Mahabharata

Ashramavasika Parva, Adhyaya 34

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 34, Verse 1

एवं सा रजनी तेषामाश्रमे पुण्यकर्मणाम्

शिवा नक्षत्रसंपन्ना सा व्यतीयाय भारत

Mahabharata

Ashramavasika Parva, Adhyaya 34, Verse 2

तत्र तत्र कथाश्चासंस्तेषां धर्मार्थलक्षणाः

विचित्रपदसंचारा नानाश्रुतिभिरन्विताः

Mahabharata

Ashramavasika Parva, Adhyaya 34, Verse 3

पाण्डवास्त्वभितो मातुर्धरण्यां सुषुपुस्तदा

उत्सृज्य सुमहार्हाणि शयनानि नराधिप

Mahabharata

Ashramavasika Parva, Adhyaya 34, Verse 4

यदाहारोऽभवद्राजा धृतराष्ट्रो महामनाः

तदाहारा नृवीरास्ते न्यवसंस्तां निशां तदा

Mahabharata

Ashramavasika Parva, Adhyaya 34, Verse 5

व्यतीतायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियः

भ्रातृभिः सह कौन्तेयो ददर्शाश्रममण्डलम्

Mahabharata

Ashramavasika Parva, Adhyaya 34, Verse 6

सान्तःपुरपरीवारः सभृत्यः सपुरोहितः

यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया

Mahabharata

Ashramavasika Parva, Adhyaya 34, Verse 7

ददर्श तत्र वेदीश्च संप्रज्वलितपावकाः

कृताभिषेकैर्मुनिभिर्हुताग्निभिरुपस्थिताः

Mahabharata

Ashramavasika Parva, Adhyaya 34, Verse 8

वानेयपुष्पनिकरैराज्यधूमोद्गमैरपि

ब्राह्मेण वपुषा युक्ता युक्ता मुनिगणैश्च ताः

Mahabharata

Ashramavasika Parva, Adhyaya 34, Verse 9

मृगयूथैरनुद्विग्नैस्तत्र तत्र समाश्रितैः

अशङ्कितैः पक्षिगणैः प्रगीतैरिव च प्रभो

Mahabharata

Ashramavasika Parva, Adhyaya 34, Verse 10

केकाभिर्नीलकण्ठानां दात्यूहानां च कूजितैः

कोकिलानां च कुहरैः शुभैः श्रुतिमनोहरैः

Mahabharata

Ashramavasika Parva, Adhyaya 34, Verse 11

प्राधीतद्विजघोषैश्च क्वचित्क्वचिदलंकृतम्

फलमूलसमुद्वाहैर्महद्भिश्चोपशोभितम्

Mahabharata

Ashramavasika Parva, Adhyaya 34, Verse 12

ततः स राजा प्रददौ तापसार्थमुपाहृतान्

कलशान्काञ्चनान्राजंस्तथैवौदुम्बरानपि

Mahabharata

Ashramavasika Parva, Adhyaya 34, Verse 13

अजिनानि प्रवेणीश्च स्रुक्स्रुवं च महीपतिः

कमण्डलूंस्तथा स्थालीः पिठराणि च भारत

Mahabharata

Ashramavasika Parva, Adhyaya 34, Verse 14

भाजनानि च लौहानि पात्रीश्च विविधा नृप

यद्यदिच्छति यावच्च यदन्यदपि काङ्क्षितम्

Mahabharata

Ashramavasika Parva, Adhyaya 34, Verse 15

एवं स राजा धर्मात्मा परीत्याश्रममण्डलम्

वसु विश्राण्य तत्सर्वं पुनरायान्महीपतिः

Mahabharata

Ashramavasika Parva, Adhyaya 34, Verse 16

कृताह्निकं च राजानं धृतराष्ट्रं मनीषिणम्

ददर्शासीनमव्यग्रं गान्धारीसहितं तदा

Mahabharata

Ashramavasika Parva, Adhyaya 34, Verse 17

मातरं चाविदूरस्थां शिष्यवत्प्रणतां स्थिताम्

कुन्तीं ददर्श धर्मात्मा सततं धर्मचारिणीम्

Mahabharata

Ashramavasika Parva, Adhyaya 34, Verse 18

स तमभ्यर्च्य राजानं नाम संश्राव्य चात्मनः

निषीदेत्यभ्यनुज्ञातो बृस्यामुपविवेश ह

Mahabharata

Ashramavasika Parva, Adhyaya 34, Verse 19

भीमसेनादयश्चैव पाण्डवाः कौरवर्षभम्

अभिवाद्योपसंगृह्य निषेदुः पार्थिवाज्ञया

Mahabharata

Ashramavasika Parva, Adhyaya 34, Verse 20

स तैः परिवृतो राजा शुशुभेऽतीव कौरवः

बिभ्रद्ब्राह्मीं श्रियं दीप्तां देवैरिव बृहस्पतिः

Mahabharata

Ashramavasika Parva, Adhyaya 34, Verse 21

तथा तेषूपविष्टेषु समाजग्मुर्महर्षयः

शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः

Mahabharata

Ashramavasika Parva, Adhyaya 34, Verse 22

व्यासश्च भगवान्विप्रो देवर्षिगणपूजितः

वृतः शिष्यैर्महातेजा दर्शयामास तं नृपम्

Mahabharata

Ashramavasika Parva, Adhyaya 34, Verse 23

ततः स राजा कौरव्यः कुन्तीपुत्रश्च वीर्यवान्

भीमसेनादयश्चैव समुत्थायाभ्यपूजयन्

Mahabharata

Ashramavasika Parva, Adhyaya 34, Verse 24

समागतस्ततो व्यासः शतयूपादिभिर्वृतः

धृतराष्ट्रं महीपालमास्यतामित्यभाषत

Mahabharata

Ashramavasika Parva, Adhyaya 34, Verse 25

नवं तु विष्टरं कौश्यं कृष्णाजिनकुशोत्तरम्

प्रतिपेदे तदा व्यासस्तदर्थमुपकल्पितम्

Mahabharata

Ashramavasika Parva, Adhyaya 34, Verse 26

ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः

द्वैपायनाभ्यनुज्ञाता निषेदुर्विपुलौजसः