Ashramavasika Parva, Adhyaya 26, Verse 1
ततस्तस्मिन्मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः
नारदः पर्वतश्चैव देवलश्च महातपाः
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततस्तस्मिन्मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः
नारदः पर्वतश्चैव देवलश्च महातपाः
द्वैपायनः सशिष्यश्च सिद्धाश्चान्ये मनीषिणः
शतयूपश्च राजर्षिर्वृद्धः परमधार्मिकः
तेषां कुन्ती महाराज पूजां चक्रे यथाविधि
ते चापि तुतुषुस्तस्यास्तापसाः परिचर्यया
तत्र धर्म्याः कथास्तात चक्रुस्ते परमर्षयः
रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम्
कथान्तरे तु कस्मिंश्चिद्देवर्षिर्नारदस्तदा
कथामिमामकथयत्सर्वप्रत्यक्षदर्शिवान्
पुरा प्रजापतिसमो राजासीदकुतोभयः
सहस्रचित्य इत्युक्तः शतयूपपितामहः
स पुत्रे राज्यमासज्य ज्येष्ठे परमधार्मिके
सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः
स गत्वा तपसः पारं दीप्तस्य स नराधिपः
पुरंदरस्य संस्थानं प्रतिपेदे महामनाः
दृष्टपूर्वः स बहुशो राजन्संपतता मया
महेन्द्रसदने राजा तपसा दग्धकिल्बिषः
तथा शैलालयो राजा भगदत्तपितामहः
तपोबलेनैव नृपो महेन्द्रसदनं गतः
तथा पृषध्रो नामासीद्राजा वज्रधरोपमः
स चापि तपसा लेभे नाकपृष्ठमितो नृपः
अस्मिन्नरण्ये नृपते मान्धातुरपि चात्मजः
पुरुकुत्सो नृपः सिद्धिं महतीं समवाप्तवान्
भार्या समभवद्यस्य नर्मदा सरितां वरा
सोऽस्मिन्नरण्ये नृपतिस्तपस्तप्त्वा दिवं गतः
शशलोमा च नामासीद्राजा परमधार्मिकः
स चाप्यस्मिन्वने तप्त्वा तपो दिवमवाप्तवान्
द्वैपायनप्रसादाच्च त्वमपीदं तपोवनम्
राजन्नवाप्य दुष्प्रापां सिद्धिमग्र्यां गमिष्यसि
त्वं चापि राजशार्दूल तपसोऽन्ते श्रिया वृतः
गान्धारीसहितो गन्ता गतिं तेषां महात्मनाम्
पाण्डुः स्मरति नित्यं च बलहन्तुः समीपतः
त्वां सदैव महीपाल स त्वां श्रेयसि योक्ष्यति
तव शुश्रूषया चैव गान्धार्याश्च यशस्विनी
भर्तुः सलोकतां कुन्ती गमिष्यति वधूस्तव
युधिष्ठिरस्य जननी स हि धर्मः सनातनः
वयमेतत्प्रपश्यामो नृपते दिव्यचक्षुषा
प्रवेक्ष्यति महात्मानं विदुरश्च युधिष्ठिरम्
संजयस्त्वदनुध्यानात्पूतः स्वर्गमवाप्स्यति
एतच्छ्रुत्वा कौरवेन्द्रो महात्मा; सहैव पत्न्या प्रीतिमान्प्रत्यगृह्णात्
विद्वान्वाक्यं नारदस्य प्रशस्य; चक्रे पूजां चातुलां नारदाय
तथा सर्वे नारदं विप्रसंघाः; संपूजयामासुरतीव राजन्
राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै; पुनः पुनः समहृष्टास्तदानीम्