Mahabharata

Ashramavasika Parva, Adhyaya 25

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Ashramavasika Parva, Adhyaya 25, Verse 1

ततो भागीरथीतीरे मेध्ये पुण्यजनोचिते

निवासमकरोद्राजा विदुरस्य मते स्थितः

Mahabharata

Ashramavasika Parva, Adhyaya 25, Verse 2

तत्रैनं पर्युपातिष्ठन्ब्राह्मणा राष्ट्रवासिनः

क्षत्रविट्शूद्रसंघाश्च बहवो भरतर्षभ

Mahabharata

Ashramavasika Parva, Adhyaya 25, Verse 3

स तैः परिवृतो राजा कथाभिरभिनन्द्य तान्

अनुजज्ञे सशिष्यान्वै विधिवत्प्रतिपूज्य च

Mahabharata

Ashramavasika Parva, Adhyaya 25, Verse 4

सायाह्ने स महीपालस्ततो गङ्गामुपेत्य ह

चकार विधिवच्छौचं गान्धारी च यशस्विनी

Mahabharata

Ashramavasika Parva, Adhyaya 25, Verse 5

तथैवान्ये पृथक्सर्वे तीर्थेष्वाप्लुत्य भारत

चक्रुः सर्वाः क्रियास्तत्र पुरुषा विदुरादयः

Mahabharata

Ashramavasika Parva, Adhyaya 25, Verse 6

कृतशौचं ततो वृद्धं श्वशुरं कुन्तिभोजजा

गान्धारीं च पृथा राजन्गङ्गातीरमुपानयत्

Mahabharata

Ashramavasika Parva, Adhyaya 25, Verse 7

राज्ञस्तु याजकैस्तत्र कृतो वेदीपरिस्तरः

जुहाव तत्र वह्निं स नृपतिः सत्यसंगरः

Mahabharata

Ashramavasika Parva, Adhyaya 25, Verse 8

ततो भागीरथीतीरात्कुरुक्षेत्रं जगाम सः

सानुगो नृपतिर्विद्वान्नियतः संयतेन्द्रियः

Mahabharata

Ashramavasika Parva, Adhyaya 25, Verse 9

तत्राश्रमपदं धीमानभिगम्य स पार्थिवः

आससादाथ राजर्षिः शतयूपं मनीषिणम्

Mahabharata

Ashramavasika Parva, Adhyaya 25, Verse 10

स हि राजा महानासीत्केकयेषु परंतपः

स पुत्रं मनुजैश्वर्ये निवेश्य वनमाविशत्

Mahabharata

Ashramavasika Parva, Adhyaya 25, Verse 11

तेनासौ सहितो राजा ययौ व्यासाश्रमं तदा

तत्रैनं विधिवद्राजन्प्रत्यगृह्णात्कुरूद्वहम्

Mahabharata

Ashramavasika Parva, Adhyaya 25, Verse 12

स दीक्षां तत्र संप्राप्य राजा कौरवनन्दनः

शतयूपाश्रमे तस्मिन्निवासमकरोत्तदा

Mahabharata

Ashramavasika Parva, Adhyaya 25, Verse 13

तस्मै सर्वं विधिं राजन्राजाचख्यौ महामतिः

आरण्यकं महाराज व्यासस्यानुमते तदा

Mahabharata

Ashramavasika Parva, Adhyaya 25, Verse 14

एवं स तपसा राजा धृतराष्ट्रो महामनाः

योजयामास चात्मानं तांश्चाप्यनुचरांस्तदा

Mahabharata

Ashramavasika Parva, Adhyaya 25, Verse 15

तथैव देवी गान्धारी वल्कलाजिनवासिनी

कुन्त्या सह महाराज समानव्रतचारिणी

Mahabharata

Ashramavasika Parva, Adhyaya 25, Verse 16

कर्मणा मनसा वाचा चक्षुषा चापि ते नृप

संनियम्येन्द्रियग्राममास्थिताः परमं तपः

Mahabharata

Ashramavasika Parva, Adhyaya 25, Verse 17

त्वगस्थिभूतः परिशुष्कमांसो; जटाजिनी वल्कलसंवृताङ्गः

स पार्थिवस्तत्र तपश्चचार; महर्षिवत्तीव्रमपेतदोषः

Mahabharata

Ashramavasika Parva, Adhyaya 25, Verse 18

क्षत्ता च धर्मार्थविदग्र्यबुद्धिः; ससंजयस्तं नृपतिं सदारम्

उपाचरद्घोरतपो जितात्मा; तदा कृशो वल्कलचीरवासाः