्याश्च सुभद्रायास्तथैव च

तासां च वरनारीणां वधूनां कौरवस्य ह

Mahabharata

Ashramavasika Parva, Adhyaya 37, Verse 3

पुत्रशोकसमाविष्टा गान्धारी त्विदमब्रवीत्

श्वशुरं बद्धनयना देवी प्राञ्जलिरुत्थिता

Mahabharata

Ashramavasika Parva, Adhyaya 37, Verse 4

षोडशेमानि वर्षाणि गतानि मुनिपुंगव

अस्य राज्ञो हतान्पुत्राञ्शोचतो न शमो विभो

Mahabharata

Ashramavasika Parva, Adhyaya 37, Verse 5

पुत्रशोकसमाविष्टो निःश्वसन्ह्येष भूमिपः

न शेते वसतीः सर्वा धृतराष्ट्रो महामुने

Mahabharata

Ashramavasika Parva, Adhyaya 37, Verse 6

लोकानन्यान्समर्थोऽसि स्रष्टुं सर्वांस्तपोबलात्

किमु लोकान्तरगतान्राज्ञो दर्शयितुं सुतान्

Mahabharata

Ashramavasika Parva, Adhyaya 37, Verse 7

इयं च द्रौपदी कृष्णा हतज्ञातिसुता भृशम्

शोचत्यतीव साध्वी ते स्नुषाणां दयिता स्नुषा

Mahabharata

Ashramavasika Parva, Adhyaya 37, Verse 8

तथा कृष्णस्य भगिनी सुभद्रा भद्रभाषिणी

सौभद्रवधसंतप्ता भृशं शोचति भामिनी

Mahabharata

Ashramavasika Parva, Adhyaya 37, Verse 9

इयं च भूरिश्रवसो भार्या परमदुःखिता

भर्तृव्यसनशोकार्ता न शेते वसतीः प्रभो

Mahabharata

Ashramavasika Parva, Adhyaya 37, Verse 10

यस्यास्तु श्वशुरो धीमान्बाह्लीकः स कुरूद्वहः

निहतः सोमदत्तश्च पित्रा सह महारणे

Mahabharata

Ashramavasika Parva, Adhyaya 37, Verse 11

श्रीमच्चास्य महाबुद्धेः संग्रामेष्वपलायिनः

पुत्रस्य ते पुत्रशतं निहतं यद्रणाजिरे

Mahabharata

Ashramavasika Parva, Adhyaya 37, Verse 12

तस्य भार्याशतमिदं पुत्रशोकसमाहतम्

पुनः पुनर्वर्धयानं शोकं राज्ञो ममैव च

तेनारम्भेण महता मामुपास्ते महामुने

Mahabharata

Ashramavasika Parva, Adhyaya 37, Verse 13

ये च शूरा महात्मानः श्वशुरा मे महारथाः

सोमदत्तप्रभृतयः का नु तेषां गतिः प्रभो

Mahabharata

Ashramavasika Parva, Adhyaya 37, Verse 14

तव प्रसादाद्भगवन्विशोकोऽयं महीपतिः

कुर्यात्कालमहं चैव कुन्ती चेयं वधूस्तव

Mahabharata

Ashramavasika Parva, Adhyaya 37, Verse 15

इत्युक्तवत्यां गान्धार्यां कुन्ती व्रतकृशानना

प्रच्छन्नजातं पुत्रं तं सस्मारादित्यसंभवम्

Mahabharata

Ashramavasika Parva, Adhyaya 37, Verse 16

तामृषिर्वरदो व्यासो दूरश्रवणदर्शनः

अपश्यद्दुःखितां देवीं मातरं सव्यसाचिनः

Mahabharata

Ashramavasika Parva, Adhyaya 37, Verse 17

तामुवाच ततो व्यासो यत्ते कार्यं विवक्षितम्

तद्ब्रूहि त्वं महाप्राज्ञे यत्ते मनसि वर्तते

Mahabharata

Ashramavasika Parva, Adhyaya 37, Verse 18

ततः कुन्ती श्वशुरयोः प्रणम्य शिरसा तदा

उवाच वाक्यं सव्रीडं विवृण्वाना पुरातनम्