Mahabharata

Ashramavasika Parva, Adhyaya 30

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 30, Verse 1

आज्ञापयामास ततः सेनां भरतसत्तमः

अर्जुनप्रमुखैर्गुप्तां लोकपालोपमैर्नरैः

Mahabharata

Ashramavasika Parva, Adhyaya 30, Verse 2

योगो योग इति प्रीत्या ततः शब्दो महानभूत्

क्रोशतां सादिनां तत्र युज्यतां युज्यतामिति

Mahabharata

Ashramavasika Parva, Adhyaya 30, Verse 3

केचिद्यानैर्नरा जग्मुः केचिदश्वैर्मनोजवैः

रथैश्च नगराकारैः प्रदीप्तज्वलनोपमैः

Mahabharata

Ashramavasika Parva, Adhyaya 30, Verse 4

गजेन्द्रैश्च तथैवान्ये केचिदुष्ट्रैर्नराधिप

पदातिनस्तथैवान्ये नखरप्रासयोधिनः

Mahabharata

Ashramavasika Parva, Adhyaya 30, Verse 5

पौरजानपदाश्चैव यानैर्बहुविधैस्तथा

अन्वयुः कुरुराजानं धृतराष्ट्रदिदृक्षया

Mahabharata

Ashramavasika Parva, Adhyaya 30, Verse 6

स चापि राजवचनादाचार्यो गौतमः कृपः

सेनामादाय सेनानी प्रययावाश्रमं प्रति

Mahabharata

Ashramavasika Parva, Adhyaya 30, Verse 7

ततो द्विजैर्वृतः श्रीमान्कुरुराजो युधिष्ठिरः

संस्तूयमानो बहुभिः सूतमागधबन्दिभिः

Mahabharata

Ashramavasika Parva, Adhyaya 30, Verse 8

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि

रथानीकेन महता निर्ययौ कुरुनन्दनः

Mahabharata

Ashramavasika Parva, Adhyaya 30, Verse 9

गजैश्चाचलसंकाशैर्भीमकर्मा वृकोदरः

सज्जयन्त्रायुधोपेतैः प्रययौ मारुतात्मजः

Mahabharata

Ashramavasika Parva, Adhyaya 30, Verse 10

माद्रीपुत्रावपि तथा हयारोहैः सुसंवृतौ

जग्मतुः प्रीतिजननौ संनद्धकवचध्वजौ

Mahabharata

Ashramavasika Parva, Adhyaya 30, Verse 11

अर्जुनश्च महातेजा रथेनादित्यवर्चसा

वशी श्वेतैर्हयैर्दिव्यैर्युक्तेनान्वगमन्नृपम्

Mahabharata

Ashramavasika Parva, Adhyaya 30, Verse 12

द्रौपदीप्रमुखाश्चापि स्त्रीसंघाः शिबिकागताः

स्त्र्यध्यक्षयुक्ताः प्रययुर्विसृजन्तोऽमितं वसु

Mahabharata

Ashramavasika Parva, Adhyaya 30, Verse 13

समृद्धनरनागाश्वं वेणुवीणानिनादितम्

शुशुभे पाण्डवं सैन्यं तत्तदा भरतर्षभ

Mahabharata

Ashramavasika Parva, Adhyaya 30, Verse 14

नदीतीरेषु रम्येषु सरत्सु च विशां पते

वासान्कृत्वा क्रमेणाथ जग्मुस्ते कुरुपुंगवाः

Mahabharata

Ashramavasika Parva, Adhyaya 30, Verse 15

युयुत्सुश्च महातेजा धौम्यश्चैव पुरोहितः

युधिष्ठिरस्य वचनात्पुरगुप्तिं प्रचक्रतुः

Mahabharata

Ashramavasika Parva, Adhyaya 30, Verse 16

ततो युधिष्ठिरो राजा कुरुक्षेत्रमवातरत्

क्रमेणोत्तीर्य यमुनां नदीं परमपावनीम्

Mahabharata

Ashramavasika Parva, Adhyaya 30, Verse 17

स ददर्शाश्रमं दूराद्राजर्षेस्तस्य धीमतः

शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह

Mahabharata

Ashramavasika Parva, Adhyaya 30, Verse 18

ततः प्रमुदितः सर्वो जनस्तद्वनमञ्जसा

विवेश सुमहानादैरापूर्य भरतर्षभ