Mahabharata

Ashramavasika Parva, Adhyaya 27

Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 27, Verse 1

नारदस्य तु तद्वाक्यं प्रशशंसुर्द्विजोत्तमाः

शतयूपस्तु राजर्षिर्नारदं वाक्यमब्रवीत्

Mahabharata

Ashramavasika Parva, Adhyaya 27, Verse 2

अहो भगवता श्रद्धा कुरुराजस्य वर्धिता

सर्वस्य च जनस्यास्य मम चैव महाद्युते

Mahabharata

Ashramavasika Parva, Adhyaya 27, Verse 3

अस्ति काचिद्विवक्षा तु मम तां गदतः शृणु

धृतराष्ट्रं प्रति नृपं देवर्षे लोकपूजित

Mahabharata

Ashramavasika Parva, Adhyaya 27, Verse 4

सर्ववृत्तान्ततत्त्वज्ञो भवान्दिव्येन चक्षुषा

युक्तः पश्यसि देवर्षे गतीर्वै विविधा नृणाम्

Mahabharata

Ashramavasika Parva, Adhyaya 27, Verse 5

उक्तवान्नृपतीनां त्वं महेन्द्रस्य सलोकताम्

न त्वस्य नृपतेर्लोकाः कथितास्ते महामुने

Mahabharata

Ashramavasika Parva, Adhyaya 27, Verse 6

स्थानमस्य क्षितिपतेः श्रोतुमिच्छाम्यहं विभो

त्वत्तः कीदृक्कदा वेति तन्ममाचक्ष्व पृच्छतः

Mahabharata

Ashramavasika Parva, Adhyaya 27, Verse 7

इत्युक्तो नारदस्तेन वाक्यं सर्वमनोनुगम्

व्याजहार सतां मध्ये दिव्यदर्शी महातपाः

Mahabharata

Ashramavasika Parva, Adhyaya 27, Verse 8

यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिम्

दृष्टवानस्मि राजर्षे तत्र पाण्डुं नराधिपम्

Mahabharata

Ashramavasika Parva, Adhyaya 27, Verse 9

तत्रेयं धृतराष्ट्रस्य कथा समभवन्नृप

तपसो दुश्चरस्यास्य यदयं तप्यते नृपः

Mahabharata

Ashramavasika Parva, Adhyaya 27, Verse 10

तत्राहमिदमश्रौषं शक्रस्य वदतो नृप

वर्षाणि त्रीणि शिष्टानि राज्ञोऽस्य परमायुषः

Mahabharata

Ashramavasika Parva, Adhyaya 27, Verse 11

ततः कुबेरभवनं गान्धारीसहितो नृपः

विहर्ता धृतराष्ट्रोऽयं राजराजाभिपूजितः

Mahabharata

Ashramavasika Parva, Adhyaya 27, Verse 12

कामगेन विमानेन दिव्याभरणभूषितः

ऋषिपुत्रो महाभागस्तपसा दग्धकिल्बिषः

Mahabharata

Ashramavasika Parva, Adhyaya 27, Verse 13

संचरिष्यति लोकांश्च देवगन्धर्वरक्षसाम्

स्वच्छन्देनेति धर्मात्मा यन्मां त्वं परिपृच्छसि

Mahabharata

Ashramavasika Parva, Adhyaya 27, Verse 14

देवगुह्यमिदं प्रीत्या मया वः कथितं महत्

भवन्तो हि श्रुतधनास्तपसा दग्धकिल्बिषाः

Mahabharata

Ashramavasika Parva, Adhyaya 27, Verse 15

इति ते तस्य तच्छ्रुत्वा देवर्षेर्मधुरं वचः

सर्वे सुमनसः प्रीता बभूवुः स च पार्थिवः

Mahabharata

Ashramavasika Parva, Adhyaya 27, Verse 16

एवं कथाभिरन्वास्य धृतराष्ट्रं मनीषिणः

विप्रजग्मुर्यथाकामं ते सिद्धगतिमास्थिताः