Mahabharata

Ashramavasika Parva, Adhyaya 32

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 32, Verse 1

स तैः सह नरव्याघ्रैर्भ्रातृभिर्भरतर्षभ

राजा रुचिरपद्माक्षैरासां चक्रे तदाश्रमे

Mahabharata

Ashramavasika Parva, Adhyaya 32, Verse 2

तापसैश्च महाभागैर्नानादेशसमागतैः

द्रष्टुं कुरुपतेः पुत्रान्पाण्डवान्पृथुवक्षसः

Mahabharata

Ashramavasika Parva, Adhyaya 32, Verse 3

तेऽब्रुवञ्ज्ञातुमिच्छामः कतमोऽत्र युधिष्ठिरः

भीमार्जुनयमाश्चैव द्रौपदी च यशस्विनी

Mahabharata

Ashramavasika Parva, Adhyaya 32, Verse 4

तानाचख्यौ तदा सूतः सर्वान्नामाभिनामतः

संजयो द्रौपदीं चैव सर्वाश्चान्याः कुरुस्त्रियः

Mahabharata

Ashramavasika Parva, Adhyaya 32, Verse 5

य एष जाम्बूनदशुद्धगौर;तनुर्महासिंह इव प्रवृद्धः

प्रचण्डघोणः पृथुदीर्घनेत्र;स्ताम्रायतास्यः कुरुराज एषः

Mahabharata

Ashramavasika Parva, Adhyaya 32, Verse 6

अयं पुनर्मत्तगजेन्द्रगामी; प्रतप्तचामीकरशुद्धगौरः

पृथ्वायतांसः पृथुदीर्घबाहु;र्वृकोदरः पश्यत पश्यतैनम्

Mahabharata

Ashramavasika Parva, Adhyaya 32, Verse 7

यस्त्वेष पार्श्वेऽस्य महाधनुष्मा;ञ्श्यामो युवा वारणयूथपाभः

सिंहोन्नतांसो गजखेलगामी; पद्मायताक्षोऽर्जुन एष वीरः

Mahabharata

Ashramavasika Parva, Adhyaya 32, Verse 8

कुन्तीसमीपे पुरुषोत्तमौ तु; यमाविमौ विष्णुमहेन्द्रकल्पौ

मनुष्यलोके सकले समोऽस्ति; ययोर्न रूपे न बले न शीले

Mahabharata

Ashramavasika Parva, Adhyaya 32, Verse 9

इयं पुनः पद्मदलायताक्षी; मध्यं वयः किंचिदिव स्पृशन्ती

नीलोत्पलाभा पुरदेवतेव; कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः

Mahabharata

Ashramavasika Parva, Adhyaya 32, Verse 10

अस्यास्तु पार्श्वे कनकोत्तमाभा; यैषा प्रभा मूर्तिमतीव गौरी

मध्ये स्थितैषा भगिनी द्विजाग्र्या; चक्रायुधस्याप्रतिमस्य तस्य

Mahabharata

Ashramavasika Parva, Adhyaya 32, Verse 11

इयं स्वसा राजचमूपतेस्तु; प्रवृद्धनीलोत्पलदामवर्णा

पस्पर्ध कृष्णेन नृपः सदा यो; वृकोदरस्यैष परिग्रहोऽग्र्यः

Mahabharata

Ashramavasika Parva, Adhyaya 32, Verse 12

इयं च राज्ञो मगधाधिपस्य; सुता जरासंध इति श्रुतस्य

यवीयसो माद्रवतीसुतस्य; भार्या मता चम्पकदामगौरी

Mahabharata

Ashramavasika Parva, Adhyaya 32, Verse 13

इन्दीवरश्यामतनुः स्थिता तु; यैषापरासन्नमहीतले च

भार्या मता माद्रवतीसुतस्य; ज्येष्ठस्य सेयं कमलायताक्षी

Mahabharata

Ashramavasika Parva, Adhyaya 32, Verse 14

इयं तु निष्टप्तसुवर्णगौरी; राज्ञो विराटस्य सुता सपुत्रा

भार्याभिमन्योर्निहतो रणे यो; द्रोणादिभिस्तैर्विरथो रथस्थैः

Mahabharata

Ashramavasika Parva, Adhyaya 32, Verse 15

एतास्तु सीमन्तशिरोरुहा याः; शुक्लोत्तरीया नरराजपत्न्यः

राज्ञोऽस्य वृद्धस्य परंशताख्याः; स्नुषा विवीरा हतपुत्रनाथाः

Mahabharata

Ashramavasika Parva, Adhyaya 32, Verse 16

एता यथामुख्यमुदाहृता वो; ब्राह्मण्यभावादृजुबुद्धिसत्त्वाः

सर्वा भवद्भिः परिपृच्छ्यमाना; नरेन्द्रपत्न्यः सुविशुद्धसत्त्वाः

Mahabharata

Ashramavasika Parva, Adhyaya 32, Verse 17

एवं स राजा कुरुवृद्धवर्यः; समागतस्तैर्नरदेवपुत्रैः

पप्रच्छ सर्वान्कुशलं तदानीं; गतेषु सर्वेष्वथ तापसेषु

Mahabharata

Ashramavasika Parva, Adhyaya 32, Verse 18

योधेषु चाप्याश्रममण्डलं तं; मुक्त्वा निविष्टेषु विमुच्य पत्रम्

स्त्रीवृद्धबाले च सुसंनिविष्टे; यथार्हतः कुशलं पर्यपृच्छत्