Ashramavasika Parva, Adhyaya 35, Verse 1
तथा समुपविष्टेषु पाण्डवेषु महात्मसु
व्यासः सत्यवतीपुत्रः प्रोवाचामन्त्र्य पार्थिवम्
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
तथा समुपविष्टेषु पाण्डवेषु महात्मसु
व्यासः सत्यवतीपुत्रः प्रोवाचामन्त्र्य पार्थिवम्
धृतराष्ट्र महाबाहो कच्चित्ते वर्धते तपः
कच्चिन्मनस्ते प्रीणाति वनवासे नराधिप
कच्चिद्धृदि न ते शोको राजन्पुत्रविनाशजः
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवानघ
कच्चिद्बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिम्
कच्चिद्वधूश्च गान्धारी न शोकेनाभिभूयते
महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी
आगमापायतत्त्वज्ञा कच्चिदेषा न शोचति
कच्चित्कुन्ती च राजंस्त्वां शुश्रूषुरनहंकृता
या परित्यज्य राज्यं स्वं गुरुशुश्रूषणे रता
कच्चिद्धर्मसुतो राजा त्वया प्रीत्याभिनन्दितः
भीमार्जुनयमाश्चैव कच्चिदेतेऽपि सान्त्विताः
कच्चिन्नन्दसि दृष्ट्वैतान्कच्चित्ते निर्मलं मनः
कच्चिद्विशुद्धभावोऽसि जातज्ञानो नराधिप
एतद्धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत
निर्वैरता महाराज सत्यमद्रोह एव च
कच्चित्ते नानुतापोऽस्ति वनवासेन भारत
स्वदते वन्यमन्नं वा मुनिवासांसि वा विभो
विदितं चापि मे राजन्विदुरस्य महात्मनः
गमनं विधिना येन धर्मस्य सुमहात्मनः
माण्डव्यशापाद्धि स वै धर्मो विदुरतां गतः
महाबुद्धिर्महायोगी महात्मा सुमहामनाः
बृहस्पतिर्वा देवेषु शुक्रो वाप्यसुरेषु यः
न तथा बुद्धिसंपन्नो यथा स पुरुषर्षभः
तपोबलव्ययं कृत्वा सुमहच्चिरसंभृतम्
माण्डव्येनर्षिणा धर्मो ह्यभिभूतः सनातनः
नियोगाद्ब्रह्मणः पूर्वं मया स्वेन बलेन च
वैचित्रवीर्यके क्षेत्रे जातः स सुमहामतिः
भ्राता तव महाराज देवदेवः सनातनः
धारणाच्छ्रेयसो ध्यानाद्यं धर्मं कवयो विदुः
सत्येन संवर्धयति दमेन नियमेन च
अहिंसया च दानेन तपसा च सनातनः
येन योगबलाज्जातः कुरुराजो युधिष्ठिरः
धर्म इत्येष नृपते प्राज्ञेनामितबुद्धिना
यथा ह्यग्निर्यथा वायुर्यथापः पृथिवी यथा
यथाकाशं तथा धर्म इह चामुत्र च स्थितः
सर्वगश्चैव कौरव्य सर्वं व्याप्य चराचरम्
दृश्यते देवदेवः स सिद्धैर्निर्दग्धकिल्बिषैः
यो हि धर्मः स विदुरो विदुरो यः स पाण्डवः
स एष राजन्वश्यस्ते पाण्डवः प्रेष्यवत्स्थितः
प्रविष्टः स स्वमात्मानं भ्राता ते बुद्धिसत्तमः
दिष्ट्या महात्मा कौन्तेयं महायोगबलान्वितः
त्वां चापि श्रेयसा योक्ष्ये नचिराद्भरतर्षभ
संशयच्छेदनार्थं हि प्राप्तं मां विद्धि पुत्रक
न कृतं यत्पुरा कैश्चित्कर्म लोके महर्षिभिः
आश्चर्यभूतं तपसः फलं संदर्शयामि वः
किमिच्छसि महीपाल मत्तः प्राप्तुममानुषम्
द्रष्टुं स्प्रष्टुमथ श्रोतुं वद कर्तास्मि तत्तथा