Mahabharata

Ashramavasika Parva, Adhyaya 31

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 31, Verse 1

ततस्ते पाण्डवा दूरादवतीर्य पदातयः

अभिजग्मुर्नरपतेराश्रमं विनयानताः

Mahabharata

Ashramavasika Parva, Adhyaya 31, Verse 2

स च पौरजनः सर्वो ये च राष्ट्रनिवासिनः

स्त्रियश्च कुरुमुख्यानां पद्भिरेवान्वयुस्तदा

Mahabharata

Ashramavasika Parva, Adhyaya 31, Verse 3

आश्रमं ते ततो जग्मुर्धृतराष्ट्रस्य पाण्डवाः

शून्यं मृगगणाकीर्णं कदलीवनशोभितम्

Mahabharata

Ashramavasika Parva, Adhyaya 31, Verse 4

ततस्तत्र समाजग्मुस्तापसा विविधव्रताः

पाण्डवानागतान्द्रष्टुं कौतूहलसमन्विताः

Mahabharata

Ashramavasika Parva, Adhyaya 31, Verse 5

तानपृच्छत्ततो राजा क्वासौ कौरववंशभृत्

पिता ज्येष्ठो गतोऽस्माकमिति बाष्पपरिप्लुतः

Mahabharata

Ashramavasika Parva, Adhyaya 31, Verse 6

तमूचुस्ते ततो वाक्यं यमुनामवगाहितुम्

पुष्पाणामुदकुम्भस्य चार्थे गत इति प्रभो

Mahabharata

Ashramavasika Parva, Adhyaya 31, Verse 7

तैराख्यातेन मार्गेण ततस्ते प्रययुस्तदा

ददृशुश्चाविदूरे तान्सर्वानथ पदातयः

Mahabharata

Ashramavasika Parva, Adhyaya 31, Verse 8

ततस्ते सत्वरा जग्मुः पितुर्दर्शनकाङ्क्षिणः

सहदेवस्तु वेगेन प्राधावद्येन सा पृथा

Mahabharata

Ashramavasika Parva, Adhyaya 31, Verse 9

सस्वनं प्ररुदन्धीमान्मातुः पादावुपस्पृशन्

सा च बाष्पाविलमुखी प्रददर्श प्रियं सुतम्

Mahabharata

Ashramavasika Parva, Adhyaya 31, Verse 10

बाहुभ्यां संपरिष्वज्य समुन्नाम्य च पुत्रकम्

गान्धार्याः कथयामास सहदेवमुपस्थितम्

Mahabharata

Ashramavasika Parva, Adhyaya 31, Verse 11

अनन्तरं च राजानं भीमसेनमथार्जुनम्

नकुलं च पृथा दृष्ट्वा त्वरमाणोपचक्रमे

Mahabharata

Ashramavasika Parva, Adhyaya 31, Verse 12

सा ह्यग्रेऽगच्छत तयोर्दंपत्योर्हतपुत्रयोः

कर्षन्ती तौ ततस्ते तां दृष्ट्वा संन्यपतन्भुवि

Mahabharata

Ashramavasika Parva, Adhyaya 31, Verse 13

तान्राजा स्वरयोगेन स्पर्शेन च महामनाः

प्रत्यभिज्ञाय मेधावी समाश्वासयत प्रभुः

Mahabharata

Ashramavasika Parva, Adhyaya 31, Verse 14

ततस्ते बाष्पमुत्सृज्य गान्धारीसहितं नृपम्

उपतस्थुर्महात्मानो मातरं च यथाविधि

Mahabharata

Ashramavasika Parva, Adhyaya 31, Verse 15

सर्वेषां तोयकलशाञ्जगृहुस्ते स्वयं तदा

पाण्डवा लब्धसंज्ञास्ते मात्रा चाश्वासिताः पुनः

Mahabharata

Ashramavasika Parva, Adhyaya 31, Verse 16

ततो नार्यो नृसिंहानां स च योधजनस्तदा

पौरजानपदाश्चैव ददृशुस्तं नराधिपम्

Mahabharata

Ashramavasika Parva, Adhyaya 31, Verse 17

निवेदयामास तदा जनं तं नामगोत्रतः

युधिष्ठिरो नरपतिः स चैनान्प्रत्यपूजयत्

Mahabharata

Ashramavasika Parva, Adhyaya 31, Verse 18

स तैः परिवृतो मेने हर्षबाष्पाविलेक्षणः

राजात्मानं गृहगतं पुरेव गजसाह्वये

Mahabharata

Ashramavasika Parva, Adhyaya 31, Verse 19

अभिवादितो वधूभिश्च कृष्णाद्याभिः स पार्थिवः

गान्धार्या सहितो धीमान्कुन्त्या च प्रत्यनन्दत

Mahabharata

Ashramavasika Parva, Adhyaya 31, Verse 20

ततश्चाश्रममागच्छत्सिद्धचारणसेवितम्

दिदृक्षुभिः समाकीर्णं नभस्तारागणैरिव