Mahabharata

Ashramavasika Parva, Adhyaya 29

Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 29, Verse 1

एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः

स्मरन्तो मातरं वीरा बभूवुर्भृशदुःखिताः

Mahabharata

Ashramavasika Parva, Adhyaya 29, Verse 2

ये राजकार्येषु पुरा व्यासक्ता नित्यशोऽभवन्

ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे

Mahabharata

Ashramavasika Parva, Adhyaya 29, Verse 3

आविष्टा इव शोकेन नाभ्यनन्दन्त किंचन

संभाष्यमाणा अपि ते न किंचित्प्रत्यपूजयन्

Mahabharata

Ashramavasika Parva, Adhyaya 29, Verse 4

ते स्म वीरा दुराधर्षा गाम्भीर्ये सागरोपमाः

शोकोपहतविज्ञाना नष्टसंज्ञा इवाभवन्

Mahabharata

Ashramavasika Parva, Adhyaya 29, Verse 5

अनुस्मरन्तो जननीं ततस्ते कुरुनन्दनाः

कथं नु वृद्धमिथुनं वहत्यद्य पृथा कृशा

Mahabharata

Ashramavasika Parva, Adhyaya 29, Verse 6

कथं च स महीपालो हतपुत्रो निराश्रयः

पत्न्या सह वसत्येको वने श्वापदसेविते

Mahabharata

Ashramavasika Parva, Adhyaya 29, Verse 7

सा च देवी महाभागा गान्धारी हतबान्धवा

पतिमन्धं कथं वृद्धमन्वेति विजने वने

Mahabharata

Ashramavasika Parva, Adhyaya 29, Verse 8

एवं तेषां कथयतामौत्सुक्यमभवत्तदा

गमने चाभवद्बुद्धिर्धृतराष्ट्रदिदृक्षया

Mahabharata

Ashramavasika Parva, Adhyaya 29, Verse 9

सहदेवस्तु राजानं प्रणिपत्येदमब्रवीत्

अहो मे भवतो दृष्टं हृदयं गमनं प्रति

Mahabharata

Ashramavasika Parva, Adhyaya 29, Verse 10

न हि त्वा गौरवेणाहमशकं वक्तुमात्मना

गमनं प्रति राजेन्द्र तदिदं समुपस्थितम्

Mahabharata

Ashramavasika Parva, Adhyaya 29, Verse 11

दिष्ट्या द्रक्ष्यामि तां कुन्तीं वर्तयन्तीं तपस्विनीम्

जटिलां तापसीं वृद्धां कुशकाशपरिक्षताम्

Mahabharata

Ashramavasika Parva, Adhyaya 29, Verse 12

प्रासादहर्म्यसंवृद्धामत्यन्तसुखभागिनीम्

कदा नु जननीं श्रान्तां द्रक्ष्यामि भृशदुःखिताम्

Mahabharata

Ashramavasika Parva, Adhyaya 29, Verse 13

अनित्याः खलु मर्त्यानां गतयो भरतर्षभ

कुन्ती राजसुता यत्र वसत्यसुखिनी वने

Mahabharata

Ashramavasika Parva, Adhyaya 29, Verse 14

सहदेववचः श्रुत्वा द्रौपदी योषितां वरा

उवाच देवी राजानमभिपूज्याभिनन्द्य च

Mahabharata

Ashramavasika Parva, Adhyaya 29, Verse 15

कदा द्रक्ष्यामि तां देवीं यदि जीवति सा पृथा

जीवन्त्या ह्यद्य नः प्रीतिर्भविष्यति नराधिप

Mahabharata

Ashramavasika Parva, Adhyaya 29, Verse 16

एषा तेऽस्तु मतिर्नित्यं धर्मे ते रमतां मनः

योऽद्य त्वमस्मान्राजेन्द्र श्रेयसा योजयिष्यसि

Mahabharata

Ashramavasika Parva, Adhyaya 29, Verse 17

अग्रपादस्थितं चेमं विद्धि राजन्वधूजनम्

काङ्क्षन्तं दर्शनं कुन्त्या गान्धार्याः श्वशुरस्य च

Mahabharata

Ashramavasika Parva, Adhyaya 29, Verse 18

इत्युक्तः स नृपो देव्या पाञ्चाल्या भरतर्षभ

सेनाध्यक्षान्समानाय्य सर्वानिदमथाब्रवीत्

Mahabharata

Ashramavasika Parva, Adhyaya 29, Verse 19

निर्यातयत मे सेनां प्रभूतरथकुञ्जराम्

द्रक्ष्यामि वनसंस्थं च धृतराष्ट्रं महीपतिम्

Mahabharata

Ashramavasika Parva, Adhyaya 29, Verse 20

स्त्र्यध्यक्षांश्चाब्रवीद्राजा यानानि विविधानि मे

सज्जीक्रियन्तां सर्वाणि शिबिकाश्च सहस्रशः

Mahabharata

Ashramavasika Parva, Adhyaya 29, Verse 21

शकटापणवेशाश्च कोशशिल्पिन एव च

निर्यान्तु कोशपालाश्च कुरुक्षेत्राश्रमं प्रति

Mahabharata

Ashramavasika Parva, Adhyaya 29, Verse 22

यश्च पौरजनः कश्चिद्द्रष्टुमिच्छति पार्थिवम्

अनावृतः सुविहितः स च यातु सुरक्षितः

Mahabharata

Ashramavasika Parva, Adhyaya 29, Verse 23

सूदाः पौरोगवाश्चैव सर्वं चैव महानसम्

विविधं भक्ष्यभोज्यं च शकटैरुह्यतां मम

Mahabharata

Ashramavasika Parva, Adhyaya 29, Verse 24

प्रयाणं घुष्यतां चैव श्वोभूत इति मा चिरम्

क्रियन्तां पथि चाप्यद्य वेश्मानि विविधानि च

Mahabharata

Ashramavasika Parva, Adhyaya 29, Verse 25

एवमाज्ञाप्य राजा स भ्रातृभिः सह पाण्डवः

श्वोभूते निर्ययौ राजा सस्त्रीबालपुरस्कृतः

Mahabharata

Ashramavasika Parva, Adhyaya 29, Verse 26

स बहिर्दिवसानेवं जनौघं परिपालयन्

न्यवसन्नृपतिः पञ्च ततोऽगच्छद्वनं प्रति