Mahabharata

Ashramavasika Parva, Adhyaya 36

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 1

वनवासं गते विप्र धृतराष्ट्रे महीपतौ

सभार्ये नृपशार्दूले वध्वा कुन्त्या समन्विते

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 2

विदुरे चापि संसिद्धे धर्मराजं व्यपाश्रिते

वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 3

यत्तदाश्चर्यमिति वै करिष्यामीत्युवाच ह

व्यासः परमतेजस्वी महर्षिस्तद्वदस्व मे

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 4

वनवासे च कौरव्यः कियन्तं कालमच्युतः

युधिष्ठिरो नरपतिर्न्यवसत्सजनो द्विज

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 5

किमाहाराश्च ते तत्र ससैन्या न्यवसन्प्रभो

सान्तःपुरा महात्मान इति तद्ब्रूहि मेऽनघ

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 6

तेऽनुज्ञातास्तदा राजन्कुरुराजेन पाण्डवाः

विविधान्यन्नपानानि विश्राम्यानुभवन्ति ते

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 7

मासमेकं विजह्रुस्ते ससैन्यान्तःपुरा वने

अथ तत्रागमद्व्यासो यथोक्तं ते मयानघ

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 8

तथा तु तेषां सर्वेषां कथाभिर्नृपसंनिधौ

व्यासमन्वासतां राजन्नाजग्मुर्मुनयोऽपरे

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 9

नारदः पर्वतश्चैव देवलश्च महातपाः

विश्वावसुस्तुम्बुरुश्च चित्रसेनश्च भारत

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 10

तेषामपि यथान्यायं पूजां चक्रे महामनाः

धृतराष्ट्राभ्यनुज्ञातः कुरुराजो युधिष्ठिरः

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 11

निषेदुस्ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात्

आसनेष्वथ पुण्येषु बर्हिष्केषु वरेषु च

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 12

तेषु तत्रोपविष्टेषु स तु राजा महामतिः

पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वहः

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 13

गान्धारी चैव कुन्ती च द्रौपदी सात्वती तथा

स्त्रियश्चान्यास्तथान्याभिः सहोपविविशुस्ततः

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 14

तेषां तत्र कथा दिव्या धर्मिष्ठाश्चाभवन्नृप

ऋषीणां च पुराणानां देवासुरविमिश्रिताः

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 15

ततः कथान्ते व्यासस्तं प्रज्ञाचक्षुषमीश्वरम्

प्रोवाच वदतां श्रेष्ठः पुनरेव स तद्वचः

प्रीयमाणो महातेजाः सर्ववेदविदां वरः

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 16

विदितं मम राजेन्द्र यत्ते हृदि विवक्षितम्

दह्यमानस्य शोकेन तव पुत्रकृतेन वै

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 17

गान्धार्याश्चैव यद्दुःखं हृदि तिष्ठति पार्थिव

कुन्त्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितम्

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 18

यच्च धारयते तीव्रं दुःखं पुत्रविनाशजम्

सुभद्रा कृष्णभगिनी तच्चापि विदितं मम

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 19

श्रुत्वा समागममिमं सर्वेषां वस्ततो नृप

संशयच्छेदनायाहं प्राप्तः कौरवनन्दन

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 20

इमे च देवगन्धर्वाः सर्वे चैव महर्षयः

पश्यन्तु तपसो वीर्यमद्य मे चिरसंभृतम्

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 21

तदुच्यतां महाबाहो कं कामं प्रदिशामि ते

प्रवणोऽस्मि वरं दातुं पश्य मे तपसो बलम्

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 22

एवमुक्तः स राजेन्द्रो व्यासेनामितबुद्धिना

मुहूर्तमिव संचिन्त्य वचनायोपचक्रमे

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 23

धन्योऽस्म्यनुगृहीतोऽस्मि सफलं जीवितं च मे

यन्मे समागमोऽद्येह भवद्भिः सह साधुभिः

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 24

अद्य चाप्यवगच्छामि गतिमिष्टामिहात्मनः

भवद्भिर्ब्रह्मकल्पैर्यत्समेतोऽहं तपोधनाः

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 25

दर्शनादेव भवतां पूतोऽहं नात्र संशयः

विद्यते न भयं चापि परलोकान्ममानघाः

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 26

किं तु तस्य सुदुर्बुद्धेर्मन्दस्यापनयैर्भृशम्

दूयते मे मनो नित्यं स्मरतः पुत्रगृद्धिनः

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 27

अपापाः पाण्डवा येन निकृताः पापबुद्धिना

घातिता पृथिवी चेयं सहसा सनरद्विपा

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 28

राजानश्च महात्मानो नानाजनपदेश्वराः

आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 29

ये ते पुत्रांश्च दाराश्च प्राणांश्च मनसः प्रियान्

परित्यज्य गताः शूराः प्रेतराजनिवेशनम्

Mahabharata

Ashramavasika Parva, Adhyaya 36, Verse 30

का नु तेषां गतिर्ब्रह्मन्मित्रार्थे ये हता मृधे

तथैव पुत्रपौत्राणां मम ये निहता युधि