Ashramavasika Parva, Adhyaya 28, Verse 1
वनं गते कौरवेन्द्रे दुःखशोकसमाहताः
बभूवुः पाण्डवा राजन्मातृशोकेन चार्दिताः
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
वनं गते कौरवेन्द्रे दुःखशोकसमाहताः
बभूवुः पाण्डवा राजन्मातृशोकेन चार्दिताः
तथा पौरजनः सर्वः शोचन्नास्ते जनाधिपम्
कुर्वाणाश्च कथास्तत्र ब्राह्मणा नृपतिं प्रति
कथं नु राजा वृद्धः स वने वसति निर्जने
गान्धारी च महाभागा सा च कुन्ती पृथा कथम्
सुखार्हः स हि राजर्षिर्न सुखं तन्महावनम्
किमवस्थः समासाद्य प्रज्ञाचक्षुर्हतात्मजः
सुदुष्करं कृतवती कुन्ती पुत्रानपश्यती
राज्यश्रियं परित्यज्य वनवासमरोचयत्
विदुरः किमवस्थश्च भ्रातुः शुश्रूषुरात्मवान्
स च गावल्गणिर्धीमान्भर्तृपिण्डानुपालकः
आकुमारं च पौरास्ते चिन्ताशोकसमाहताः
तत्र तत्र कथाश्चक्रुः समासाद्य परस्परम्
पाण्डवाश्चैव ते सर्वे भृशं शोकपरायणाः
शोचन्तो मातरं वृद्धामूषुर्नातिचिरं पुरे
तथैव पितरं वृद्धं हतपुत्रं जनेश्वरम्
गान्धारीं च महाभागां विदुरं च महामतिम्
नैषां बभूव संप्रीतिस्तान्विचिन्तयतां तदा
न राज्ये न च नारीषु न वेदाध्ययने तथा
परं निर्वेदमगमंश्चिन्तयन्तो नराधिपम्
तच्च ज्ञातिवधं घोरं संस्मरन्तः पुनः पुनः
अभिमन्योश्च बालस्य विनाशं रणमूर्धनि
कर्णस्य च महाबाहोः संग्रामेष्वपलायिनः
तथैव द्रौपदेयानामन्येषां सुहृदामपि
वधं संस्मृत्य ते वीरा नातिप्रमनसोऽभवन्
हतप्रवीरां पृथिवीं हतरत्नां च भारत
सदैव चिन्तयन्तस्ते न निद्रामुपलेभिरे
द्रौपदी हतपुत्रा च सुभद्रा चैव भामिनी
नातिप्रीतियुते देव्यौ तदास्तामप्रहृष्टवत्
वैराट्यास्तु सुतं दृष्ट्वा पितरं ते परिक्षितम्
धारयन्ति स्म ते प्राणांस्तव पूर्वपितामहाः