Mahabharata

Ashramavasika Parva, Adhyaya 33

Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 1

युधिष्ठिर महाबाहो कच्चित्तात कुशल्यसि

सहितो भ्रातृभिः सर्वैः पौरजानपदैस्तथा

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 2

ये च त्वामुपजीवन्ति कच्चित्तेऽपि निरामयाः

सचिवा भृत्यवर्गाश्च गुरवश्चैव ते विभो

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 3

कच्चिद्वर्तसि पौराणीं वृत्तिं राजर्षिसेविताम्

कच्चिद्दायाननुच्छिद्य कोशस्तेऽभिप्रपूर्यते

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 4

अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः

ब्राह्मणानग्रहारैर्वा यथावदनुपश्यसि

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 5

कच्चित्ते परितुष्यन्ति शीलेन भरतर्षभ

शत्रवो गुरवः पौरा भृत्या वा स्वजनोऽपि वा

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 6

कच्चिद्यजसि राजेन्द्र श्रद्धावान्पितृदेवताः

अतिथींश्चान्नपानेन कच्चिदर्चसि भारत

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 7

कच्चिच्च विषये विप्राः स्वकर्मनिरतास्तव

क्षत्रिया वैश्यवर्गा वा शूद्रा वापि कुटुम्बिनः

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 8

कच्चित्स्त्रीबालवृद्धं ते न शोचति न याचते

जामयः पूजिताः कच्चित्तव गेहे नरर्षभ

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 9

कच्चिद्राजर्षिवंशोऽयं त्वामासाद्य महीपतिम्

यथोचितं महाराज यशसा नावसीदति

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 10

इत्येवंवादिनं तं स न्यायवित्प्रत्यभाषत

कुशलप्रश्नसंयुक्तं कुशलो वाक्यकर्मणि

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 11

कच्चित्ते वर्धते राजंस्तपो मन्दश्रमस्य ते

अपि मे जननी चेयं शुश्रूषुर्विगतक्लमा

अप्यस्याः सफलो राजन्वनवासो भविष्यति

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 12

इयं च माता ज्येष्ठा मे शीतवाताध्वकर्शिता

घोरेण तपसा युक्ता देवी कच्चिन्न शोचति

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 13

हतान्पुत्रान्महावीर्यान्क्षत्रधर्मपरायणान्

नापध्यायति वा कच्चिदस्मान्पापकृतः सदा

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 14

क्व चासौ विदुरो राजन्नैनं पश्यामहे वयम्

संजयः कुशली चायं कच्चिन्नु तपसि स्थितः

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 15

इत्युक्तः प्रत्युवाचेदं धृतराष्ट्रो जनाधिपम्

कुशली विदुरः पुत्र तपो घोरं समास्थितः

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 16

वायुभक्षो निराहारः कृशो धमनिसंततः

कदाचिद्दृश्यते विप्रैः शून्येऽस्मिन्कानने क्वचित्

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 17

इत्येवं वदतस्तस्य जटी वीटामुखः कृशः

दिग्वासा मलदिग्धाङ्गो वनरेणुसमुक्षितः

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 18

दूरादालक्षितः क्षत्ता तत्राख्यातो महीपतेः

निवर्तमानः सहसा जनं दृष्ट्वाश्रमं प्रति

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 19

तमन्वधावन्नृपतिरेक एव युधिष्ठिरः

प्रविशन्तं वनं घोरं लक्ष्यालक्ष्यं क्वचित्क्वचित्

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 20

भो भो विदुर राजाहं दयितस्ते युधिष्ठिरः

इति ब्रुवन्नरपतिस्तं यत्नादभ्यधावत

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 21

ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः

विदुरो वृक्षमाश्रित्य कंचित्तत्र वनान्तरे

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 22

तं राजा क्षीणभूयिष्ठमाकृतीमात्रसूचितम्

अभिजज्ञे महाबुद्धिं महाबुद्धिर्युधिष्ठिरः

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 23

युधिष्ठिरोऽहमस्मीति वाक्यमुक्त्वाग्रतः स्थितः

विदुरस्याश्रवे राजा स च प्रत्याह संज्ञया

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 24

ततः सोऽनिमिषो भूत्वा राजानं समुदैक्षत

संयोज्य विदुरस्तस्मिन्दृष्टिं दृष्ट्या समाहितः

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 25

विवेश विदुरो धीमान्गात्रैर्गात्राणि चैव ह

प्राणान्प्राणेषु च दधदिन्द्रियाणीन्द्रियेषु च

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 26

स योगबलमास्थाय विवेश नृपतेस्तनुम्

विदुरो धर्मराजस्य तेजसा प्रज्वलन्निव

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 27

विदुरस्य शरीरं तत्तथैव स्तब्धलोचनम्

वृक्षाश्रितं तदा राजा ददर्श गतचेतनम्

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 28

बलवन्तं तथात्मानं मेने बहुगुणं तदा

धर्मराजो महातेजास्तच्च सस्मार पाण्डवः

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 29

पौराणमात्मनः सर्वं विद्यावान्स विशां पते

योगधर्मं महातेजा व्यासेन कथितं यथा

Mahabharata

Ashramavasika Parva, Adhyaya 33, Verse 30

धर्मराजस्तु तत्रैनं संचस्कारयिषुस्तदा

दग्धुकामोऽभवद्विद्वानथ वै वागभाषत